भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 1.3

1.3.1

इति द्वितीयः खण्डः ॥
तृतीयः खण्डः ।
यमेवं विद्वांसमभ्युदियाद्वाभ्यस्त मियाद्वा प्रतिबुध्य जपेत्
पुनर्मा मैत्विन्द्रियं पुनरायुः पुनर्भगः
पुनर्द्रविणा मैतु मां पुनर्वाह्यण मैतु माम्
अथोयथेमे धिष्ण्यासो अग्नयो यथास्थानं
कल्पयन्ता मिहै-वेत्यभ्युदितः

1.3.2

पुनर्मात्मा पुनरायुरैतु पुनः प्राणः पुनराकूतिरैतु वैश्वानरो वावृधानो वरेणान्तस्तिष्ठतो मे मनो अमृतस्य केतुः इत्यभ्यस्त मितः

1.3.3

उभावेव वाभ्युदितो जपेदुभावेव वाभ्यस्तमितः

1.3.4

यद्याचरणीयान्वाचरेदनाक्रोशेदभोज्यस्यवान्न मश्नीयादक्षि वास्पन्देत्कर्णो वाक्रोशेदग्निं वा चितिमारोहेत्स्मशानं वा गच्छेद्युपं वोस्पृशेद्रेतसो वा स्कन्देदेताभ्यामेव मन्त्राभ्यामाहुतिर्जुहुयादपि वाज्यलिप्ते समिधे वादध्यादपि वा मन्त्रावेव जपेत्

1.3.5

एवमधर्ममाचर्यास्थूलम्

1.3.6

स्थूले वेषणया विहरेदवस्त्रो लोमत्वगाच्छादो ऽग्निमारोहेत्संग्रामे वा धातयेदपि वाग्निमिन्धानं तपसाऽत्मानमुपयोजयीत

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc