मानवगृह्यसूत्र · अध्याय 1.9
इति अष्टमः खण्डः ॥8॥
नवमः खण्डः
षडध्यार्हा भवन्त्यृत्विगाचार्यो विवाह्यो राजा स्नातकः प्रियश्चेति
अप्राकरणिकान्वा परिसंवत्सरादर्हयन्ति
प्राकरणिकाः कर्तारः सदस्याश्च वृताः
न जीवत्पितृकोर्ऽध्यं प्रतिगृह्णीयादितिश्रुतिरथवा प्रतिगृह्णीयात्
अथैनमर्हयन्ति ॥ मन्ग्स्_1,9. 5 ॥
कांस्ये चमसे वा दधि मधु चानीय वर्षीयसा पिधायाचमनीयप्रथमैः प्रतिपद्यन्ते
विराजो दोहोसि विराजो दोहोसि विराजो दोहमशीय मयि दोहः पद्यायै विराजः कल्पतामित्येकैक माह्रिमाणं प्रतीक्षते
सावित्रेण विष्टरं प्रतिगृह्य अहं वर्ष्म सदृशानामुद्यतामिव सूर्यः इदं तमभितिष्ठामि यो मा कश्चाभिदासतीति जपति
राष्ट्रभृदसीत्याचार्य आसन्दीमनुमन्त्रयते
मा त्वा दोष इत्यधस्तात्पादयोर्विष्टरमुपकर्षति
विष्टर आसीनायै कैकं त्रिः प्राह
नैव भो इत्याह नम आर्षेयायेति श्रुतिः स्पृशत्यर्घ्यम्
पाद्येन पादौ प्रक्षाल्य सावित्रेण मधुपर्कं प्रतिगृह्य प्रतिष्ठाप्यवसाय्य नमो रुद्राय पात्रसदे नमो रुद्राय पात्रसद इति प्रादेशेनाध्यधि प्रतिदिशं प्रदक्षिणं
सर्वतो ऽभ्युद्दिशति
मधुवाता ऋतायत इति तिसृभिरङ्गुल्या प्रदक्षिणं प्रत्यृचं त्रिरायौति
अमृतोपस्तरणमसीत्युपस्तरति
सत्यं यशः श्रीर्मयि श्रीःश्रयतामिति मधुपर्कं त्रिः प्राश्नाति
अमृतापिधानमसीत्याचामति
सुहृदे ऽवशिष्टं प्रयच्छति
असि पाणिर्गां प्राह
हतो मे पाप्मानं मे हत ओंकुरुत इति प्रेष्यति
चतुरो ब्राह्मणान्नानागोत्रान् भोजयते
पश्वङ्गं पायसं वा कारयेन्नामांसो मधुपर्क इति श्रुतिः
यद्युत्सृजेन्माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।
प्रनुवोचं चिकितुषे जनाय मागा मनागा मदितिं वङिष्ट ।
भुर्भुवः स्वरोत्मुत्सृजतु तृणान्यत्तु
अथालंकारणमलंकरणमसि सर्वस्मा अलं मे भूयासम्
प्रणापानौ मे तर्पय उदीनरूपे मे तर्पय सुचक्षा अह मक्षिभ्यां भूयासं सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां भूयासामिति यतालिङ्गमङ्गानि संस्पृशति
अथ गन्धोत्सदने वाससी
परिधास्ये यशो धास्ये दीर्घायुत्वाय जरदष्टिरस्तु
शतं जीवेमशरदः पुरूची रीयस्पोषमभिसंव्ययिष्ये
यशसा माद्यावा पृथिवी यशसेन्द्रा बृहस्पती
यशो भगश्च मारिषद्यशो मा प्रति मुच्यतामं
इत्यहतं-वासः परिधत्ते
कुमार्याः प्रमदने भगमर्यमणं पूषणं त्वष्टारमिति यजति
।
प्राक्स्विष्टकृतश्चतस्रो अविधवा नन्दीरुपवादयन्ति
अभ्यन्तरे कौतुके देवपत्नीर्जयति
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0