भाषा

ENहिગુ
ग्रंथ पाठ

मालिनीविजयोत्तरतन्त्रम् · अध्याय 4

4.1

अथैतदुपसंश्रुत्य मुनयो मुदितेक्षणाः
प्रणम्य क्रौञ्चहन्तारं पुनरूचुरिदं वचः

4.2

योगमार्गविधिं देव्या पृष्टेन परमेष्ठिना
तत्प्रतिज्ञावताप्युक्तं किमर्थं मन्त्रलक्षणम्

4.3

एवमुक्तः स तैः सम्यक्कार्तिकेयो महामतिः
इदमाह वचस्तेषां संदेहविनिवृत्तये

4.4

योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना
यद्वस्तु ज्ञेयमित्युक्तं हेयत्वादिप्रसिद्धये

4.5

द्विरूपमपि तज्ज्ञानं विना ज्ञातुं न शक्यते
तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम्

4.6

सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम्
न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे

4.7

क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते
द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम्

4.8

न च योगाधिकारित्वमेकमेवानया भवेत्
अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया

4.9

श्रुत्वा चैतत्पतेर्वाक्यं रोमाञ्चितशरीरिणी
इदमाह पुनर्वाक्यमम्बा मुनिवरोत्तमाः

4.10

अभिन्नमालिनीकाये तत्त्वानि भुवनानि च
कलाः पदानि मन्त्राश्च यथावदवधारिताः

4.11

भिन्नयोनिस्तु या देव त्वयोक्ता मालिनी मम
तस्या अङ्गे यथैतानि संस्थितानि तथा वद

4.12

एवमुक्तो महादेव्या भैरवो भूरिभोगदः
स्फुरद्धिमांशुसंतानप्रकाशितदिगन्तरः

4.13

सुरासुरशिरोमौलिमालालालितशासनः
उवाच मधुरां वाचमिमामक्लेशिताशयाम्

4.14

या मया कथिता देवि भिन्नयोनिस्तु मालिनी
तदङ्गे संप्रवक्ष्यामि सर्वमेतद्यथा स्थितम्

4.15

फे धरातत्त्वमुद्दिष्टं दादिझान्तेऽनुपूर्वशः
त्रयोविंशत्यबादीनि प्रधानान्तानि लक्षयेत्

4.16

ठादौ च सप्तके सप्त पुरुषादीनि पूर्ववत्
इङघेषु त्रयं विद्याद्विद्यातः सकलावधि

4.17

शिवतत्त्वे गकारादिनान्तान् षोडश लक्षयेत्
कलाः पदानि मन्त्राश्च भुवनानि च सुन्दरि

4.18

पूर्ववद्वेदितव्यानि तत्सङ्ख्यार्णविभेदतः
विद्यात्रयविभागेन यथेदानीं तथा शृणु

4.19

निष्कले पदमेकार्णं त्र्यर्णैकार्णमथ द्वयम्
सकले तु परिज्ञेयं पञ्चैकार्णद्वयं द्वये

4.20

चतुरेकाक्षरे द्वे च मायादित्रितये मते
चतुरक्षरमेकं च कालादिद्वितये मतम्

4.21

रञ्जके द्व्यर्णमुद्दिष्टं प्रधाने त्र्यर्णमिष्यते
बुद्धौ देवाष्टकव्याप्त्या पदं द्व्यक्षरमिष्यते

4.22

ततः पञ्चाष्टकव्याप्त्या द्व्येकद्विद्व्यक्षराणि तु
विद्यापदानि चत्वारि सार्धवर्णं तु पञ्चमम्

4.23

एकैकसार्धवर्णानि त्रीणि तत्त्वे तु पार्थिवे
पराङ्गे सर्वमन्यच्च वर्णमन्त्रकलादिकम्

4.24

सार्धेनाण्डद्वयं व्याप्तमेकैकेन पृथग्द्वयम्
अपरायाः समाख्याता व्याप्तिरेषा विलोमतः

4.25

सार्णेनाण्डत्रयं व्याप्तं त्रिशूलेन चतुर्थकम्
सर्वातीतं विसर्गेण पराव्याप्तिरुदाहृता

4.26

एतत्सर्वं परिज्ञेयं योगिना हितमिच्छता
आत्मनो वा परेषां वा नान्यथा तदवाप्यते

4.27

द्वावेव मोक्षदौ ज्ञेयौ ज्ञानी योगी च शाङ्करि
पृथक्त्वात्तत्र बोद्धव्यं फलकाङ्क्षिभिः

4.28

ज्ञानं च त्रिविधं प्रोक्तं तत्राद्यं श्रुतमिष्यते
चिन्तामयमथान्यच्च भावनामयमेव च

4.29

शास्त्रार्थस्य परिज्ञानं विक्षिप्तस्य श्रुतं मतम्
इदमत्रेदमत्रेति इदमत्रोपयुज्यते

4.30

सर्वमालोच्य शास्त्रार्थमानुपूर्व्या व्यवस्थितम्
तद्वच्चिन्तामयं ज्ञानं द्विरूपमुपदिश्यते

4.31

मन्दस्वभ्यस्तभेदेन तत्र स्वभ्यस्तमुच्यते
सुनिष्पन्ने ततस्तस्मिञ्जायते भावनामयम्

4.32

यतो योगं समासाद्य योगी योगफलं लभेत्
एवं विज्ञानभेदेन ज्ञानी प्रोक्तश्चतुर्विधः

4.33

संप्राप्तो घटमानश्च सिद्धः सिद्धतमोऽन्यथा
योगी चतुर्विधो देवि यथावत्प्रतिपद्यते

4.34

समावेशोक्तिवद्योगस्त्रिविधः समुदाहृतः
तत्र प्राप्तोपदेशस्तु पारम्पर्यक्रमेण यः

4.35

प्राप्तयोगः स विज्ञेयस्त्रिविधोऽपि मनीषिभिः
चेतसो घटनं तत्त्वाच्चलितस्य पुनः पुनः

4.36

यः करोति तमिच्छन्ति घटमानं मनीषिणः
तदेव चेतसा नान्यद्द्वितीयमवलम्बते

4.37

सिद्धयोगस्तदा ज्ञेयो योगी योगफलार्थिभिः
यः पुनर्यत्र तत्रैव संस्थितोऽपि यथा तथा

4.38

भुञ्जानस्तत्फलं तेन हीयते न कथञ्चन
सुसिद्धः स तु बोद्धव्यः सदाशिवसमः प्रिये

4.39

उत्तरोत्तरवैशिष्ट्यमेतेषां समुदाहृतम्
ज्ञानिनां योगिनां चैव द्वयोर्योगविदुत्तमः

4.40

यतोऽस्य ज्ञानमप्यस्ति पूर्वो योगफलोज्झितः
यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान् बुधैः

4.41

इत्येतत्कथितं सर्वं विज्ञेयं योगिपूजिते
तन्त्रार्थमुपसंहृत्य समासाद्योगिनां हितम्

मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc