मालिनीविजयोत्तरतन्त्रम् · अध्याय 22
अथान्यं परमं गुह्यं कथयामि तव प्रिये
यन्न कस्य चिदाख्यातं योगामृतमनुत्तमम्
सूर्याकृष्टिकरं नाम योगिनां योगसिद्धिदम्
सम्यङ्मासचतुष्केण दिनाष्टाभ्यधिकेन तु
प्रहर्स्याष्टमो भागो नाडिकेत्यभिधीयते
तत्पादक्रमवृद्ध्या तु प्रतिवासरमभ्यसेत्
उदयास्तमयं यावद्यत्र सूर्यः प्रदृश्यते
प्रदेशे तत्र विजने सर्वबाधाविवर्जिते
अहोरात्रोषितो योगी मकरस्थे दिवाकरे
शुचिर्भूत्वा कृतन्यासः कृतशीतप्रतिक्रियः
भानुबिम्बे न्यसेच्चक्रमष्टषड्द्वादशारकम्
शिवशक्तिघनोपेतं भैरवाष्टकसंयुतम्
वर्षादिऋतुसंयुक्तं मासैरृक्षादिभिर्युतम्
अष्टारं चिन्तयेद्बिम्बे शेषं रश्मिषु चिन्तयेत्
तत्र चित्तं समाधाय प्रोक्तकालं विचक्षणः
अनिमीलितनेत्रस्तु भानुबिम्बं निरीक्षयेत्
ततः काले व्यतिक्रान्ते सुनिमीलितलोचनः
प्रविशेदन्धकारान्तर्भुवनं निरुपद्रवम्
तत्रोन्मीलितनेत्रस्तु बिम्बाकारं प्रपश्यति
संधाय तत्र चैतन्यं तिष्ठेद्यावन्न पश्यति
नष्टेऽपि चेतसा शेषं तिष्ठेत्कालमनुस्मरन्
एवं मासेन देवेशि स्थिरं तदुपजायते
मासद्वयेन सर्वत्र प्रेक्षते नात्र संशयः
त्रिभिः समीक्षते सर्वं रविबिम्बसमाकुलम्
प्रोक्तकालावसानेन वृषस्थे तिग्मरोचिषि
प्रेक्षते सूर्यबिम्बान्तः सचक्रं परमेश्वरम्
उपलब्धं समाकृष्य मुखाग्रे स्थिरतां नयेत्
आपीय पूर्ववत्पश्चाद्वृत्तिं निश्चलतां नयेत्
तत्र तेन सहात्मानमेकीकृत्य मुहूर्तकम्
यावत्तिष्ठति देवेशि तावत्संत्यजति क्षितिम्
पश्यतो जनवृन्दस्य याति सूर्येन चैकतः
अनेन विधिना देवि सिद्धयोगीश्वरेश्वरः
शिवाद्यवनिपर्यन्तं न क्व चित्प्रतिहन्यते
भुक्त्वा तु विपुलान् भोगान्निष्कले लीयते परे
तदेतत्खेचरीचक्रं यत्र खेचरतां व्रजेत्
सिद्धयोगेश्वरीतन्त्रे सरहस्यमुदाहृतम्
अथवा चक्ररूपेण सबाह्याभ्यन्तरं स्वकम्
देहं चिन्तयतः पूर्वं फलं स्यान्निश्चितात्मनः
उच्चरन् फादिनान्तां वा ध्वनिज्योतिर्मरुद्द्युताम्
विश्राम्य मस्तके चित्तं क्षणमेकं विचक्षणः
त्रिशूलेन प्रयोगेन सद्यस्त्यजति मेदिनीम्
एवं समभ्यसन्मासाच्चक्रवद्भ्रमति क्षितौ
मुहूर्तं स्पृशते भूमिं मुहूर्ताच्च नभस्तलम्
शिवारावादि कुरुते वलनास्फोटनानि च
मुद्राबन्धादिकं वाथ भाषा वाळ्वक्त्यनेकधा
षण्मासान्मेदिनीं त्यक्त्वा समाधिस्थो दृढेन्द्रियः
तिष्ठते हस्तमात्रेण गगने योगचिन्तकः
पश्यते योगिनीवृन्दमनेकाकारलक्षणम्
संवत्सरेण युक्तात्मा तत्समानः प्रजायते
पश्यतामेव लोकानां तेजोभिर्भासयन् दिशः
यात्युत्कृष्य महीपृष्ठात्खेचरीणां पतिर्भवेत्
मुद्रा खगेश्वरी नाम कथिता योगिनीमते
जागरित्वाथ वा योगी त्र्यहोरात्रमतन्द्रितः
चतुर्थेऽह्नि निशारम्भे पूजयित्वा महेश्वरम्
ततोऽन्धकारे बहुले कृतरक्षाविधिर्बुधः
भ्रुवोर्मध्ये समाधाय क्षणं चेतः प्रपश्यति
तेजो रूपप्रतीकाशं पर्यङ्कासनमास्थितः
प्रयोगं त्वेव सततं योगयुक्तः समभ्यसेत्
पश्यते मासमत्रेण गृहान्तर्वस्तु यत्स्थितम्
द्वाभ्यां बहिः स्थितं सर्वं त्रिभिः पत्तनसंस्थितम्
चतुर्भिर्विषयान्तःस्थं पञ्चभिर्मण्डलावधि
षड्भिर्मासैर्महायोगी च्छिद्रं पश्यति मेदिनीम्
सर्वज्ञत्वमवाप्नोति वत्सरान्नात्र संशयः
योगिनीसिद्धसङ्घस्य सद्भावव्याप्तिसंस्थितम्
पश्यते योगयुक्तात्मा तत्समानश्च जायते
अनेनैव विधानेन स्वस्तिकासनसंस्थितः
बिन्दुं नानाविधं त्यक्त्वा शुद्धरूपमनुस्मरेत्
तेनापि सर्वं पुर्वोक्तं व्याप्नोति फलमुत्तमम्
मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0