भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 1.14

1.14.1

इति त्रयोदशः खण्डः ॥13॥
चतुर्दशः खण्डः
अपरस्मिन्नहः संधौ गृहान्प्रतिपादयीत

1.14.2

प्रतिब्रह्मन्निति प्रत्यवरोहति

1.14.3

मङ्गलानि प्रादुर्भवन्ति

1.14.4

गोष्ठात्सन्ततामुलपराजिं स्तृणाति

1.14.5

रथादध्योपासनात्--
येष्वध्येति प्रवसन्येषु सौमनसं महत् ।
तेनोपव्हयामहे ते नो जानन्त्वागतम् ॥
इति तयाभ्युपैति

1.14.6

गृहानह्ं सुमनसः प्रपद्ये वीरं हि वीरवतः सुशेवा
इरांवहन्ती घृतमुक्षमाणास्तेष्वहं सुमनाः सं वसाम ॥
इत्यभ्याहितीग्निंसोहकं सौषधमावसथं प्रतिपद्यते रोहिण्या मूलेन वा यद्वा पुण्योक्तम्

1.14.7

पश्चादग्ने रोहिते चर्मण्यानडुहे प्राग्ग्रीवे लोमतो दर्भानस्तीर्य तेषु वधूमुपवेशयत्यपि वा दर्भेष्वेव

1.14.8

अथास्यै ब्रह्मचारिममुपस्थ आवेशयति-
सोमेनादित्या बलिनः सोमेन पृथिवी मही
असौ नक्षत्राणामेषामुपस्थे सोम आहितः ॥
इति

1.14.9

अथास्य तिलतण्डुलानां फलमिश्राणामञ्जलिं पूरयित्वोत्थाप्याथास्यै ध्रुमरुङतीं जीवत्तीं सप्तऋषीनिति दर्शयेत्

1.14.10

अच्युता ध्रुवा ध्रुवपत्नी द्रुवं पश्येम सर्वतः
ध्रुवासः पर्वता इमे ध्रुवा स्त्री पतिकुलेयम् ॥
इति तस्यां समीक्षमाणायांजपति

1.14.11

श्वभूते प्राजापत्यं पयसि स्थालीपाकं श्रपयित्वा तस्य जुहोति ।
आज्यशेषे दधिसमानीय तेन हुतशेषण

1.14.12

चक्रीवानडुहौ वा मे वाङ्मैतु ते मनः
चाक्रवाकं सं वननं तन्नौ सं वननं कृतम्-
इति यजमानस्त्रिः प्राश्नात्यवशिष्टं तूष्णीं पत्नी

1.14.13

अपरान्हे पिण्डपितृयज्ञः स व्याख्यातः

1.14.14

संवत्सरं ब्रह्मचर्यं चरतो द्वादशरात्रं त्रिरात्रमेककरात्रं वा

1.14.15

अथास्यै गृहान् विसृजेत्

1.14.16

योक्राशं विषाय तौ संनिपातयेत्-
अपश्यं त्वा मनसा दीध्यानां स्वायां तनुंऋत्विये बाधमानाम् ।
उप मामुच्चा युवतिर्बभूयाः प्रजायस्व प्रजायस्व प्रजया पुत्रकामे ॥
प्रजापतिस्तन्वं मे जुषस्व त्वष्टा देवैः सहमान इन्द्रः ।
विश्वेदेवैरृतुभिः सं विदानः पुंसां बहूनां मातरौ स्याव ॥
अहं गर्भ मदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः ।
अहं प्रजा अजनयं पृथिव्या हं जनिभ्यो अपरीषु पुत्रान् ॥
इति स्त्र्यादिव्यत्यासं जपति

1.14.17

करदिति भसहमभिभृशति

1.14.18

जननीत्युपजननमं

1.14.19

बृहदिति जातं प्रतिष्ठितम्

1.14.20

एतेन धर्मेण ऋतावृतौ संनिपातयेत्

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc