भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 1.13

1.13.1

इति द्वादशः खण्डः ॥12॥
त्रयोदशः खण्डः
पुण्याहे युङ्क्ते

1.13.2

युञ्जन्ति ब्रध्नमिति द्वाभ्यां युज्यमानमनुमन्त्रयते दक्षिणमथोत्तरम्

1.13.3

अहतेन वाससा दर्भैर्वा रथं संमार्ष्टि

1.13.4

अह्कून्यङ्कावबितो रथं ये धावन्ता वाता अग्निमभिये संचरन्ति दूरे हेतिः पतत्री वाजिनी वांस्ते नो ऽग्नयः पप्रयः पालयन्तु इति चक्रे अभिमन्त्रयते

1.13.5

वनस्पते विड्वङ्ग इतियधिष्टानम्

1.13.6

सुकिं शुक्रं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् आरोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतं, कृणुष्व ॥
इत्यारोहयति

1.13.7

अनुमायन्तु देवता अनुब्रह्म सुवीर्यम् ।
अनुक्षत्रं तु यद्बलमनुमामैतु मद्यशः ॥
इति प्राङभिप्रयाय प्रदक्षिणमावर्तयति

1.13.8

प्रतिमायन्तु देवताः प्रतिब्रह्म सुवीर्यम् ।
प्रतिक्षत्रं तु यद्बलं प्रति मामैतु यद्यशः ॥
इति यथास्तं यन्त मनुमन्त्रयते

1.13.9

अमङ्गल्यं चेदतिक्रामति अनुमायन्त्विति जपति

1.13.10

नमो रुद्राय ग्रामसद इति ग्रामे इमा रुद्रायेति च

1.13.11

ऽनमो रुद्रायैक वृक्षसदऽ इत्येकवृक्षे ।
ऽये वृक्षेषु शिष्पञ्जराऽ इति च

1.13.12

ऽनमो रुद्राय श्माशानसदऽ इति श्मशाने ।
ऽये भूताना मधिपतयऽ इति च

1.13.13

ऽनमो रुद्राय चतुष्पथसदऽ इति चतुष्पथे ।
ऽये पथां पथि रक्षयऽ इति च

1.13.14

ऽनमो रुद्राय तीर्थसदऽ इति तीर्थे ।
ऽये तीर्थानि प्रचरन्तीतिऽ च

1.13.15

यत्रापस्तरितव्या आसीदिति समुद्राय वैणवे सिन्धूनां पतये नमः ।
नमो नदीनां सर्वासां पत्ये ।
विश्वाहा जुषतां विश्वकर्मणामिदं हविः स्वः स्वाहेत्यप्सूदकाञ्जलीन्निनयति ।
अमृतं वा आस्ये जुहोम्यायुः प्राणे ऽप्यमृतं ब्रह्मणा सह मृत्युन्तरति ।
प्रासहादिति रिष्टिरिति मुक्तिरिति मुक्षीयमाणः सर्वं भयं नुदस्व स्वाहेति त्रिः परिमृज्याचामति

1.13.16

यदि नावा तरेत् सुत्रामाणमिति जपेत्

1.13.17

यदि रथाक्षः शम्याणीवा रिष्येतान्यद्वा रथाङ्गं तत्रैवाग्निभुपसमाधाय जयप्रभृतिभिर्हुत्वा सुमङ्गलीरियं वधूरिति जपेत् वध्वा सह वधूं समेत पश्यत

1.13.18

व्युत्क्राम पन्थां जरितां जवेन शिवेन वैश्वानर इड्यास्याग्रतः ।
आचार्यो येन येन पथा प्रयाति तेन तेन सह ॥
इत्युभावेवोक्रामतः

1.13.19

गोभिः सहास्तामिते ग्रामं प्रविशन्ति ब्राह्मणवचनाद्वा

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc