मालिनीविजयोत्तरतन्त्रम् · अध्याय 9
अथैषां समयस्थानां कुर्याद्दीक्षां यद गुरुः
तदाधिवासनं कृत्वा [लचुन]
स च पूर्वं दिशं सम्यक्सूत्रमास्फालयेत्ततः
तन्मध्यात्पूर्ववारुण्या वङ्कयेत समान्तरम्
पूर्वापरसमासेन सूत्रेणोत्तरदक्षिणम्
अङ्कयेदपरादङ्काद्पूर्वादपि तथैव ते
मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे
मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्समम्
तद्वद्दिक्स्थाच्च कोणेषु अनुलोमविलोमतः
पातयेत्तेषु सूत्राणि चतुरश्रप्रसिद्धये
वेदाश्रिते हि हस्ते प्राक्पूर्वमर्धं विभाजयेत्
हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्यामदिग्गतम्
गुणाङ्गुलसमैर्भागैः शेषमस्य विभाजयेत्
त्र्यङ्गुलैः कोष्टकैरूर्ध्वैस्तिर्यक्चाष्टद्विधात्मकैः
द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ
ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात्पूर्वतस्तथा
भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम्
तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः
जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः
तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम्
बहिर्मुखभ्रमं कुर्यात्खण्डचन्द्रद्वयं द्वयम्
तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसंमितम्
ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः
द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः
एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसंगतं
सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये
तदग्रपार्श्वयोर्जीवात्सूत्रमेकान्तरे श्रितम्
आदिद्वितीयखण्डेन्दु कोणात्कोणान्तमाश्रयेत्
तयोरेवापराज्जीवात्प्रथमार्धेन्दुकोणतः
तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये
क्षेत्रार्धे चापरे दण्डो द्विकरच्छन्नपञ्चकः
द्विकरं पञ्च तद्भागाः पञ्चपीठतिरोहिताः
शेषमन्यद्भवेद्दृश्यं पृथुत्वाद्भागसंमितम्
षड्विस्तृतं चतुर्दीर्घं तदधोऽमलसारकम्
वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते
आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम्
हस्तायामं तदर्धं तु विस्तरादपि अतसमम्
द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु
एकैकभागमानानि कुर्याद्वृत्तानि वेदवत्
दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश
द्वयोर्द्वयोः पुनर्मध्ये तत्संख्यातानि पातयेत्
एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम्
एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत्
यत्रैव कुत्र चित्सङ्गस्तत्संबन्धे स्थिरीकृते
तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये
एकैकस्मिन् दले कुर्यात्केसराणां त्रयं त्रयम्
द्विगुणाष्टाङ्गुलं कार्यं तद्वच्छृङ्गकजत्रयम्
ततः प्रपूजयेन्मन्त्री रजोभिः सितपूरकैः
रक्तैः कृष्णैस्तथापीतैर्हरितैश्च विशेषतः
कर्णिकाळ्पीतवर्णेन मूलमध्याग्रदेशतः
सितं रक्तं तथा पीतं कार्यं केसरजालकम्
दलानि शुक्लवर्णानि प्रतिवारणया सह
पीतं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः
सितरक्तपीतकृष्णैस्तत्पादान् वह्नितः क्रमात्
चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते
दण्डः स्यान्नीलरक्तेन पीतमामलसारकम्
रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम्
पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम्
द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम्
एकद्वित्रिपुरं तुल्यं सामुद्गमथ वोभयम्
कपालकण्ठशोभोप शोभादिबहुचित्रितम्
विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम्
एवमत्र सुनिष्पन्ने गन्धवस्त्रेण मार्जनम्
कृत्वा स्नानं प्रकुर्वीत पूर्वोक्तेनैव कर्मणा
प्रविश्य पूर्ववन्मन्त्री उपविश्य यथा पुरा
न्यस्य पूर्वोदितं सर्वं पञ्चधा भैरवात्मकम्
उत्तरे विन्यसेच्छृङ्गे देवदेवं नवात्मकम्
मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम्
रक्तत्वङ्मांससूत्रैस्तु वामकर्णविभूषितम्
बिन्दुयुक्तं प्रमेयोतं रतिशेखरमादिशेत्
शाक्तं च पूर्ववत्कृत्वा तर्पयेत्पूर्ववद्बुधः
पुनरभ्यर्च्य देवेशं भक्त्या विज्ञापयेदिदम्
गुरुत्वेन त्वयैवाहमाज्ञातः परमेश्वर
अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः
तदेते तद्विधाः प्राप्तास्त्वमेषां कुर्वनुग्रहम्
मदीयां तनुमाविश्य येनाहं त्वत्समो भवन्
करोम्येवमिति प्रोक्तो हर्षादुत्फुल्ललोचनः
ततः षड्विधमध्वानमनेनाधिष्ठितं स्मरेत्
सृष्ट्यादिपञ्चकर्माणि निष्पाद्यान्यस्य चिन्तयेत्
शक्तिभिर्जीवमूर्तिः स्याद्द्विधैवास्य परापरा
मूर्तामूर्तत्वभेदेन मामप्येषानुतिष्ठति
करणत्वं प्रयान्त्यस्य मन्त्रा ये हृदयादयः
एवंभूतं शिवं ध्यात्वा तद्गतेनान्तरात्मना
भाव्यं तन्मयमात्मानं दशधावर्तयेच्छिवम्
त्रिःकृत्वा सर्वमन्त्रांश्च गर्भावरणसंस्थितान्
सितोष्णीषं ततो बुद्ध्वा सप्तजप्तं नवात्मना
शिवहस्तं ततः कुर्यात्पाशविश्लेषकारकम्
प्रक्षाल्य गन्धतोयेन हस्तं हस्तेन केन चित्
गन्धदिग्धो यजेद्देवं साङ्गमासनवर्जितम्
आत्मन्यालभनं कुर्याद्ग्रहणं योजनं तथा
वियोगं च तथोद्धारं पाशच्छेदादिकं च यत्
एवं पतित्वमासाद्य प्रपञ्चव्याप्तितः शिवम्
भावयेत्पृथगात्मानं तत्समानगुणं ततः
मण्डलस्थोऽहमेवायं साक्षीवाखिलकर्मसु
होमाधिकरणत्वेन वह्नावहमवस्थितः
आ यागान्तमहं कुम्भे संस्थितो विघ्नशान्तये
शिष्यदेहे च तत्पाश विश्लेषत्वप्रसिद्धये
साक्षात्स्वदेहसंस्थोऽहं कर्तानुग्रहकर्मणः
इत्येतत्सर्वमालोच्य शोध्याध्वानं विचिन्तयेत्
दीक्षां येनाध्वना मन्त्री शिष्याणां कर्तुमिच्छति
तत्रैवालोचयेत्सर्वं यायात्पदमनामयम्
तत्र तेनापृथग्भूत्वा पुनः संचिन्तयेदिदम्
अहमेव परं तत्त्वं मयि सर्वमिदं जगत्
अधिष्ठाता च कर्ता च सर्वस्याहमवस्थितः
तत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते
एवं संचिन्त्य भूयोऽपि शोध्यमाद्यं समाश्रयेत्
शिष्यमण्डलवह्नीनां तत्रैकं भावयेत्स्थितम्
शोध्याध्वानं तु शिष्याणां न्यस्य देहे पुरोक्तवत्
स्वेन स्वेनैव मन्त्रेण स्वव्याप्तिध्यानमाश्रयेत्
आगन्तु सहजं शाक्तं बुद्ध्वादौ पाशपञ्जरं
बाहुकण्ठशिखाग्रेषु त्रिषु (वृत्) त्रिगुणतन्तुना
स्वमन्त्रेण ततस्तत्त्वमावाह्येष्ट्वा प्रतर्प्य च
ततस्तच्छोध्ययोनीनां व्यापिनीं योनिमानयेत्
मायान्तेऽध्वनि तामेव शुद्धे विद्यां विचक्षणः
तस्यां संतर्पणं कृत्वा शिष्यमस्त्रेण ताडयेत्
आलभ्य हृदये विद्वाञ्छिवहस्तेन तं पुनः
ग्रहणं तस्य कूर्वीत रश्मिमात्रावियोगतः
नाडीमार्गेण गत्वा तु हंहृन्मन्त्रपुटीकृतम्
कृत्वात्मस्थं ततो योनौ गर्भाधानं विचिन्तयेत्
त्र्यर्णार्धाक्षरया मन्त्री सर्वगर्भक्रियान्वितम्
भोग्यभोक्तृत्वसामर्थ्य निष्पत्त्या जननं बुधः
दक्षशृङ्गस्थया मन्त्री प्रकुर्वीत सुलोचने
पिबतीपूर्विकाभिश्च अस्त्राद्यैः परयापि च
सम्यगाहुतयो दद्याद्दश पञ्च विचक्षणः
ततोऽस्यापरया कार्यं पाशविच्छेदनं बुधैः
भुवनेशमथामन्त्र्य तत्त्वेश्वरमथापि वा
भोगभागा[लचुन] पश्चात्तमिदमादिशेत्
भुवनेश त्वया नास्य साधकस्य शिवाज्ञया
प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम्
उत्क्षेपणं ततः कुर्यात्तयैवाध्युष्टवर्णया
अव्याप्तिमन्त्रसंयोगत्पृथङ्मार्गविशुद्धये
दद्यादेकैकशो ध्यात्वा आहुतीनां त्रयं त्रयम्
ततः पूर्णाहुतिं दद्यात्परया वौषडन्तया
शिशुमुत्क्षिप्य चात्मस्थं तद्देहस्थं च कारयेत्
आहुतीनां त्रयं दद्याद्दत्त्वा पूर्णाहुतिं बुधः
महापाशुपतास्त्रेण विलोमादिविशुद्धये
विसर्जयित्वा वागीशीं तत्त्वं तु तदन्तरं
विलीनं भावयेच्छुद्धमशुद्धे परमेश्वरि
कालान्तव्याप्तिसंशुद्धौ कृतायामेवमादरात्
बाहुपाशं तु तं छित्त्वा होमयेदाज्यसंयुतम्
मायातत्त्वे विशुधे तु कण्ठपाशे तथा बुधः
मायान्तमार्गसंशुद्धौ दीक्षाकर्मणि सर्वतः
क्रियास्वनुक्तमन्त्रासु योजयेदपरां बुधः
विद्यादिसकलान्ते च तद्वदेव परापराम्
योययेन्नैश्वरादूर्ध्वं पिबन्त्यादिकमष्टकम्
न चापि सकलादूर्ध्वमङ्गषट्कं विचक्षणः
निष्कले परया कार्यं यत्किं चिद्विधिचोदितम्
विशुद्धे सकलान्ते तु शिखां छित्त्वा विचक्षणः
हुत्वा चाज्यं ततः शिष्यं स्नापयेदनुपूर्वतः
आचम्याभ्यर्च्य देवेशं स्रुवमापूर्य सर्पिषा
कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरेत्
शिवशक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम्
एकीकुर्वञ्छनैर्गच्छेद्द्वादशान्तमनन्यधीः
तत्र कुम्भकमास्थाय ध्यायन् सकलनिष्कलम्
तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भवेत्
एवं युक्ते परे तत्त्वे गुरुण शिवमूर्तिना
न भूयः पशुतामेति दग्धमायानिबन्धनः
विधिरेष समाख्यातो दीक्षाकर्मणि भौवने
इतराध्वविधिं मुक्त्वा शिवयोगविधिं तथा
विलोमकर्म संत्यज्य द्विगुणस्तत्त्ववर्त्मनि
तद्वच्च वर्णमार्गेऽपि चतुर्धा पदवर्त्मनि
अष्टधा मन्त्रमार्गेऽपि कलाख्येऽपि च तद्द्विधा
त्रिखण्डे विंशतिगुणः स एव परिकीर्तितः
इति सर्वाध्वसंशुद्धिः समासात्परिकीर्तिता
साधकाचार्ययोः कर्म कथ्यमानमतः शृणु
मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0