भाषा

ENहिગુ
ग्रंथ पाठ

मालिनीविजयोत्तरतन्त्रम् · अध्याय 10

10.1

अथ लक्षणसंपन्नं सिद्धिसाधनतत्परम्
शास्त्रज्ञं संयतं धीरमलुब्धमशठं दृढम्

10.2

अपरीक्ष्य गुरुस्तद्वत्साधकत्वे नियोजयेत्
समभ्यर्च्य विधानेन पूर्ववत्परमेश्वरम्

10.3

द्वितीये पूर्ववत्कुम्भं हेमादिमयमव्रणम्
सर्वत्र मध्यपद्मस्य दक्षिणं दलमाश्रितम्

10.4

नायकानां पृथङ्मन्त्रान् पूजयेत्कुसुमादिभिः
तं संतर्प्य सहस्रेण प्रकुर्यादभिषेचनम्

10.5

भद्रपीठे शुभे स्थाप्य श्रीपर्णे दारुनिर्मिते
पूर्वामुखमुदग्वक्त्रं स्नातं पुष्पाद्यलङ्कृतम्

10.6

कृतमन्त्रतनुः सम्यक्सम्यक्च कृतमङ्गलः
शङ्खभेर्यादिनिर्घोषैर्वेदमङ्गलनिस्वनैः

10.7

सर्वराजोपचारेण कृत्वा तस्याभिषेचनम्
सदाशिवसमं ध्यात्वा ततस्तमपि भूषयेत्

10.8

पुनः संपूज्य देवेशं मन्त्रमस्मै ददेद्बुधः
पुष्पाक्षततिलोपेतः सजल[लचुन]श्वरं न्यसेत्

10.9

सोऽपि मूर्धनि तं तद्वन्मूर्तिमाश्रित्य दक्षिणम्
अभिषिच्य ततोऽस्त्रेण रुद्रशक्तिं प्रकाशयेत्

10.10

स तयालिङ्ग्य तन्मन्त्रं सहस्रेण प्रतर्पयेत्
तदा प्रभृति तन्निष्ठस्तत्समानगुणो भवेत्

10.11

आचार्यस्याभिषेकोऽयं स[लचुन]मन्त्रविधिं विना
किं तु तस्य [लचुन] अधिवासपदान्वितम्

10.12

एवमेतत्पदं प्राप्यं दुष्प्राप्यमकृतात्मनाम्
साधको मन्त्रसिद्ध्यर्थं मन्त्रव्रतमुपाचरेत्

10.13

एवं कृत्वाभिषेकोक्तं स्नात्वा विद्याधिपं जपेत्
लक्षमेकं दशांशेन तस्य तर्पणमाचरेत्

10.14

पूर्ववच्चाभिषेकं च कृत्वा ब्रह्मशिरो जपेत्
तल्लक्ष्यस्तन्मयो भूत्वा लक्षद्वयमतन्द्रितः

10.15

लक्षद्वयं च रुद्राणीं चतुष्कं तु पुरुष्टुतम्
लक्षाणां पञ्चकं देवि महापाशुपतं जपेत्

10.16

सितरक्तपीतकृष्ण विचित्राम्बरभूषणः
ततः संरक्षितो मन्त्रैरेभिरप्रतिमो भवेत्

10.17

अवाच्यः सर्वदुष्टानां मन्त्रतेजोपबृंहितः
एवं चीर्णव्रतो भूत्वा यं साधयितुमिच्छति

10.18

दत्त्वार्घं तस्य लक्षाणां जपेन्नवकमादरात्
उत्तमद्रव्यहोमाच्च तद्दशांशेन तर्पणम्

10.19

महाक्ष्मापपलान्याहुरुत्तमादीनि तद्विदः
मध्यमे द्विगुणं कृत्वा त्रिगुणं कन्यसेऽपि च

10.20

आज्यगुग्गुलनृस्नेहा महामांससमाः मताः
दधिबिल्वपयःपद्माः क्ष्मासमाः परिकीर्तिताः

10.21

धात्रीदुर्वामृतामीनाः सम्यगाज्यसमा मताः
तिलाद्यैरथ कुर्वीत नवषट्त्रिगुणं क्रमात्

10.22

पूर्वमेवमिमं कृत्वा सिद्धेरर्घं ददेद्बुधः
दत्त्वार्घं तु जपेत्तावद्यावत्सिद्धिरभीप्सिता

10.23

लक्षेणैकेन पृथ्वीशः सभृत्यबलवाहनः
वशमानीयते देवि द्वाभ्यां राज्यमवाप्नुयात्

10.24

त्रिभिर्निधानसंसिद्धिश्चतुर्भिर्बलसिद्धयः
पञ्चभिर्मेदिनी सर्वा षड्भिरप्सरसां गणः

10.25

सप्तभिः सप्त लोकाश्च दशभिस्तत्समो भवेत्
पञ्चाशद्भिस्ततो गच्छेदव्यक्तान्तं महेश्वरि

10.26

मायान्तं षष्तिभिर्लक्षैरीश्वरान्तमशीतिभिः
सकलावनिपर्यन्तं कोटिजप्तस्य सिद्ध्यति

10.27

अथवा वीरचित्तः स्यात्कृत्वा सेवां यथोदिताम्
कृष्णभूतदिने रात्रौ विधिमेनं समाचरेत्

10.28

कृत्वा पूर्वोदितं यागं हुत्वा द्रव्यमथोत्तरम्
ऊर्ध्वकायो जपेन्मन्त्री सुनिष्कम्पोत्तरामुखः

10.29

तावद्यावत्समायाता योगेश्वर्यः समन्ततः
कृत्वा कलकलारावमतिघोरं सुदारुणम्

10.30

भूमौ निपत्य तिष्ठन्ति वेष्ट्यान्तः साधकेश्वरम्
तासां कृत्वा नमस्कारं भित्त्वा वामाङ्गमात्मनः

10.31

तदुत्थेन ततस्तासां दत्त्वार्घं तत्समो भवेत्
आचार्योऽपि च षण्मासं मौनी प्रतिदिनं चरेत्

10.32

दश पञ्च च ये मन्त्राः पूर्वमुक्ता मया तव
पूर्वन्यासेन संनद्धस्त्रिकालं वह्निकार्यकृत्

10.33

ध्यायेत्पूर्वोदितं शूलं ब्रह्मचर्यं समाश्रितः
कृत्वा पूर्वोदितं यागं त्रिशक्तिपरिमण्डलम्

10.34

अभिषिञ्चेत्तदात्मानमादावन्ते च दैशिकः
एवं चीर्णव्रतो भूत्वा मन्त्री मन्त्रविदुत्तमः

10.35

निग्रहानुग्रहं कर्म कुर्वन्न प्रतिहन्यते
शुद्धयोर्विन्यसेन्मूल मध्यादित्रितये त्रयम्

10.36

वामाङ्गुष्ठे तुले नेत्रे तर्जन्यामस्त्रमेव च
अक्षह्रीमिति खण्डेन शब्दराशिं निवेशयेत्

10.37

नफह्रीमित्यनेनापि शक्तिमूर्तिं विचक्षणः
विपरीतमहामुद्रा प्रयोगान्मूलमेव च

10.38

स्वस्थानेषु तथाङ्गानि न्यासः सामान्य इत्ययम्

मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc