मानवगृह्यसूत्र · अध्याय 1.1
श्रीमैत्रायणीयमानवगृह्यसूत्रभाष्यम् ।
प्रथमः पुरुषः ।
प्रथमः खण्डः
अथ मानवगृह्यसूत्रप्रारम्भः ।
ओं उपनयनप्रभृति व्रतचारी स्यात्
मार्गवासाः संहतकेशो भाक्षाचार्यवृत्तिः सशल्कदण्डः सप्त ।
मुञ्जां मेखलां धारयेदाचार्यस्याप्रतिकूलः सर्वकारी
यदेनमुपेयात् तदस्मै दद्याद् बहूनां येन संयुक्तः
नास्य शय्यामाविशेत्
न सवस्रयेत्
न रथमारोहेत्
नानृतं वदेत्
न मुषितांस्त्रियं प्रेक्षेत
न विहारार्थो जल्पेत्
न रुच्यर्थं किंचन धारयीत
सर्वाणि सां स्पर्शिकानि स्त्रीभ्यो वर्ज्जयेत्
न मधुमांसे प्राश्नीयात् क्षारलवणे च
न स्नायादुदकं वा भ्यावेयात्
यदि स्नायाद्दण्ड इवाप्सु प्लवेत
प्रागस्तमयान्निष्क्रम्य समिधावहारेर्द्धरिण्यौ ब्रह्मवर्चसकाम इति श्रुतिः
इमं स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्यैधोस्येधिषीमहीति समिधमादधाति, समिदसि समेधिषीमहीति द्वितीयाम्
अपो अद्यान्वचारिषमित्युपतिष्ठते ॥ मन्ग्स्_1,1. 17 ॥
यदग्रे तपसा तपो ब्रह्मचर्यमुपेयमसि ।
प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधस इति मुखं विमृष्टे
भद्रं कर्णेभिः शृणुयाम देवा इति श्रोत्रे अभिमृशति
भद्रं पश्येमाक्षाभिर् यजत्रा इति चक्षुषी
स्थिरै रङ्गै स्तुष्टुवां सस्तनूभिर् व्यशेम देवहितं यदायु रित्यङ्गानि
इह धृतिरिह स्वधृतिरिति हृदयदेशमारभ्य जपति
रुचं नो धेहीति पृथिवीमारभते
त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य त्र्यायुषम् ।
यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषमिति भस्मानाङ्गानि संस्पृश्यापोहिष्ठीयाभिर्मार्जायते
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0