मालिनीविजयोत्तरतन्त्रम् · अध्याय 2
अथैषामेव तत्त्वानां धरादीनामनुक्रमात्
प्रपञ्चः कथ्यते लेशाद्योगिनां योगसिद्धये
शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते
स्वरूपसहितं तच्च विज्ञेयं दशपञ्चधा
शिवादिसकलात्मान्ताः शक्तिमन्तः प्रकीर्तिताः
तच्छक्तयश्च विज्ञेयास्तद्वदेव विचक्षणैः
एवं जलादिमूलान्तं तत्त्वव्रातमिदं महत्
पृथग्भेदैरिमैर्भिन्नं विज्ञेयं तत्फलेप्सुभिः
अनेनैव विधानेन पुंस्तत्त्वात्तु कलान्तिकम्
त्रयोदशविधं ज्ञेयं रुद्रवत्प्रलयाकलः
तद्वन्मायापि विज्ञेया नवधा ज्ञानकेवलः
मन्त्राः सप्तविधास्तद्वत्पञ्चधा मन्त्रनायकाः
त्रिधा मन्त्रेश्वरेशानाः शिवः साक्षान्न भिद्यते
भेदः प्रकथितो लेशादनन्तो विस्तरादयम्
एवं भुवनमालापि भिन्ना भेदैरिमैः स्फुटम्
विज्ञेया योगसिद्ध्यर्थं योगिभिर्योगपूजिता
एतेषामेव तत्त्वानां भुवनानां च शाङ्करि
य एकमपि जानाति सोऽपि योगफलं लभेत्
यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः
स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः
दृष्टाः संभाषितास्तेन स्पृष्टाश्च प्रीतचेतसा
नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि
ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः
ते यथेष्टं फलं प्राप्य गच्छन्ति परमं पदम्
रुद्रशक्तिसमावेशस्तत्र नित्यं प्रतिष्ठितः
सति तस्मिंश्च चिह्नानि तस्यैतानि विलक्षयेत्
तत्रैतत्प्रथमं चिह्नं रुद्रे भक्तिः सुनिश्चला
द्वितीयं मन्त्रसिद्धिः स्यात्सद्यःप्रत्ययकारिका
सर्वसत्त्ववशित्वं च तृतीयं लक्षणं स्मृतम्
प्रारब्धकार्यनिष्पत्तिश्चिह्नमाहुश्चतुर्थकम्
कवित्वं पञ्चमं प्रोक्तं सालंकारं मनोहरम्
सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते
रुद्रशक्तिसमावेशः पञ्चधा परिपठ्यते
भूततत्त्वात्ममन्त्रेशशक्तिभेदाद्वरानने
पञ्चधा भूतसंज्ञस्तु तथा त्रिंशतिधा परः
आत्माख्यस्त्रिविधः प्रोक्तो दशधा मन्त्रसंज्ञकः
द्विविधः शक्तिसंज्ञोऽपि ज्ञातव्यः परमार्थतः
पञ्चाशद्भेदभिन्नोऽयं समावेशः प्रकीर्तितः
आणवोऽयं समाख्यातः शाक्तोऽप्येवंविधः स्मृतः
एवं शाम्भवमप्येभिर्भेदैर्भिन्नं विलक्षयेत्
उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः
यो भवेत्स समावेशः सम्यगाणव उच्यते
उच्चाररहितं वस्तु चेतसैव विचिन्तयन्
यमावेशमवाप्नोति शाक्तः सोऽत्राभिधीयते
अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः
जायते यः समावेशः शाम्भवोऽसावुदीरितः
सार्धमेतच्छतं प्रोक्तं भेदानामनुपूर्वशः
संक्षेपाद्विस्तरादस्य परिसंख्या न विद्यते
संवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः
भेदोऽपरोऽपि संक्षेपात्कथ्यमानोऽवधार्यताम्
जाग्रत्स्वप्नादिभेदेन सर्वावेशक्रमो बुधैः
पञ्चभिन्नः परिज्ञेयः स्वव्यापारात्पृथक्पृथक्
तत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम्
इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके
अकलौ द्वौ परिज्ञेयौ सम्यक्स्वप्नसुषुप्तयोः
मन्त्रादितत्पतीशानवर्गस्तुर्य इति स्मृतः
शक्तिशंभू परिज्ञेयौ तुर्यातीते वरानने
त्रयोदशात्मके भेदे स्वरूपमकलावुभौ
मन्त्रमन्त्रेश्वरेशानाः शक्तिशंभू च कीर्तितौ
प्रलयाकलभेदेऽपि स्वं विज्ञानकलावुभौ
मन्त्रमन्त्रेश्वरेशानाः शक्तीशावपि पूर्ववत्
नवधा कीर्तिते भेदे स्वं मन्त्रा मन्त्रनायकाः
तदीशाः शक्तिशंभू च पञ्चावस्थाः प्रकीर्तिताः
पूर्ववत्सप्तभेदेऽपि स्वं मन्त्रेशेशशक्तयः
शिवश्चेति परिज्ञेयाः पञ्चैव वरवर्णिनि
स्वं शक्तिः सनिजेशाना शक्तिशंभू च पञ्चके
त्रिके स्वशक्तिशक्तीच्छाशिवपदं विलक्षयेत्
स्वव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः
इच्छानिवृत्तेः स्वस्थत्वादभिन्नमपि पञ्चधा
इति पञ्चात्मके भेदे विज्ञेयं वस्तु कीर्तितम्
भूयोऽप्यासामवस्थानां संज्ञाभेदः प्रकाश्यते
पिण्डस्थः सर्वतोभद्रो जाग्रन्नामद्वयं मतम्
द्विसंज्ञं स्वप्नमिच्छन्ति पदस्थं व्याप्तिरित्यपि
रूपस्थं तु महाव्याप्तिः सुषुप्तस्यापि तद्द्वयम्
प्रचयं रूपातीतं च सम्यक्तुर्यमुदाहृतम्
महाप्रचयमिच्छन्ति तुर्यातीतं विचक्षणाः
पृथक्तत्त्वप्रभेदेन भेदोऽयं समुदाहृतः
सर्वाणि एव तत्त्वानि पञ्चैतानि यथा शृणु
भूततत्त्वाभिधानानां योऽंशोऽधिष्ठेय इष्यते
पिण्डस्थमिति तं प्राहुः पदस्थमपरं विदुः
मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते
रूपातीतं परा शक्तिः सव्यापाराप्यनामया
निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः
सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते
चतुर्विधं तु पिण्डस्थमबुद्धं बुद्धमेव च
प्रबुद्धं सुप्रबुद्धं च पदस्थं च चतुर्विधम्
गतागतं सुविक्षिप्तं सङ्गतं सुसमाहितम्
चतुर्धा रूपसंस्थं तु ज्ञातव्यं योगचिन्तकैः
उदितं विपुलं शान्तं सुप्रसन्नमथापरम्
मनोन्मनमनन्तं च सर्वार्थं सततोदितम्
प्रचये तत्र संज्ञेयमेकं तन्महति स्थितम्
इत्येवं पञ्चधाध्वानं त्रिधेदानीं निगद्यते
विज्ञानाकलपर्यन्तमात्मतत्त्वमुदाहृतम्
ईश्वरान्तं च विद्याह्वं शेषं शिवपदं विदुः
एवं भेदैरिमैर्भिन्नस्तत्राध्वा परिकीर्तितः
युगपत्सर्वमार्गाणां प्रभेदः प्रोच्यतेऽधुना
पार्थिवं प्राकृतं चैव मायीयं शाक्तमेव च
इति सङ्क्षेपतः प्रोक्तमेतदण्डचतुष्टयम्
पृथग्द्वयमसङ्ख्यातमेकमेकं पृथक्पृथक्
आद्यं धारिकया व्याप्तं तत्रैकं तत्त्वमिष्यते
एकमेकं पृथक्क्षार्णं पदार्णमनुषु स्मरेत्
कालाग्निभुवनाद्यावद्वीरभद्रपुरोत्तमम्
पुरषोडशकं ज्ञेयं षड्विधोऽध्वा प्रकीर्तितः
आप्यायिन्या द्वितीयं च तत्र तत्त्वानि लक्षयेत्
त्रयोविंशत्यबादीनि तद्वद्धाद्यक्षराणि च
पदानि पञ्च मन्त्राश्च षट्पञ्चाशत्पुराणि च
तत्त्वानि सप्त बोधिन्या तच्चतुर्धा पुराणि च
तृतीये सप्त वर्णाः स्युः पदमन्त्रद्वयं द्वयम्
उत्पूयिन्या चतुर्थं तु तत्र तत्त्वत्रयं विदुः
वर्णत्रयं मन्त्रमेकं पदमेकं च लक्षयेत्
अष्टादश विजानीयाद्भुवनानि समासतः
शिवतत्त्वं परं शान्तं कला तत्रावकाशदा
स्वरषोडशकं मन्त्रं पदं चैकं विलक्षयेत्
इत्येवं षड्विधोऽप्यध्वा समासात्परिकीर्तितः
शुद्धाशुद्धं जगत्सर्वं ब्रह्माण्डप्रभवं यतः
तस्माच्छुद्धमिमैः शुद्धैर्ब्रह्माण्डैः सर्वमिष्यते
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चेति सुव्रते
पृथगेतेषु बोद्धव्यं शान्तं पतिचतुष्टयम्
यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते
एतत्ते कथितं सर्वं किमन्यत्परिपृच्छसि
मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0