भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 1.8

1.8.1

इति सप्तमः खण्डः ।
अष्टमः खण्ड
पश्चादग्नेश्चत्वार्यासनान्युपकल्पयीत

1.8.2

तेषूपविशन्ति पुरस्तत्प्रत्यङ्मुखो दाता पश्चात्प्राङ्मुखः प्रतिग्रहीता दातुरुत्तरतः प्रत्यङ्मुखी कन्या दक्षिणत उदङ्मुखो मन्त्रकारः

1.8.3

तेषां मध्ये प्राक् तूलान्दर्भानस्तीर्या कांस्यमक्षतोदकेन पूरयित्वा अविधवास्मै प्रयच्छति

1.8.4

तत्र हिरण्यम्

1.8.5

अष्टौ मङ्गल्यान्यावेदयति

1.8.6

मङ्गल्यान्युक्ता ददामि प्रतिगृह्णामीति त्रिर्ब्रह्मदेया पिता भ्राता वा दद्यत्

1.8.7

सहिरण्यानञ्जलीनावपति धनाय त्वेतिदाता पुत्रेभ्यस्त्वेति प्रतिग्रहीता तस्मै प्रत्यावपति

1.8.8

चतुर्व्यतिहृत्य ददाति

1.8.9

सावित्रेण कन्यां प्रतिगृह्य प्रजापतय इति च क इदं कस्मा अदादिति सर्वत्रानुषजति कामैतत्त इतियन्तम्

1.8.10

समाना वा आकूतानीति सह जपन्त्यान्तादनुवाकस्य

1.8.11

खे रथस्य खे नसः युगस्य शतक्रतो अपालमिन्द्रस्त्रिः पूर्त्यवकृणोत्सूर्यत्वच मिति तेनोदकांस्येन कन्यामभिषिञ्चेत्

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc