मानवगृह्यसूत्र · अध्याय 1.2
इति प्रथमः खण्डः ॥1॥
द्वितीयः खण्डः ।
ओं अथ संध्यामुपास्ते
प्रागस्तमयान्निष्क्रम्योत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशे निषेद्योपस्पृश्यापामञ्जलिंपूरयित्वा प्रदक्षिणमावृत्य आयाहिविरजे देव्यक्षरे ब्रह्मसंमिते ।
गायत्रीं छन्दसां मातरिदं ब्रह्म जुषस्व मे ऽ इत्यावाहयति
आद्योजो ऽसीति जपित्वा कस्ते युनक्तीति योजयित्वों भूर्भुवः स्वस्तत्सवितुरित्यष्टौ कृत्वः प्रयुङ्क्त इत्याम्नाताः कामा आदेवो यातीति त्रिष्टुभं राजवन्यस्य युञ्जत इति जगतिं वैशम्य
उदुत्यं जातवेदसमिति द्वे निगद्य कस्ते विमुञ्जतीति विमुच्योदकाञ्जलिमुत्सृजति
एवं प्रातस्तिष्ठन्
एतेन धर्मेण द्वादशचतुर्विंशतिं षट्त्रिशतमष्टाचत्वारिं शतं वा वर्षाणि यो ब्राह्मणो राजन्यो वैश्यो वा द्रह्मचर्यं चरति मुण्डः शिखाजटः सर्वजटो वा मलज्ञुरबलः कृशः स्नात्वा स सर्वं विन्दते यत्किंचिन्मनसेच्छतीति
एतेन धर्मेण साध्वधीते
छन्दस्यर्थान्बुध्वा स्नीस्यन् गां कारयेत्
आचार्यमर्हयोच्छ्रोत्रियः
अन्यो वेदपाठी न तस्य स्नानम्
आपो हिष्ठेति तिसृभिर्हिरण्यवर्णाः शुचय इति द्वाभ्यां स्नात्वाहते वाससी परिधत्ते
वस्वसि वसुमन्तं मा कुरु सौवर्चसाय मा तेजसे ब्रह्मवर्चसाय परिदधामीति परिदधाति
यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः ।
एवं मे प्राण मा रिष इत्याङ्क्ते
हिरण्यमावध्नीते
छत्रं धारयते दण्डं मालां गन्धम्
प्रतिष्ठे स्थोदैवते द्यावापृथिवी मा मा संताप्तमित्युपानहौ
द्विवस्त्रो ऽत उर्ध्वं भवति तस्माच्छोभनं वासो भर्तव्यमिति श्रुतिः
आमन्त्र्यगुरून् गुरुबन्धूंश्च स्वान् गृहान्व्रजेत्
प्रतिषिद्धमपरया द्वारा निष्क्रमणं मलवद्वाससा सह संवस्त्रणं रजः सुनासिन्या सह शय्या गुरोर्दुरुक्तवचनमस्थाने शयनं स्मयनं सरणं स्थानं यानं गानं तस्य चेक्षणम्
पौर्णमास्याममावास्यायां वाग्नेयेन पशुना यजेत
तस्य पविर्भक्षयित्वा यथासुखमत ऊर्ध्वं मधुमांसे प्राश्नीयात्क्षारलवणे च
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0