मालिनीविजयोत्तरतन्त्रम् · अध्याय 6
अथास्य वस्तुजातस्य यथा देहे व्यवस्थितिः
क्रियते ज्ञानदीक्षासु तथेदानीं निगद्यते
पादाधः पञ्चभूतानि व्याप्त्या द्व्यङ्गुलया न्यसेत्
धरातत्त्वं च गुल्फान्तमबादीनि ततः क्रमात्
तद्वत्तुन्दोपरिष्टात्तु पर्वषट्कावसानकम्
पुंस्तत्त्वात्कलातत्त्वान्तं तत्त्वषट्कं विचिन्तयेत्
ततो मायादितत्त्वानि चत्वारि सुसमाहितः
चतुरङ्गुलया व्याप्त्या सकलान्तानि भावयेत्
शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम्
सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत्
षट्त्रिंशत्तत्त्वभेदेन न्यासोऽयं समुदाहृतः
अधुना पञ्च तत्त्वानि यथा देहे तथोच्यते
नाभेरूर्ध्वं तु यावत्स्यात्पर्वषट्कमनुक्रमात्
धरातत्त्वेन गुल्फान्तं व्याप्तं शेषमिहाम्बुना
द्वाविंशतिश्च पर्वाणि तदूर्ध्वं तेजसावृतम्
तस्माद्द्वादश पर्वाणि वायुव्याप्तिरुदाहृता
आकाशान्तं परं शान्तं सर्वेषां व्यापकं स्मरेत्
शक्त्यादिपञ्चखण्डाध्वविधिष्वप्येवमिष्यते
त्रिखण्डे कण्ठपर्यन्तमात्मतत्त्वमुदाहृतम्
विद्यातत्त्वमतोर्ध्वं च शिवतत्त्वं तु पूर्ववत्
एवं तत्त्वविधिः प्रोक्तो भुवनाध्वा तथोच्यते
कालाग्नेर्वीरभद्रान्तं पुरषोडशकं ततः
गुल्फान्तं विन्यसेद्ध्यात्वा यथावदनुपूर्वशः
तस्मादेकाङ्गुलव्याप्त्या लकुलीशादितः क्रमात्
विन्यसेत्तु द्विरण्डान्तं त्र्यङ्गुलं छगलाण्डकम्
ततः पादाङ्गुलव्याप्त्या देवयोगाष्टकं पृथक्
ततोऽप्यर्धाङ्गुलव्याप्त्या पुरषट्कमनुक्रमात्
चतुष्कं तु द्वयेऽन्यस्मिन्नेकमेकत्र चिन्तयेत्
उत्तरादिक्रमाद्द्व्येकभेदो विद्यादिके त्रये
काले प्रत्येकमुद्दिष्टमेकैकं तु यथाक्रमं
मण्डलाधिपतीनां तु व्याप्तिरर्धाङ्गुला मता
त्रिभागन्यूनपर्वाख्या त्रितयस्य तथोपरि
द्वितयस्य च संपूर्णा पञ्चकं समुदाहृतम्
अष्टकं पञ्चकं चान्यदेवमेव विलक्षयेत्
भुवनाध्वविधावत्र पूर्ववच्चिन्तयेच्छिवम्
पदानि द्विविधान्यत्र वर्गविद्याविभेदतः
तेषां तन्मन्त्रवद्व्याप्तिर्यथेदानीं तथा शृणु
चतुरङ्गुलमाद्यं तु द्वे चान्येऽष्टाङ्गुले पृथक्
दशाङ्गुलानि त्रीण्यस्मादेकं पञ्चदशाङ्गुलम्
चतुर्भिरधिकैश्चान्यद्व्यापकं नवमं महत्
ऊनविंशतिके भेदे पदानां व्याप्तिरुच्यते
एकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम्
अष्टाङ्गुलानि चत्वारि दशाङ्गुलमतः परम्
द्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलमतः परम्
द्वादशाङ्गुलमन्यच्च द्वेऽन्ये पञ्चाङ्गुले पृथक्
पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी
व्यापकं पदमन्यच्च पूर्ववत्परिकीर्तितं
अपरोऽयं विधिः प्रोक्तः परापरमतः शृणु
पूर्ववत्पृथिवीतत्त्वं विज्ञेयं चतुरङ्गुलम्
सार्धद्व्यङ्गुलमानानि धिषणान्तानि लक्षयेत्
प्रधानं त्र्यङ्गुलं ज्ञेयं शेषं पूर्ववदादिशेत्
परेऽपि पूर्ववत्पृथ्वी त्र्यङ्गुलान्यपराणि च
चतुष्पर्व प्रधानं च शेषं पूर्ववदाश्रयेत्
द्विविधोऽपि हि वर्णानां षड्विधो भेद उच्यते
तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः
पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः
त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना
इत्थं भूतशरीरस्य गुरुणा शिवमूर्तिना
प्रकर्तव्या विधानेन दीक्षा सर्वफलप्रदा
मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0