भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 1.10

1.10.1

इति नवमः खण्डः ॥9॥
दशमः खण्डः
प्रागुदञ्चं लक्षणमुद्धृत्यावोक्ष्य स्थणिडलं गोमयेनोपलिप्य मण्डलं चतुरस्रं वा अग्निं निर्मथ्याभिमुखं प्रणयेत् तत्र ब्रह्मोपवेशनम्

1.10.2

दर्भाणां पवित्रे मन्त्रवदुत्पाद्येमंस्तोम मर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य पश्चादग्नेरेकवद्बहिःस्तृणाति

1.10.3

उदक्प्राक्तूलान्दर्भान्प्रकृष्य दक्षिणांस्तथोत्तरानग्रेणाग्निं दक्षिणैरुत्तरानवस्तृणाति

1.10.4

दक्षिणतो ऽग्नेर्ब्रह्मणे संस्तृणात्यपरं यजमानाय पश्चार्ज्झे पत्न्यै अपरमपरंशाखोदकधारयोर्लाजा धार्याश्च पश्चाद्युगधारस्य च

1.10.5

स्योना पृथिवि भवेत्येतयावस्थाप्य शमीमयीः शम्याः कृत्वान्तगोर्ष्ठे ऽग्निमुपसमाधाय भर्ता भार्यामभ्युदानयति

1.10.6

वाससोन्ते गृहीत्वा-
ऽअघोर चक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः वीरसूदेर्वकामा स्योना शं नो भव द्विपदे शं चतुष्पदेऽ इत्यभिपरिगृह्याभ्युदानयति

1.10.7

उत्तरेण रथं वानोवानुपरिक्रम्यान्तरेण ज्वलनवहनावतिक्रम्य दक्षिणास्यां धुर्युत्तरस्य युगतन्मनो ऽधस्तात्कन्यामवस्थाप्य शम्यामुत्कृष्य हिरण्यमन्तर्धाय हिरण्यवर्णाः शुचय इति तिसृभिरद्भिरभिषिच्य अज्त्रैव बाणशब्दं कुरुतेति प्रेष्यति

1.10.8

अथास्यै वासः प्रयच्छति-
या अकृन्तन्या अतन्वन्या आवन्या अवाहरन्
याश्चाग्नादेव्यो ऽन्तानभितो ऽततनन्त ।
तास्त्वादेव्यो जरसे संव्ययन्त्वायुष्मतीदं परिधत्स्व वासः-इत्यहतं वासः- परिधाप्यान्वारभ्याधारावाज्यभागौ हुत्वा अग्नये जनविदे स्वाहेत्युत्तरार्धे जुहोति सोमाय जनविदे स्वाहेति दक्षिणार्द्धे गन्धर्वाय जनविदे स्वाहेति मध्ये

1.10.9

युक्तो वह यदाकूतमिति द्वाभ्यामग्निंयोजयित्वा नक्षत्रमिष्ट्वा नक्षत्रदेवतांयजेत्तिथिं तिथिदेवतामृतुदेवतां च

1.10.10

सोमोददद्गन्धर्वाय गन्धर्वो दददग्नये ।
रविं च पुत्रांश्चादादग्निर्मह्यमथो इमाम्
अग्निरस्याः प्रथमो जातवेदाः
सो ऽस्याः प्रज्ञा मुञ्चतु मृत्युपाशात् ।
तदिदं राजा वरुणो ऽनुमन्यताम् ।
यथेद्रंस्त्रीपौत्रमगन्म रुद्रियाय स्वाह-
इति हिरण्यगर्भ इत्यष्टाभिः प्रत्यृचमाज्याहुतीर्जुहुयात्

1.10.11

येन च कर्मणेचछेत्तत्र च जयान् जुहुयात् जयानांच श्रुतिस्तां यतोक्ताम् ।
आकूत्यै त्वा स्वाहा, भूत्यै त्वा स्वाह, प्रयुजे तेवा स्वाह, नभसे त्वा स्वाह, अर्यम्भणे त्वा स्वाह, समृध्यै त्वा स्वाह, जयायै त्वा स्वाह, कामाय त्वा स्वाहेत्यृचा स्तोमं प्रजापतय इति च

1.10.12

शुचिः प्रत्यङ्ङुपयन्ता तांसमीक्षस्वेत्याह

1.10.13

तस्यां समीक्षमाणायां जपति--
मम व्रते ते हृदयं दधातु मम चित्तमनुचित्तं ते ऽस्तु
मम वाचमेकमना जुषस्व प्रजापतिष्ठ्वा नियुनक्तुमह्यम्-इति

1.10.14

का नामासीत्याद

1.10.15

नामधेये
प्रोक्ते देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाभ्यसाविति हस्तं गृह्णन्नाम गृह्णाति ।
प्राङ्मुख्याः प्रात्याङ्मुक ऊर्ध्वस्तिष्टन्नासीनाया दक्षिण मुत्तानं दक्षिणेन नीचारिक्त मरिक्तेन- यथेन्द्रोहस्तमग्रहीत् सविता वरुणो भगः ।
गृह्णामि ते सौ भगत्वाय हस्तं मया पत्या जरदृष्टिर्यथा सत् ॥
भगो अर्यमा सविता पुरन्धिर् मह्यं त्वादुर्गार्हपत्याय दोवाः ।
याग्रे वाक् समवदत पुरा देवासुरेभ्यः ।
तामद्य गाथां गास्यामो या स्त्रीणामुत्तमं मनः ।
सरस्वति प्रेदमव सुभगे वाजिनीवति
यां त्वा विश्वस्य भूतस्य भव्यस्य प्रागायाम्यस्याग्रतः ।
अमोह मस्मि सा त्वं सा त्वमस्याप्यमोहम् ॥
द्यौ रहं पृथिवि त्वमृक् त्वमसि सामाहम् ॥
रेतोह मस्मि रेतो धत्तम् ॥
ता एव विवाहावहै पुंसे पुत्राय कर्त्तवै ।
श्रीये पुत्राय वेधवै ॥
रायस्योषया सुप्रजास्त्वाय सुवीर्याय ॥
इति

1.10.16

अभिदक्षिणमानीयाग्नेः पश्चात्---
एतमश्मानमातिष्टतमश्मेव युवां स्थिरो भवतम्
कृण्वन्तु विश्वे देवा आयुर्वा शरदः शतम् ।
इति दक्षिणाभ्यां पभ्द्यामश्मानमास्थापयति

1.10.17

यथेन्द्रः सहेन्द्राण्या अवारुहद् गन्धमादनात् ।
एवं त्वमस्मादश्मनो अवरोह सह पत्न्या ॥
आरोहस्व समे पादौ प्र पूर्व्यायुष्मती कन्ये पुत्रवती भव ।
इत्येवं द्विरास्थापयति

1.10.18

चतुः परिणयति

1.10.19

समितं संकल्पेथामिति पर्याये पर्याये ब्रह्मा ब्रह्मजपं जपेत्

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc