मालिनीविजयोत्तरतन्त्रम् · अध्याय 8
अथातः संप्रवक्ष्यामि यजनं सर्वकामदम्
यस्य दर्शनमात्रेण योगिनीसंमतो भवेत्
तत्रादौ यागसदनं शुभे क्षेत्रे मनोरमम्
कारयेदग्निकुण्डेन वर्तुलेन समन्वितम्
पञ्चविंशतिपर्वेण समन्तादर्धनाभिना
तुर्यांशमेखलेनापि पर्वौष्ठेन सुशोभिना
ततः स्नात्वा जितद्वन्द्वो भावस्नानेन मन्त्रवित्
तच्च षड्विधमुद्दिष्टं भस्मस्नानाद्यनुक्रमात्
भस्मस्नानं महास्त्रेण भस्म सप्ताभिमन्त्रितम्
मलस्नानाय संहारक्रमेणोद्धूलयेत्तनुम्
विद्याङ्गैः पञ्चभिः पश्चाच्छिरः प्रभृति गुण्ठयेत्
अभिषेकं तु कुर्वीत मूलेनैव षडङ्गिना
ततोऽवासाः सुवासा च हस्तौ पादौ च धावयेत्
आचम्य मार्जनं कुर्याद्विद्यया भूरिवर्णया
न्यासं कृत्वा तु सामान्यामघमर्षं द्वितीयया
उपस्थानं च मालिन्या जपेच्चैकाक्षरां पराम्
जलस्नानेऽपि चास्त्रेण मृदं सप्ताभिमन्त्रितम्
पूर्ववत्तनुमालभ्य मलस्नानं समाचरेत्
विधिस्नानादिकं चात्र पूर्ववत्किं तु वारिणा
साधारणविधिस्नातो विद्यात्रितयमन्त्रितम्
तोयं विनिक्षिपेन्मूर्ध्नि मन्त्रस्नानाय मन्त्रवित्
रजसा गोधुतेनैव वायव्यं स्नानमाचरेत्
महास्त्रमुच्चरन् गच्छेद्ध्यानयुक्पदसप्तकम्
तदेव पुनरागच्छेदनुस्मृत्य परापराम्
वर्षातपसमायोगाद्दिव्यो .अप्येवंविधो मतः
किं तु तत्र परां मन्त्री स्रवन्तीममृतं स्मरेत्
अस्त्रेणाङ्गुष्ठमूलात्तु वह्निमुत्थाप्य निर्दहेत्
स्वतनुं प्लावयेत्पश्चात्परयैवामृतेन तु
सूर्यादौ मन्त्रमादाय गच्छेदस्त्रमनुस्मरन्
यागवेश्मास्त्रसंशुद्धं विशेच्छुचिरनाकुलः
तत्र द्वारपतीन् पूज्य महास्त्रेणाभिमन्त्रितम्
पुष्पं विनिक्षिपेद्ध्यात्वा ज्वलद्विघ्नप्रशान्तये
दशस्वपि ततोऽस्त्रेण दिक्षु संकल्प्य रक्षणं
प्रविशेद्यागसदनं वह्निवद्वह्निसंयुतम्
पूर्वास्यः सौम्यवक्त्रो वा विशेषन्यासमारभेत्
तत्रादावस्त्रमन्त्रेण कालानलसमत्विषा
अङ्गुष्ठाग्रात्तनुं दग्धां सबाह्याभ्यन्तरां स्मरेत्
विकीर्यमाणं तद्भस्म ध्यात्वा कवचवायुना
शिवबिन्दुसमाकारमात्मानमनुचिन्तयेत्
ततोऽस्य योजयेच्छक्तिं सोऽहमित्यपराजितः
विद्यामूर्तिं ततो दध्यान्मन्त्रेणानेन शाङ्करि
दण्डाक्रान्तं महाप्राणं दण्डारूढं सनाभिकम्
नितम्बं तदधस्ताच्च वामस्तनमधः पुनः
कण्ठं च वामशिखरं वाममुद्राविभूषितम्
बिन्द्वर्धचन्द्रखं नादशक्तिबिन्दुविभूषितम्
एष पिण्डकरो देवि नवात्मक इति श्रुतः
सर्वसिद्धिकरश्चायं सरहस्यमुदाहृतः
एष त्र्यर्णोज्झितो .अधस्ताद्दीर्घैः षड्भिः स्वरैर्युतः
षडङ्गानि हृदादीनि जातिभेदेन कल्पयेत्
क्षयरवलबीजैश्च दीप्तैर्बिन्दुविभूषितैः
वक्त्राणि कल्पयेत्पूर्वमूर्ध्ववक्त्रादितः क्रमात्
प्रत्यङ्गविधिसिद्ध्यर्थं ललाटादिष्वथो न्यसेत्
अ ललाटे द्वितीयं च वक्त्रे संपरिकल्पयेत्
इ ई नेत्रद्वये दत्त्वा उ ऊ कर्णद्वये न्यसेत्
ऋ .ऋ नासापुटे तद्वदॢ .ळ् गण्डद्वये तथा
ए ऐ अधोर्ध्वदन्तेषु ओ-औकारौ तथोष्ठयोः
अं शिखायां विसर्गेण जिह्वां संपरिकल्पयेत्
दक्षिणस्कन्धदोर्दण्ड कराङ्गुलिनखेषु च
कवर्गं विन्यसेद्वामे तद्वच्चाद्यमनुक्रमात्
टताद्यौ पूर्ववद्वर्गौ नितम्बोर्वादिषु न्यसेत्
पाद्यं पार्श्वद्वये पृष्ठे जठरे हृद्यनुक्रमात्
त्वग्रक्तमांससूत्रेषु यवर्गं परिकल्पयेत्
शाद्यमस्थिवसाशुक्रप्राणकोपेषु पञ्चकम्
मूर्त्यङ्गानि ततो दत्त्वा शिवमावाहयेद्बुधः
प्राणोपरि न्यसेन्नाभिं तदूर्ध्वे दक्षिणाङ्गुलिम्
वामकर्णप्रमेयोतः सर्वसिद्धिप्रदः शिवः
सद्भावः परमो ह्येषः भैरवस्य महात्मनः
अङ्गान्यनेन कार्याणि पूर्ववत्स्वरभेदतः
मूर्तिः सृष्टिस्त्रितत्त्वं च अष्टौ मूर्त्यङ्गसंयुताः
शिवः साङ्गश्च षोढैव न्यासः संपरिकीर्तितः
अस्योपरि ततः शाक्तं कुर्यान्न्यासं यथा शृणु
मूर्तौ परापरां न्यस्य तद्वक्त्राणि च मालिनीम्
परादित्रितयं पश्चाच्छिखाहृत्पादगं न्यसेत्
कवक्त्रकण्ठहृन्नाभिगुह्योरूपादगं क्रमात्
अघोर्याद्यष्टकं न्यस्य विद्याङ्गानि तु पूर्ववत्
ततस्त्वावाहयेच्छक्तिं सर्वयोगिनमस्कृताम्
जीवः प्राणपुटान्तस्थः कालानलसमद्युतिः
अतिदीप्तस्तु वामाङ्घ्रिभूषितो मूर्ध्नि बिन्दुना
दक्षजानुयुतश्चायं सर्वमातृगणान्वितः
अनेन प्रीणिताः सर्वा ददते वाञ्छितं फलम्
सद्भावः परमो ह्येष मातृणां परिपठ्यते
तस्मादेनां जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम्
रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः
यस्मादेषा पराशक्तिर्भेदेनानेन कीर्तिता
यावत्यः सिद्धयस्तन्त्रे सर्वाः स्युरनया कृताः
अङ्गानि कल्पयेदस्याः पूर्ववत्स्वरभेदतः
मूर्तिः सवक्त्रा शक्तिश्च विद्यात्रितय एव च
अघोर्याद्यष्टकं चेति तथा विद्याङ्गपञ्चकम्
साङ्गाश्चैव परा शक्तिर्न्यासः प्रोक्तो .अथ षड्विधः
यामलोऽयमतो न्यासः सर्वसिद्धिप्रसिद्धये
वामो वायं विधिः कार्यो मुक्तिमार्गावलम्बिभिः
वर्णमन्त्रविभेदेन पृथग्वा तत्फलार्थिभिः
यावन्तः कीर्तिता भेदैः शंभुशक्त्यणुवाचकाः
तावत्स्वप्येवमेवायं न्यासः पञ्चविधो मतः
किं तु बाह्यस्तु यो यत्र स तत्राङ्गसमन्वितः
षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः
स्वानुष्ठानाविरोधेन भावाभावविकल्पनैः
यागद्रव्याणि सर्वाणि कार्याणि विधिवद्बुधैः
ततोऽर्घपात्रमादाय भावाभावविकल्पितम्
ततश्चास्त्राग्निसंदग्धं शक्त्यम्बुप्लावितं शुचि
कर्तव्या यस्य संशुद्धिरन्यस्याप्यत्र वस्तुनः
तस्यानेनैव मार्गेण प्रकर्तव्या विजानता
न चासंशोधितं वस्तु किञ्चिदप्यत्र कल्पयेत्
तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि
तदम्बुना समापूर्य षड्भिरङ्गैः समर्प्य च
अमृतीकृत्य सर्वाणि तेन द्रव्याणि शोधयेत्
आत्मानं पूजयित्वा तु कुर्यादन्तःकृतिं यथा
तथा ते कथयिष्यामि सर्वयोगिगणार्चिते
आदावौआवाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम्
धरां सुरोदं पोतं च कन्दश्चेति चतुष्टयम्
एकैकाङ्गुलमेतत्स्याच्छूलस्यामलसारकम्
ततो नालमनन्ताख्यं दण्डमस्य प्रकल्पयेत्
लम्बिकावधितश्चात्र शूलोर्ध्वं ग्रन्थिरिष्यते
अभित्त्वैनं महादेवि पाशजालमहार्णवम्
न स योगमवाप्नोति शिवेन सह मानवः
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम्
कोणेषु चिन्तयेन्मन्त्री आग्नेयादिष्वनुक्रमात्
गात्रकाणां चतुष्कं च दिक्षु पूर्वादिषु स्मरेत्
ग्रन्थेरूर्ध्वं त्रिशूलाधो भवितव्या चतुष्किका
विद्यातत्त्वं तदेवाहुश्छदनत्रयसंयुतम्
कखलम्बिकयोर्मध्ये तत्तत्त्वमनुचिन्तयेत्
पद्माकृति कखतत्त्वमैश्वरं चिन्तयेद्बुधः
कर्णिकाकेसरोपेतं सबीजं विकसत्सितम्
पूर्वपत्रादितः पश्चाद्वामादिनवकं न्यसेत्
वामा ज्येष्ठा च रौद्री च काली चेति तथा परा
कलविकरणी चैव बलविकरणी तथा
बलप्रमथनी चान्या सर्वभूतदमन्यपि
मनोन्मनी च मध्येऽपि भानुमार्गेण विन्यसेत्
विभ्वादिनवकं चान्यद्विलोमात्परिकल्पयेत्
विभुर्ज्ञानी क्रिया चेच्छा वागीशी ज्वालिनी तथा
वामा ज्येष्ठा च रौद्री च सर्वाः कालानलप्रभाः
ब्रह्मविष्णुहराः पूर्वं ये शाक्ताः प्रतिपादिताः
दलकेसरमध्यस्था मण्डलानां त ईश्वराः
ध्वनि [?] चार्केन्दुवह्नीनां संज्ञेया परिभावयेत्
ईश्वरं च महाप्रेतं प्रहसन्तं सचेतनम्
कालाग्निकोटिवपुषमित्येवं सर्वमासनम्
तस्य नाभ्युत्थितं शक्तिशूलशृङ्गत्रयं स्मरेत्
कखत्रयेण निर्यातं द्वादशान्तावसानकम्
चिन्तयेत्तस्य शृङ्गेषु शाक्तं पद्मत्रयं ततः
सर्वाधिष्ठायकं शुक्लमामित्येतत्परमासनम्
तत्रोपरि ततो मूर्तिं विद्याख्यामनुचिन्तयेत्
आत्माख्यां च ततस्तस्यां पूर्वन्यासं शिवात्मकम्
ततो मध्ये परां शक्तिं दक्षिणोत्तरयोर्द्वयम्
परापरां स्वरूपेण रक्तवर्णां महाबलाम्
इच्छारूपधरां ध्यात्वा किं चिदुग्रां न भीषणाम्
अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम्
इच्छारूपधरां देवीं प्रणतार्तिविनाशिनीम्
परां चाप्यायनीं देवीं चन्द्रकोट्ययुतप्रभाम्
षड्विधेऽपि कृते शाक्ते मूर्त्यादावपि चिन्तयेत्
विद्याङ्गपञ्चकं पश्चादाग्नेय्यादिषु विन्यसेत्
अग्नीशरक्षोवायूनां दक्षिणे च यथाक्रम
शक्त्यङ्गानि शिवाङ्गानि तथैव विधिना स्मरेत्
किं तु शक्रादिदिक्ष्वस्त्रमन्त्रं मध्ये च लोचनम्
अघोराद्यष्टकं ध्यायेदघोर्याद्यष्टकान्वितम्
सर्वासामावृतत्वेन लोकपालांश्च बाह्यतः
सास्त्रान् स्वमन्त्रैः संचिन्त्य जपं पश्चात्समारभेत्
स्वरूपे तल्लयो भूत्वा एकैकां दशधा स्मरेत्
ज्वलत्पावकसंकाशां ध्यात्वा स्वाहान्तमुच्चरेत्
सकृदेकैकशो मन्त्री होमकर्मप्रसिद्धये
इत्येव मानसो यागः कथितः सामुदायिकः
एतत्त्रिशूलमुद्दिष्टमेकदण्डं त्रिशक्तिकम्
इत्थमेतदविज्ञाय शक्तिशूलं वरानने
बद्ध्वापि खेचरीं मुद्रां नोत्पतयत्यवनीतलात्
इत्येतच्छाम्भवं प्रोक्तमष्टान्तं शाक्तमिष्यते
तुर्यान्तमाणवं विद्यादिति शूलत्रयं मतम्
पृथग्यागविधानेन शक्तिचक्रं विचिन्तयेत्
तेनापि खेचरीं बद्ध्वा त्यजत्येवं महीतलम्
ततोऽभिमन्त्र्य धान्यानि महास्त्रेण त्रिसप्तधा
निक्षिपेद्दिक्षु सर्वासु ज्वलत्पावकवत्स्मरेत्
निर्विघ्नं तद्गृहं ध्यात्वा संहृत्येशदिशं नयेत्
पञ्चगव्यं ततः कुर्याद्वदनैः पञ्चभिर्बुधः
गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा
मन्त्रयेदूर्ध्वपर्यन्तैः षडङ्गेन कुशोदकम्
मुद्रे द्रव्यामृतं बद्ध्वा तत्त्वं तस्य विचिन्तयेत्
तेन संप्रोक्षयेद्भूमिं स्वल्पेनान्यन्निधापयेत्
वास्तुयागं ततः कुर्यान्मालिन्युच्चारयोगतः
पुष्पैरञ्जलिमापूर्य फकारादि समुच्चरेत्
ध्यात्वा शक्त्यन्तमध्वानं नकारान्ते विनिक्षिपेत्
गन्धधूपादिकं दत्त्वा गणेशानं प्रपूजयेत्
षडुत्थमासनं न्यस्य प्रणवेन ततोपरि
गामित्यनेन विघ्नेशं गन्धपुष्पादिभिर्यजेत्
अस्याङ्गानि गकारेण षड्दीर्घस्वरयोगतः
त्रिनेत्रं मुदितं ध्यात्वा गजास्यं वामनाकृतिम्
विसर्ज्य सिद्धिकामस्तु महास्त्रमनुपूजयेत्
दत्त्वानन्तं तथा धर्मं ज्ञानं वैराग्यमेव च
ऐश्वर्यं कर्णिकां चेति षडुत्थमिदमासनम्
अस्योपरि न्यसेद्ध्यात्वा खड्गखेटकधारिणम्
विकरालं महादंष्ट्रं महोग्रं भ्रूकुटीमुखम्
स्वाङ्गषट्कसमोपेतं दिङ्मातृपरिवारितम्
स्वार्णैरेवाङ्गषट्कं तु फट्कारपरिदीपितम्
तद्रूपमेव संचिन्त्य ततो मात्रष्टकं यजेत्
इन्द्राणीं पूर्वपत्रे तु सवज्रां युगपत्स्मरेत्
आग्नेयिं शक्तिहस्तां तु याम्यां दण्डकरां ततः
नैरृतीं वरुणानीं च वायवीं च विचक्षणः
खड्गपाशध्वजैर्युक्तां चिन्तयेद्युगपत्प्रिये
कौवेरीं मुद्गरकरामीशानीं शूलसंयुताम्
गन्धपुष्पादिभिः पूज्य स्वतन्त्रे होममाचरेत्
आदौ च कलशं कुर्यात्सहस्राधिकमन्त्रितम्
सहस्रं होमयेत्तत्र ततो जप्त्वा विसर्जयेत्
शतमष्टोत्तरं पूर्णं पश्चाद्यजनमारभेत्
तत्रादौ कुम्भमादाय हेमादिमयमव्रणम्
सर्वमन्त्रौषधीगर्भं गन्धाम्बुपरिपूरितम्
चूतपल्लववक्त्रं च स्रक्सूत्रसितकण्ठकम्
रक्षोघ्नतिलकाक्रान्तं सितवस्त्रयुगावृतम्
शताष्टोत्तरसंजप्तं मूलमन्त्रप्रपूजितम्
वार्धान्यपि तथाभूता किं तु सास्त्रेण पूजिता
विकिरैरासनं दत्त्वा पूर्वोक्तं तु विचक्षणः
इन्द्रादीन् पूजयेत्पश्चात्स्वदिक्षु प्रोक्तसस्वरैः
अविच्छिन्नां ततो धारां वार्धान्या प्रतिपादयेत्
भ्रामयेत्कलशं पश्चाद्ब्रूयल्लोकेश्वरानिदम्
भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये
सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया
नीत्वा तत्रासने पूर्वं मूर्तिभूतं घटं न्यसेत्
तस्य दक्षिणदिग्भागे वार्धानीं विनिवेशयेत्
आत्ममूर्त्यादिपूज्यान्तं कुम्भे विन्यस्य मन्त्रवित्
गन्धपुष्पादिभिः पूज्य वार्धान्यां पूजयेदिमम्
गन्धैर्मण्डलकं कृत्वा ब्रह्मस्थाने विचक्षनः
तत्र संपूजयेत्षट्कं त्रिकं वाप्येकमेव वा
कुण्डस्योल्लेखनं लेखः कुट्टनं चोपलेपनम्
चतुष्पथाक्षवाटं च वज्रसंस्थापनं तथा
कुशास्तरणपरिधिविष्टराणां च कल्पनम्
सर्वमस्त्रेण कूर्वीत विद्यामों ह्रीमिति न्यसेत्
शिवमोमिति विन्यस्य संपूज्य द्वितयं पुनः
ताम्रपात्रे शरावे वा आनयेज्जातवेदसम्
शिवशुक्रमिति ध्यात्वा विद्यायोनौ विनिक्षिपेत्
ततस्त्वाहूतयः पञ्च विद्याङ्गैरेव होमयेत्
जननादि ततः कर्म सर्वमेवंकृते कृतम्
परापरामनुस्मृत्य दद्यात्पूर्णाहुतिं पुनः
संपूज्य मातरं वह्नेः पितरं च विसर्जयेत्
चर्वादिसाधनायाग्निं समुद्धृत्य ततः पुनः
ज्वलितस्याथवा वह्नेश्चितिं वामेन वायुना
आकृष्य हृदि संकुम्भ्य दक्षिणेन पुनः क्षिपेत्
पूर्णां च पूर्ववद्दद्याच्छिवाग्नेरपरो विधिः
शिवरूपं तमालोक्य तस्यात्मान्तःकृतिः क्रमात्
कुर्यादन्तःकृतिं मन्त्री ततो होमं समारभेत्
मूलं शतेन संतर्प्य तदङ्गानि षडङ्गतः
शेषाणां मन्त्रजातीनां दशांशेनैव तर्पणम्
ततः प्रवेशयेच्छिष्याञ्शुचीन् स्नातानुपोषितान्
प्रणम्य देवदेवेशं चतुष्टयगतं क्रमात्
पञ्चगव्यं चरुं दद्याद्दन्तधावनमेव च
हृदयेन चरोः सिद्धिर्याज्ञिकैः क्षीरतण्डुलैः
संपातं सप्तभिर्मन्त्रैस्ततः षड्भागभाजितम्
शिवाग्निगुरुशिष्याणां वार्धानीकुम्भयोः समम्
दन्तकाष्ठं ततो दद्यात्क्षीरवृक्षसमुद्भवम्
तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः
अशुभोऽन्यत्र तत्रापि होमोऽष्टशतिको भवेत्
बहिःकर्म ततः कुर्याद्दिक्षु सर्वासु दैशिकः
ओं क्षः क्षः सर्वभूतेभ्यः स्वाहेति मनुनामुना
समाचम्य कृतन्यासः समभ्यर्च्य च शङ्करम्
[लचुन] गृहे शुचिः
न्यासं कृत्वा तु शिष्याणामात्मनश्च विशेषतः
प्रभाते नित्यकर्मादि कृत्वा स्वप्नं विचारयेत्
शुभं प्रकाशयेत्तेषामशुभे होममाचरेत्
ततः पुष्पफलादीनां सुवेशाभरणाः स्त्रियः
आपदुत्तरणं चैव शुभदेशावरोहणम्
मद्यपानं शिरश्छेदमाममांसस्य भक्षणम्
देवतादर्शनं साक्षात्तथा विष्टानुलेपनम्
एवंविधं शुभं दृष्ट्वा सिद्धिं प्राप्नोत्यभीप्सिताम्
एतदेवान्यथाभूतं दुःस्वप्न इति कीर्त्यते
पक्वमांसाशनाभ्यङ्गगर्तादिपतनादिकम्
तन्त्रोक्तां निष्कृतिं कृत्वा द्विजत्वापादनं ततः
देवाग्निगुरुदेवीनां पूजां कृत्वा सदा बुधः
एतेषामनिवेद्यैव न किं चिदपि भक्षयेत्
देवद्रव्यं गुरुद्रव्यं चण्डीद्रव्यं च वर्जयेत्
निष्फलं नैव चेष्टेत मुहूर्तमपि मन्त्रवित्
योगाभ्यासरतो भूयान्मन्त्राभ्यासरतोऽपि वा
इत्येवमादिसमयाञ्श्रावयित्वा विसर्जयेत्
देवदेवं ततः स्नानं शिष्याणामात्मनोऽपि वा
कारयेच्छिवकुम्भेन सर्वदुष्कृतहारिणा
इत्येतत्सामयं कर्म समासात्परिकीर्तितम्
मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0