भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 2.1

2.1.1

इति मैत्रायणीयमानवगृह्ये त्रयोविंशः खण्डः प्रथमः पुरुषः समाप्तः ॥
(सप्तमे नवमे वोपायनम् ॥1॥
आगन्त्रा समगन्मही प्रथममर्त्तिं युयोतु नः ।
अरिष्टाः संचेरमहि स्वस्ति चरतादिशः ।
स्वस्त्याग्रहेभ्यः ॥
इत्युप्तकेशेन स्नातेनाक्तेनाभ्यक्तेनालंकृतेन यज्ञोपवीतिनासमेत्य जपति ॥ 1-22--2) (अथास्मैवासः प्रयच्छति-
या अकृन्तन्या अतन्वन्या आवन्या अवाहरन् ।
याश्च ग्ना देव्यो ऽन्तानभितो ऽततनन्त ॥
तास्वा देव्यो जरमे सं व्ययन्त्वायुष्मानिदं परिधत्स्व वासः ॥
इत्यहतं वासः ॥)॥
(पु. 1-22- 6-7-8-9)
(इयं दुरुक्तात्परिबाधमाना वर्णं पुराणं पुनतीम आगात् ।
प्राणापानाभ्यां बलमाभजन्ती शिवा देवी सुभगे मेखले मारिषाम ॥
इति तस्यां परिवीतायां जपति--
मम व्रते ते हृदयं दधातु मम चित्तमनुचित्तं ते अस्तु
मम वाचमेककव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यम् ॥
इति ॥10॥
यज्ञियस्य वृक्षस्य दण्डं प्रदाय कृष्णाजिनं चादित्यमुपस्थापयति-
अध्वानमध्वपते श्रैष्ठ्यस्य स्वस्तस्याध्वनः पारमशीय ।
तच्चक्षुर्देवहितं पुरस्तच्चुक्रमुच्चरत् ॥
शृणुयाम शरदः शतं जीवेम शरदः शतम् ।
अदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ॥
या मेधाप्सरःसु गन्धर्वेषु च यन्मनः ।
दैवी या मानुषी मेधा सा मामाविशतामिहैव ॥
इति ॥11॥
अभिदक्षिणमानीयाग्नेः पश्चात्---
एह्यश्मानमातिष्ठाश्मेव त्वं स्थिरो भव ।
कृण्वन्तु विश्वे देवा आयुष्चे शरदः शतम् ॥
(इति दक्षिणेन पादेनाश्मानमास्थापयति ॥12॥
पश्चादग्नेर्महदुपस्तीर्य सूपस्थलं कृत्वा प्राङासीनः प्रत्यङ्ङासीनायानुवाचयति गायत्रीं सावित्रीमपि ह्येके त्रिष्टुभमपि ह्येके जगतीमोमित्युत्त्का व्याहृतिभिश्च ॥13॥
तां त्रिरवगृङ्णीयात्तां द्विरवकृत्य तां सकृत्समस्येत् पादशोर्ऽधर्चशः सर्वामन्तेन ॥14॥
यत्तिसृणां प्रातरन्वाह यत् द्वयोर्यदेकस्याः संवत्सरे द्वादशाहे षडहे त्र्यहे (वा तस्मात्सद्यो ऽनूच्यति श्रुतिः ॥15॥
वरं कर्त्रे ददाति कांस्यं वसनं च ॥16॥
यस्य तु मेधाकामः स्यात्पलाशं नवनीतेनाभ्यज्य तस्य छायायांवाचयेत् ।
सुश्रवः सुश्रवा असि
यथा त्वंसुश्रवः सुश्रवा असि एवं मां सुश्रवः सौश्रवसं कुरु ॥
यथा त्वं देवानां वेदानां निधिपो असि ।
एवमहं मनुष्याणां वेदानां निधिपो भूयासमिति ॥17॥
(अधीतेह वा अयमेषां वेदानामेकं द्वौ त्रीन् सर्वान्वेति यमेनं विद्वांसमुपनयतीति श्रुतिः ॥18॥
व्याख्यातं ब्रह्मचर्यम् ॥19॥
अथ भैक्षं चरते मातरमेवाग्रे याश्चान्याः सुहृदो यावत्यो वा सन्निहिताः स्युः ॥20॥
आचार्याय भैक्षमुपकल्पयते तेनानुज्ञातो वा भुञ्जीतेति श्रुतिः ॥21॥
द्वितीयः पुरुषः ।
औद्वाहिकं प्रेतपिता शालाग्निंकुर्वीत

2.1.2

अन्यत्र ततः प्रेते पितरि प्रज्वलन्तो ऽग्निं जागरयेयुः पर्वणि ज्यैत्स्ने पुण्ये नक्षत्रे ऽन्यत्र नवम्याः

2.1.3

स्नातः शुचिरहतवासाः

2.1.4

वाग्यतावरणिपामि जागृतः

2.1.5

अवकाशे ऽक्षतान्यवान्पिष्ट्वा मन्थमायौत्यनालम्बमिक्षुशलाकया बहुलम्

2.1.6

हिरण्यपाणिं सवितारं वायुमिन्द्रं प्रजापतिम् ।
विश्वान्देवानङ्गिरसो हवामहे
अमुं क्रव्यादं शमयन्त्वग्निम् ॥
इति मन्थेनाग्निमवसिञ्चति

2.1.7

सोमो राजा विभजतूभाग्निर्व्विभाजयन् ।
इहैवास्तु हव्यवाहनो ऽग्निः क्रव्यादं नुदस्व ॥
इति कटे कृतायां वाग्निंसमारोप्य प्रहिणोति

2.1.8

क्रव्यादमग्निं प्रहिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः ।
इहैवायमितरो जातवेदा देवेभ्यो हव्या वहतु प्रजानन् ॥
इत्यग्निमादाय दक्षिणा प्रत्यघरन्ति

2.1.9

सहाधिकरणैर्यन्ति

2.1.10

स्वकृत इरिणे--
सीसे मलिम्लुचामहे शिरोमिमुपबर्हणे ।
अव्यामसितायामृष्ट्वास्तं प्रेतसुदानवः ॥
इति सीसमुपधान्येन्यस्याध्यधि

2.1.11

धाम्नो धाम्न इति तिसृभिः परोगोष्ठं मार्जयन्ते

2.1.12

अनपेक्षमाणाः प्रत्यायन्ति

2.1.13

नलैर्वेतसशाखया वा पदानि लोपयन्ते--
मृत्योः पदानि लोपयन्ते यदेतद्द्राघीर्य आयुः प्रतिरं दधानः ।
आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवन्तु यज्ञियासः

2.1.14

अनड्वाहं प्लवमन्वारभध्वं येनावेपत्सरमा रपन्ती ॥
इति

2.1.15

अग्न्यायतनमुद्धत्यावोक्ष्याग्न्याधेयिक्यान्पार्थिवान्संभारान्निर्वपत्यूषसिकतवर्जम्

2.1.16

अरणिभ्यामग्निं मथित्वा हिरण्यशकलं च न्युप्य प्रागुदयादुपस्थकृतो भूरिति ज्वलन्तमादधाति

2.1.17

गौर्वासः कांस्यं च दक्षिणा

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc