मानवगृह्यसूत्र · अध्याय 1.11
इति दशमः खण्डः ॥10॥
एकादशः खण्डः
ततो यथार्थं कर्मसन्निपातो विज्ञेयः
अर्यम्णे ऽग्नये पूष्णे ऽग्नये वरुणाय च व्रीहीन् यवान्वाभिनिरूप्य प्रोक्ष्य लाजा भृजति
मात्रे प्रयच्छति स जाताया अविधवायै
अथास्यै द्वितीयं वासः प्रयच्छति तेनैव मन्त्रेण
दर्भरज्वा इन्द्रण्याः संनहनमित्यन्तौ समायम्य पुमांसं ग्रन्थिं बन्ध्नाति
सं त्वा नह्यामि पयसा पृथिव्याः संत्वा नह्याम्यद्भिरोषधीभिः ।
सं त्वा नह्यामि प्रजया धनेन सा सन्नद्धा सुनुहि भागधेयम् ।
इतियन्तरतो वस्त्रस्य योक्त्रेण कन्यां संनह्यते
अथैनान्युपकल्पयते शूर्पां लाजा इषीका अश्मान माञ्जनम्
चतसृभिर्दर्भेषीकाभिः शरेषीकाभिर्वा समुञजाभिः सतूलाभिरित्येकैकया त्रैककुभस्याञ्जनस्य संनिकृष्य वृत्रस्यासि कनीनिकेति भर्तुर्दक्षिणमक्षि त्रिः प्रथम माङ्क्ते तथा परं तथा पत्न्याः शेषेण तूष्णीम्
दिशि शलाकाः प्रविध्यति यानि रक्षांस्यभितो व्रजन्त्यस्या वध्वा अग्निसकाश मागच्छन्त्याः तेषामहं प्रतिविध्यामि चक्षुः स्वस्ति वध्वै
भूतपतिर्दधातु ॥
इति
लाजाः पश्चादग्नेरुपसाद्य शमीपर्णैः संयुज्य शूर्पे समं चतुर्धा विभज्याग्रेणाग्निं पर्याहृत्य लाजाधार्यै प्रयच्छति
लाजा भ्राता ब्रह्मचारी वाञ्जलिनाञ्जल्योरावपति
उपस्तरणाभिधारणैः संपातं ता अविच्छिन्नैर्जुहुतः ।
अर्यम्णं नु देवं कन्या अग्निमयक्षत
सोस्मान्देवोर्ऽयमा प्रेतो मुञ्जातु मामुतः स्वाहा ॥
तुभ्यमग्ने पर्यवहन्त्सूर्यांवहतुना सह ॥
पुनः पतिभ्यो जायां दा अग्नेः प्रजया सह ॥
पुनः पत्नी मग्निरदादायुषा सह वर्चसा ।
दीर्घायुरस्य यः पतिर्जीवाति शरदः शतम् ॥
इयं नार्युपब्रूते ऽग्नौलाजानावपन्तिका ।
दीर्धायुरस्तु मे पतिरेधन्तां ज्ञातयो ममेति
एवं पूषणं नु देवं वरुणं नु देवम्
येन द्यौ रुग्रेत्यादय उद्वाहे होमा जयाब्यातानाः संततिहोमा राष्ट्रभृतश्च
आकूताय स्वाहेति जयाः प्राची दिग्वसन्त ऋतुरित्यभ्यातानाः ।
प्राणादापानं संतन्विति संततिहोमा ऋता षाडृतधामेति द्वादशराष्ट्रभृतश्च
त्रातारमिन्द्रं विश्वादित्या इति माङ्गल्ये
लाजाः कामे न चतुर्थांस्विष्टकृतमिति
अथैनां प्राचीं सप्तपदानि प्रक्रमयत्येकमिषे द्वे ऊर्जे त्रीणि प्रजाभ्यश्चत्वारि रायस्पोषाय पञ्च भवाय षड्टतुभ्यः--
सखा सप्तदीभव सुमृडीका सरस्वती ।
मा ते व्योम संदृशी ॥
विष्णुस्त्वा मुन्नयत्विति सर्वत्रानुषजति
पश्चादग्रे रोहिते चर्मण्यानजुडुहे प्राग्ग्रीवे लोमतो दर्भानास्तीर्य तेषु वधूमुपवेशयत्यपि वा दर्भेष्वेव
इमंविष्यामि वरुणस्य पाशं यज्जग्रन्थ सविता सत्यधर्मा ।
धातुश्च योनौ सुकृतस्य लोके रिष्टां मा सह पत्या दधातु ॥
इति योक्रपाशं विषाय वाससो ऽन्ते बध्नाति
अनुमतिभ्यां व्याहृतिभ्यश्च त्वन्नो अग्ने , अयाश्चाग्नेसीति च
शमीमयीस्तिस्रो ऽक्ताः समिधः समुद्रादूर्भिरित्येताभिस्तिसृभिः स्वाहाकारान्ताभिरादधाति
अक्षत सक्तूनां दध्नश्च समवदायेदं हविः प्रजननं म इति हुत्याज्येनाभिजुहोति
कुम्भादुदकेनापोहिष्ठीयाभिर्मार्जयन्ते
वरो दक्षिणा
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0