भाषा

ENहिગુ
ग्रंथ पाठ

मालिनीविजयोत्तरतन्त्रम् · अध्याय 3

3.1

एवमुक्ता महादेवी जगदानन्दकारिणा
प्रणिपत्य पुनर्वाक्यमिदमाह जगत्पतिम्

3.2

एवमेतन्महादेव नान्यथा समुदाहृतम्
यथाख्यातं तथा ज्ञातमादितः समनुक्रमात्

3.3

शिवादिवस्तुरूपाणां वाचकान् परमेश्वर
सांप्रतं श्रोतुमिच्छामि प्रसादाद्वक्तुमर्हसि

3.4

इत्युक्तः स महेशान्या जगदार्तिहरो हरः
वाचकानवदन्मन्त्रान् पारम्पर्यक्रमागतान्

3.5

या सा शक्तिर्जगद्धातुः कथिता समवायिनी
इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते

3.6

सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु
एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम्

3.7

ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते
एवंभूतमिदं वस्तु भवत्विति यदा पुनः

3.8

जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रियोच्यते
एवमेषा द्विरूपापि पुनर्भेदैरनन्तताम्

3.9

अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी
तत्र तावत्समापन्ना मातृभावं विभिद्यते

3.10

द्विधा च नवधा चैव पञ्चाशद्धा च मालिनी
बीजयोन्यात्मकाद्भेदाद्द्विधा बीजं स्वरा मताः

3.11

कादिभिश्च स्मृता योनिर्नवधा वर्गभेदतः
पृथग्वर्णविभेदेन शतार्धकिरणोज्ज्वला

3.12

बीजमत्र शिवः शक्तिर्योनिरित्यभिधीयते
वाचकत्वेन सर्वापि शंभोः शक्तिश्च शस्यते

3.13

वर्गाष्टकमिह ज्ञेयमघोराद्यमनुक्रमात्
तदेव शक्तिभेदेन माहेश्वर्यादि चाष्टकम्

3.14

माहेशी ब्राह्मणी चैव कौमारी वैष्णवी तथा
ऐन्द्री याम्या च चामुण्डा योगीशी चेति ता मताः

3.15

शतार्धभेदभिन्नानां तत्संख्यानां वरानने
रुद्राणां वाचकत्वेन कल्पिताः परमेष्ठिना

3.16

तद्वदेव च शक्तीनां तत्संख्यानामनुक्रमात्
सर्वं च कथयिष्यामि तासां भेदं यथा शृणु

3.17

अमृतोऽमृतपूर्णश्च अमृताभोऽमृतद्रवः
अमृतौघोऽमृतोर्मिश्च अमृतस्यन्दनोऽपरः

3.18

अमृताङ्गोऽमृतवपुरमृतोद्गार एव च
अमृतास्योऽमृततनुस्तथा चामृतसेचनः

3.19

तन्मूर्तिरमृतेशश्च सर्वामृतधरोऽपरः
षोडशैते समाख्याता रुद्रबीजसमुद्भवाः

3.20

जयश्च विजयश्चैव जयन्तश्चापराजितः
सुजयो जयरुद्रश्च जयकीर्तिर्जयावहः

3.21

जयमूर्तिर्जयोत्साहो जयदो जयवर्धनः
बलश्चातिबलश्चैव बलभद्रो बलप्रदः

3.22

बलावहश्च बलवान् बलदाता बलेश्वरः
नन्दनः सर्वतोभद्रो भद्रमूर्तिः शिवप्रदः

3.23

सुमनाः स्पृहणो दुर्गो भद्रकालो मनोनुगः
कौशिकः कालविश्वेशौ सुशिवः कोपवर्धनः

3.24

एते योनिसमुद्भूताश्चतुस्त्रिंशत्प्रकीर्तिताः
स्त्रीपाठवशमापन्ना एत एवात्र शक्तयः

3.25

बीजयोनिसमुद्भूता रुद्रशक्तिसमाश्रयाः
वाचकानामनन्तत्वात्परिसंख्या न विद्यते

3.26

सर्वशास्त्रार्थगर्भिण्या इत्येवंविधयानया
अघोरं बोधयामास स्वेच्छया परमेश्वरः

3.27

स तया संप्रबुद्धः सन् योनिं विक्षोभ्य शक्तिभिः
तत्समानश्रुतीन् वर्णांस्तत्संख्यानसृजत्प्रभुः

3.28

ते तैरालिङ्गिताः सन्तः सर्वकामफलप्रदाः
भवन्ति साधकेन्द्राणां नान्यथा वीरवन्दिते

3.29

तैरिदं संततं विश्वं सदेवासुरमानुषम्
तेभ्यः शास्त्राणि वेदाश्च संभवन्ति पुनः पुनः

3.30

अनन्तस्यापि भेदस्य शिवशक्तेर्महात्मनः
कार्यभेदान्महादेवि त्रैविध्यं समुदाहृतम्

3.31

विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून्
रुद्राणून्याः समालिङ्ग्य घोरतर्योऽपराः स्मृताः

3.32

मिश्रकर्मफलासक्तिं पूर्ववज्जनयन्ति याः
मुक्तिमार्गनिरोधिन्यास्ताः स्युर्घोराः परापराः

3.33

पूर्ववज्जन्तुजातस्य शिवधामफलप्रदाः
पराः प्रकथितास्तज्ज्ञैरघोराः शिवशक्तयः

3.34

एताः सर्वाणुसंघातमपि निष्ठा यथा स्थिताः
तथा ते कथिताः शंभोः शक्तिरेकैव शाङ्करी

3.35

अस्या वाचकभेदेन भेदोऽन्यः संप्रचक्ष्यते
यथेष्टफलसंसिद्ध्यै मन्त्रतन्त्रानुवर्तिनाम्

3.36

विशेषविधिहीनेषु न्यासकर्मसु मन्त्रवित्
न्यसेच्छाक्तशरीरार्थं भिन्नयोनिं तु मालिनीम्

3.37

न शिखा ऋ.ऋळ्ट्च शिरोमाला थ मस्तकम्
नेत्राणि चध वै नासा ई समुद्रे णुणू श्रुती

3.38

बकवर्ग इआ वक्त्रदन्तजिह्वासु वाचि च
वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ

3.39

ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके
प हृच्छलौ स्तनौ क्षीरमा स जीवो विसर्गयुक्

3.40

तत्परः कथितः प्राणः षक्षावुदरनाभिगौ
मशंताः कटिगुह्योरु युग्मगा जानुनी तथा

3.41

एऐकारौ तथा जङ्घे तत्परौ चरणौ दफौ
अतो विद्याश्च मन्त्राश्च समुद्धार्या यथा शृणु

3.42

सबिन्दुकां दक्षजङ्घां ततो वाचं प्रकल्पयेत्
तयैव जङ्घया युक्तं चतुर्थं दशनं ततः

3.43

दक्षजानुयुतं दण्डं प्राणं दण्डस्थमीर्युतम्
पृथग्घृद्दण्डकटिगा द्विजदण्डौ च पूर्ववत्

3.44

उस्थितं बिन्दुयुक्प्राणं पूर्ववद्दशनं ततः
दण्डं केवलमुद्धृत्य वाममुद्रान्वितं पुनः

3.45

दक्षजानुयुतं हृच्च प्राणं जीवात्मना युतम्
दशनं पुर्ववन्न्यस्य दण्डं केवलमेव च

3.46

नितम्बं दक्षमुद्रेतं द्वितीयं जिह्वया द्विजम्
सनासं दक्षशिखरं नितम्बं केवलं ततः

3.47

पुनस्तथैव शिखरं जठरं केवलं ततः
दक्षजानुयुतं कर्णं कण्ठं केवलमेव च

3.48

नितम्बं केवलं न्यस्य हृदयं जिह्वया युतम्
वक्त्रं केवलमुद्धृत्य प्राणमाद्येन जानुना

3.49

शूलदण्डचतुष्कं च तत्राद्यं द्वयमुस्थितम्
वामपादं च तस्यान्ते कपालं पतितं न्यसेत्

3.50

ततः परमघोरान्तं पाद्यकाद्ये च पूर्ववत्
परापरा समाख्याता अपरा च प्रकथ्यते

3.51

अघोरान्तं न्यसेदादौ प्राणं बिन्दुयुतं पुनः
वाममुद्रान्वितं न्यस्य पाद्यं काद्येन पूर्ववत्

3.52

अपरेयं समाख्याता रुद्रशक्तिं परां शृणु
मन्त्राः संमुखतां यान्ति ययोच्चारितमात्रया

3.53

कम्पते गात्रयष्टिश्च द्रुतं चोत्पतनं भवेत्
मुद्राबन्धं च गेयं च शिवारुदितमेव च

3.54

अतीतानगतार्थस्य कुर्याद्वा कथनादिकम्
वामजङ्घान्वितो जीवः पारम्पर्यक्रमागतः

3.55

परेयमनया सिद्धिः सर्वकामफलप्रदा
नाशिष्याय प्रदेयेयं नाभक्ताय कदा चन

3.56

रुद्रश्च रुद्रशक्तिश्च गुरुश्चेति त्रयं समम्
भक्त्या प्रपश्यते यस्तु तस्मै देया वरानने

3.57

शिष्येनापि तदा ग्राह्या यदा संतोषितो गुरुः
शरीरद्रव्यविज्ञानशुद्धिकर्मगुणादिभिः

3.58

बोधिता तु यदा तेन गुरुणा हृष्टचेतसा
तदा सिद्धिप्रदा ज्ञेया नान्यथा वीरवन्दिते

3.59

परापराङ्गसंभूता योगिन्योऽष्टौ महाबलाः
पञ्च षट्पञ्च चत्वारि द्वित्रिद्व्यर्णाः क्रमेण तु

3.60

ज्ञेयाः सप्तैकादशार्णा एकार्धार्णद्वयान्विता
जीवो दीर्घस्वरैः षड्भिः पृथग्जातिविभेदितः

3.61

विद्यात्रयस्य गात्राणि ह्रस्वैर्वक्त्राणि पञ्चभिः
ओंकारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत्

3.62

ओममृते तेजोमालिनि स्वाहा पदानि भूषितम्
एकादशाक्षरं प्रोक्तमेतद्ब्रह्मशिरः प्रिये

3.63

वेदवेदिनि हूंफट्च च प्रणवादिसमन्विता
रुद्राण्यष्टाक्षरा ज्ञेया शिखा विद्यागणस्य तु

3.64

वज्रिणे वज्रधराय स्वाहान्तं प्रणवादिकम्
एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृटम्

3.65

श्लीपदं पशुशब्दं च हूंफडन्तं भवादिकम्
एतत्पाशुपतं प्रोक्तमर्धसप्ताक्षरं परम्

3.66

लरटक्षवयैर्दीर्घैः सूमायुक्तैः सबिन्दुकैः
इन्द्रादीन् कल्पयेद्ध्रस्वैस्तदस्त्राणि विचक्षणः

3.67

तद्वन्नासापयोभ्यां तु कल्प्यौ विष्णुप्रजापती
स्वरावाद्यतृतीयौ तु वाचकौ पद्मचक्रयोः

3.68

इति मन्त्रगणः प्रोक्तः सर्वकामफलप्रदः
योगिनां योगसिद्ध्यर्थं किमन्यत्परिपृच्छसि

मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc