भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 2.10

2.10.1

इति द्वितीये नवमः खण्डः ॥9॥
दशमः खण्डः
फाल्गुन्यां पौर्णमास्यां पुरस्ताद्धानापूपाभ्यां भगं चार्यमणंच यजेत्

2.10.2

इन्द्राण्या हविष्यान् पिष्ट्वा पिष्टानि समुत्पूय यावन्ति पशुजातानि तावतो मिथुनान् प्रतिरूपान् श्रपयित्वा कांस्ये ऽध्याज्यान्कृत्वा तेनैव रुद्राय स्वाहेति ।
ईशानायेत्येके

2.10.3

सायमपूपाभ्यां प्रचरत्यग्नीन्द्राभ्याम्

2.10.4

आग्नेयस्तुन्दिलो न तस्य स्त्रियः प्राश्नन्ति सर्वामात्या इतरस्य

2.10.5

स्थालीपाकेनेन्द्राणीं शवो वा

2.10.6

संघेष्वेकवद्बर्हिरग्निराधाराज्यभागाज्याहुतयः स्विष्टकृच्च

2.10.7

अग्निरिन्द्रः सोमः सीता सवितासरस्वत्यश्चिनानुमती रेवती राका पूषा रुद्र इत्येतैरायोजन- पर्ययन-प्रवपन-प्रलव-सीतायज्ञ-खलयज्ञतन्तीयज्ञानडुद्यज्ञेष्वेता देवता इति यजति सांवत्सरेषु च पर्वसु

2.10.8

नद्युदधिकूपतडागेषु वरुणंयजत्योषधिवनस्पतिषु सोममनादिष्टदेवतेष्वग्निम्

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc