मालिनीविजयोत्तरतन्त्रम् · अध्याय 7
अथातः संप्रवक्ष्यामि मुद्राख्याः शिवशक्तयः
याभिः संरक्षितो मन्त्री मन्त्रसिद्धिमवाप्नुयात्
त्रिशूलं च तथा पद्मं शक्तिश्चक्रं सवज्रकम्
दण्डदंष्ट्रे महाप्रेता महामुद्रा खगेश्वरी
महोदया कराला च खट्वाङ्गं सकपालकम्
हलं पाशाङ्कुशा घण्टा मुद्गरस्त्रिशिखोऽपरः
आवाहस्थापनीरोधा द्रव्यदा नतिरेव च
अमृता योगमुद्रेति विज्ञेया वीरवन्दिते
तर्जनीमध्यमानामा दक्षिणस्य प्रसारिताः
कणिष्ठाङ्गुष्ठकाक्रान्तास्त्रिशूलं परिकीर्तितम्
पद्माकारौ करौ कृत्वा पद्ममुद्रां प्रदर्शयेत्
संमुखौ प्रसृतौ कृत्वा करावन्तरिताङ्गुली
प्रसृते मध्यमे लग्ने कौमार्याः शक्तिरिष्यते
उत्तानवाममुष्टेस्तु दक्ष
क्षिपेन्मुष्टिं चक्रं नारायणीप्रियम्
उत्तानवामकस्योर्ध्वं न्यसेद्दक्षमधोमुखम्
कनिष्ठाङ्गुष्ठकौ श्लिष्टौ शेषाः स्युर्मणिबन्धगा
वज्रमुद्रेति विख्याता ऐन्द्रीसंतोषकारिका
ऊर्ध्वप्रसारितो मुष्टिर्दक्षिणोऽङ्गुष्ठगर्भगः
दण्डमुद्रेति विख्याता वैवस्वतकुलप्रिया
वामतो वक्त्रगां कुर्याद्वाममुष्टेः कनिष्ठिकाम्
दंष्ट्रेयं कीर्तिता देवि चामुण्डाकुलनन्दिनी
वामजानुगतं पादं बुथस्तौ पृष्ठप्रलम्बिनौ
विकृते लोचने ग्रीवा भग्ना जिह्वा प्रसारिता
सर्वयोगिगणस्येष्टा प्रेता योगीश्वरी मता
हस्तावधोमुखौ पद्भ्यां हृदयान्तं नयेद्बुधः
तिर्यग्मुखान्तमुपरि संमुखावूर्ध्वगौ नयेत्
महामुद्रेति विख्याता देहशोधनकर्मणि
सर्वकर्मकरी चैषा योगिनां योगसिद्धये
बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं न्यसेत्
दण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम्
निगृह्य तत्र तत्तूर्णं प्रेरयेत्खत्रयेण तु
एतां बद्ध्वा महावीरः खे गतिं प्रतिपद्यते
अधोमुखस्य दक्षस्य वाममुत्तानमूर्ध्वतः
अनामामध्यमे तस्य वामाङ्गुष्ठेन पीडयेत्
तर्जन्या तत्कनिष्ठां च तर्जनीं च कनिष्ठया
मध्यमानामिकाभ्यां च तदङ्गुष्ठं निपीडयेत्
मुद्रा महोदयाख्येयं महोदयकरी नृणाम्
अनामिकाकनिष्ठाभ्यां सृक्विण्यौ प्रविदारयेत्
जिह्वां च लालयेन्मन्त्री हाहाकारं च कारयेत्
क्रुद्धदृष्टिः करालेयं मुद्रा दुष्टभयङ्करी
वामस्कन्धगतो वाम मुष्टिरुच्छ्रिततर्जनी
खट्वाङ्गाख्या स्मृता मुद्रा कपालमधुना शृणु
निम्नं पाणितलं दक्षमीषत्संकुचिताङ्गुलि
कपालमिति विज्ञेयमधुना हलमुच्यते
मुष्टिबद्धस्य दक्षस्य तर्जनी वाममुष्टिना
वक्रतर्जनिना ग्रस्ता हलमुद्रेति कीर्तिता
मुष्ट्या पृष्ठगयोर्दक्ष वामयोस्तर्जनीद्वयम्
वामाङ्गुष्ठाग्रसंलग्नं पाशः प्रसृतकुञ्चितः
हले मुष्टिर्यथा वामो दक्षहीनस्तथाङ्कुशः
अधोमुखस्थिते वामे दक्षिणां तर्जनीं बुधः
चालयेन्मध्यदेशस्थां घण्टामुद्रा प्रिया मता
करावूर्ध्वमुखौ कार्यावन्योन्यान्तरिताङ्गुली
अनामे मध्यपृष्ठस्थे तर्जन्यौ मूलपर्वगे
मध्यमे द्वे युते कार्ये कनिष्ठे पुरुषावधि
तर्जन्यौ मध्यपार्श्वस्थे विरले परिकल्पिते
मुद्गरस्त्रिशिखो ह्येष क्षणादावेशकारकः
कराभ्यामञ्जलिं कृत्वा अनामामूलपर्वगौ
अङ्गुष्ठौ कल्पयेद्विद्वान्मन्त्रावाहनकर्मणि
मुष्टी द्वावुन्नताङ्गुष्ठौ स्थापनी परिकीर्तिता
द्वावेव गर्भगाङ्गुष्ठौ विज्ञेया संनिरोधिनी
द्रव्यदा तु समाख्याता त्र संमुखी
हृदये संमुखौ हस्तौ संलग्नौ प्रसृताङ्गुली
नमस्कृतिरियं मुद्रा मन्त्रवन्दनकर्मणि
अन्योन्यान्तरिताः सर्वाः करयोरङ्गुलीः स्थिताः
कनिष्ठां दक्षिणां वामेऽनामिकाग्रे नियोजयेत्
दक्षिणे च तथा वामं तर्जनीमध्यमे तथा
अङ्गुष्ठौ मध्यमूलस्थौ मुद्रेयममृतप्रभा
दक्षिणं नाभिमूले तु वामस्योपरि संस्थितम्
तर्जन्यङ्गुष्ठकौ लग्नौ उच्छ्रितौ योगकर्मणि
एवं मुद्रागणं मन्त्री बध्नीयद्धृदये बुधः
सर्वासां वाचकाश्चासामों ह्रीं नाम ततो नमः
मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0