भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 1.12

1.12.1

इत्येकादशःखम्डः ॥11॥
द्वादशः खण्डः
सुमङ्गलीरियं वधूरिमां समेतपश्य
सौभाग्यमस्यै दत्वायाथास्त्वं विपरेतन ॥
इति प्रेक्षकान्व्रजतो ऽनुमन्त्रयते

1.12.2

अत्रैव सीमन्तं करोति त्रीश्येतया शलल्या समूलेन वा दर्भेण सेनाहनामेत्येतया

1.12.3

अथाभ्यञ्जन्ति--
अभ्यज्यकेशान् सुमनस्यमानाः प्रजावरीर्यशसे बहुपुत्रा अघोराः ।
शिवा भर्तुः श्वशुरस्यावदायायुष्मतीः श्वश्वमतीश्चिरायुः ॥
इति

1.12.4

जीवोर्णयोपसमस्यति-
समस्य केशानवृजिनानघोरान् शिखा सखीभ्यो भव सर्वाभ्यः ।
शिवा भव सुकुलोह्यमानाशिवा जनेषु सहवाहनेषु ॥
इति

1.12.5

अथैनो दधिमधु समश्रुतो यद्वा हविष्यं स्यात्

1.12.6

तस्य स्वस्ति वाचयित्वा समाना वा आकूतानीति सह जपन्ति

1.12.7

उबौ सह प्राश्नीतः

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc