भाषा

ENहिગુ
ग्रंथ पाठ

मालिनीविजयोत्तरतन्त्रम् · अध्याय 5

5.1

अथातः संप्रवक्ष्यामि भुवनाध्वानमीश्वरि
आदौ कालाग्निभुवनं शोधितव्यं प्रयत्नतः

5.2

अवीचिः कुम्भीपाकश्च रौरवश्च तृतीयकः
कूष्माण्डभुवने शुद्धे सर्वे शुद्धा न संशयः

5.3

पातालानि ततः सप्त तेषामादौ महातलम्
रसातलं ततश्चान्यत्तलातलमतः परम्

5.4

सुतलं नितलं चेति वितलं तलमेव च
हाटकेन विशुद्धेन सर्वेषां शुद्धिरिष्यते

5.5

तदूर्ध्वं पृथिवी ज्ञेया सप्तद्वीपार्णवान्विता
देवानामाश्रयो मेरुस्तन्मध्ये संव्यवस्थितः

5.6

भुवोलोकस्तदूर्ध्वे च स्वर्लोकस्तस्य चोपरि
महो जनस्तपः सत्यमित्येतल्लोकसप्तकम्

5.7

चतुर्दशविधो यत्र भूतग्रामः प्रवर्तते
स्थावरः सर्पजातिश्च पक्षिजातिस्तथापरा

5.8

मृगसंज्ञश्च पश्वाख्यः पञ्चमोऽन्यश्च मानुषः
पैशाचो राक्षसो याक्षो गान्धर्वश्चैन्द्र एव च

5.9

सौम्यश्च प्राजापत्यश्च ब्राह्मश्चात्र चतुर्दश
सर्वस्यैवास्य संशुद्धिर्ब्राह्मे संशोधिते सति

5.10

भुवनं वैष्णवं तस्मान्मदीयं तदनन्तरम्
तत्र शुद्धे भवेच्छुद्धं सर्वमेतन्न संशयः

5.11

कालाग्निपूर्वकैरेभिर्भुवनैः पञ्चभिः प्रिये
शुद्धैः सर्वमिदं शुद्धं ब्रह्माण्डान्तर्व्यवस्थितम्

5.12

तद्बहिः शतरुद्राणां भुवनानि पृथक्पृथक्
दश संशोधयेत्पश्चादेकं तन्नायकावृतम्

5.13

अनन्तः प्रथमस्तेषां कपालीशस्तथापरः
अग्निरुद्रो यमश्चैव नैरृतो बल एव च

5.14

शीघ्रो निधीश्वरश्चैव सर्वविद्याधिपोऽपरः
शंभुश्च वीरभद्रश्च विधूमज्वलनप्रभः

5.15

एभिर्दशैकसंख्यातैः शुद्धैः शुद्धं शतं मतम्
उपरिष्टात्पुरस्तेषामष्टकाः पञ्च संस्थिताः

5.16

लकुली भारभूतिश्च दिण्ढ्याषाढी सपुष्करौ
नैमिषं च प्रभासं च अमरेशमथाष्टकम्

5.17

एतत्प्रत्यात्मकं प्रोक्तमतो गुह्यातिगुह्यकम्
तत्र भैरवकेदारमहाकालाः समध्यमाः

5.18

आम्रातिकेशजल्पेशश्रीशैलाः सहरीन्दवः
भीमेश्वरमहेन्द्राट्टहासाः सविमलेश्वराः

5.19

कनखलं नाखलं च कुरुक्षेत्रं गया तथा
गुह्यमेतत्तृतीयं तु पवित्रमधुनोच्यते

5.20

स्थानुस्वर्णाक्षकावाद्यौ भद्रगोकर्णकौ परौ
महाकालाविमुक्तेशरुद्रकोट्यम्बरापदाः

5.21

स्थूलः स्थूलेश्वरः शङ्कुकर्णकालञ्जरावपि
मण्डलेश्वरमाकोटद्विरण्डछगलाण्डकौ

5.22

स्थाण्वाष्टकमिति प्रोक्तमहङ्कारावधि स्थितम्
देवयोन्यष्टकं बुद्धौ कथ्यमानं मया शृणु

5.23

पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च
तथा सौम्यं सप्राजेशं ब्राह्ममष्टममिष्यते

5.24

योगाष्टकं प्रधाने तु तत्रादावकृतं भवेत्
कृतं च रैभवं ब्राह्मं वैष्णवं तदनन्तरम्

5.25

कौमारमौमं श्रैकण्ठमिति योगाष्टकं तथा
पुरुषे वामभीमोग्रभवेशानैकवीरकाः

5.26

प्रचण्डोमाधवाजाश्च अनन्तैकशिवावथ
क्रोधेशचण्डौ विद्यायां संवर्तो ज्योतिरेव च

5.27

कलातत्त्वे परिज्ञेयौ सुरपञ्चान्तकौ परे
एकवीरशिखण्डीशश्रीकण्ट्ःआः कालमाश्रिताः

5.28

महातेजः प्रभृतयोः मण्डलेशानसंज्ञकाः
मायातत्त्वे स्थितास्तत्र वामदेवभवोद्भवौ

5.29

एकपिङ्गेक्षणेशानभुवनेशपुरःसराः
अङ्गुष्ठमात्रसहिताः कालानलसमत्विषः

5.30

विद्यातत्त्वेऽपि पञ्चाहुर्भुवनानि मनीषिणः
तत्र हालाहलः पूर्वो रुद्रः क्रोधस्तथापरः

5.31

अम्बिका च अघोरा च वामदेवी च कीर्त्यते
ईश्वरे पिवनाद्याः स्युरघोरान्ता महेश्वराः

5.32

रौद्री ज्येष्ठा च वामा च तथा शक्तिसदाशिवौ
एतानि सकले पञ्च भुवनानि विदुर्बुधाः

5.33

एवं तु सर्वतत्त्वेषु शतमष्टादशोत्तरम्
भुवनानां परिज्ञेयं सङ्क्षेपान्न तु विस्तरात्

5.34

शुद्धेनानेन शुद्ध्यन्ति सर्वाण्यपि न संशयः
सर्वमार्गविशुद्धौ तु कर्तव्यायां महामतिः

5.35

सकलावधि संशोध्य शिवे योगं प्रकल्पयेत्
बुभुक्षोः सकलं ध्यात्वा योगं कुर्वीत योगवित्

5.36

इत्येष कीर्तितो मार्गो भुवनाख्यस्य मे मतः

मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc