भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 1.23

1.23.1

इति द्वाविंशः खण्डः ॥
त्रयोविंशः खण्डः
अथ दीक्षा चातुर्हैतुकी संवत्सरम्

1.23.2

चतुर्होतॄन्स्वकर्मणो जुहुयात् सह षड्ढोत्रा सप्तहोतारम्

1.23.3

अन्ततो व्रतं प्रदायादितो द्वावनुवाकावनुवाचयेत्

1.23.4

एवमेवोद्दीक्षां जुहुयात्

1.23.6

अथ दीक्षाग्निकीद्वादशरात्रम् ॥ मन्ग्स्_1,23. 5 ॥
युञ्जानः प्रथमं मन इतियष्टौ हुत्वाकूतमग्निं प्रयुञ्जं स्वाहेति षड् जुहोति विश्वोदेवस्य नेतुरिति सप्तमीम्

1.23.7

व्रतं प्रदायादितोषष्टावनुवाकाननुवाचयेत्

1.23.8

त्रिषवणमुदकमाहरेत् त्रिंस्त्रीन्कुम्भान्

1.23.9

एकेन वाससान्तर्हितायां भूमौ शयीत भस्मनि करीषे सिकतासु वा

1.23.10

नोदकमभ्यवेयात्

1.23.11

समाप्ते घृतवतापूपेनेष्ट्वा वात्सं प्रावचयेत्

1.23.12

ततो घृतवद्भिरपूपैर्ब्राह्मणान् भोजयेत्

1.23.13

एवमेवोद्दीक्षां जुहुयात्

1.23.14

अथ दीक्षाश्वमेधिकी ह्वाहशरात्रम्

1.23.15

वैतसमिध्ममुपसमाधाय नवमेनानुवाकेन हुत्वा षष्ठेनोपस्थाप्य व्रतं प्रदायादित एकविंशत्यनुवाकाननुवाचयेत्

1.23.16

त्रिषवणमश्वस्यघासमाहरेत् त्रीं स्त्रीन्पुलान्

1.23.17

एकेन वाससानन्तर्हितायां भूमौ शयीत भस्मनि करीषे सिकतासु वा

1.23.18

या ओषधयःसमान्यायन्ति पुनन्तु मा पितरो ऽग्नेर्मन्वा इति चतुर्भिरनुवाकैरपोभिमन्त्र्य स्नानमाचरेत्

1.23.19

एवमेवोद्दीक्षां जुहुयात्

1.23.20

शादं दद्भिरिति चतुर्दशानुवाकाननुवाचयेत्

1.23.21

रहस्यमध्येष्यमाणः प्रवर्ग्यम्

1.23.22

आदेशे यथा पुरस्ताद्व्याख्यातम्

1.23.23

आदितः पञ्चविंशत्यनुवाकाननुवाचयेत्

1.23.24

त्रैविद्यसमुपनयनेन व्याख्यातम्

1.23.25

आदितस्त्रीननुवाकाननुवाचयेत्

1.23.26

व्याख्यातानि व्रतानि व्याख्यातानि व्रतानि

1.23.27

उदुत्तमं वरुणपाशमिति मेखलामुन्मुञ्चति

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc