मालिनीविजयोत्तरतन्त्रम् · अध्याय 23
अथातः परमं गुह्यं कथयामि तवाधुना
सद्योपलब्धिजनकं योगिनां योगसिद्धये
पूर्वन्यासेन संनद्धश्चित्तं श्रोत्रे निवेशयेत्
निवाते स्वल्पवाते वा बाह्यशब्दविवर्जिते
ततस्तत्र शृणोत्येष योगी ध्वनिमनावृतम्
सुविशुद्धस्य कांस्यस्य हतस्येह मुहुर्मुहुः
यमाक्र्ण्य महादेवि पुण्यपापैः प्रमुच्यते
तत्र संधाय चैतन्यं षण्मासाद्योगवित्तमः
रुतं पक्षिगणस्यापि प्रस्फुटं वेत्त्ययत्नतः
दूराच्छ्रवणविज्ञानं वत्सरेणास्य जायते
सर्वकामफलावाप्तिर्वत्सरत्रितयेन च
सिद्ध्यतीति किमाश्चार्यमनायासेन सिद्ध्यति
अथवा ग्रहणे मासि कृत्वा सूर्यं तु पृष्ठतः
पूर्वन्यासेन संनद्धः किं चिद्भित्तिमदाश्रितः
लक्षयेदात्मनश्छायां मस्तकोर्ध्वमनाहतम्
धूमवर्तिविनिष्क्रान्तां तद्गतेनान्तरात्मना
याति तन्मयतां तत्र योगयुक्तो यथा यथा
तथा तथास्य महती साळ्वित्तिरुपजायते
ततस्तत्र महातेजह्स्फुरत्किरणसंनिभम्
पश्यते यत्र दृष्टेऽपि सर्वपापक्षयो भवेत्
तदस्याभ्यासतो मासात्सर्वत्र प्रविसर्पति
ज्वालामालाकुलाकारा दिशः सर्वाः प्रपश्यति
षण्मासमभ्यसन् योगी सर्वज्ञत्वमवाप्नुयात्
अब्दं दिव्यतनुर्भूत्वा शिववन्मोदते चिरम्
अथ जात्यः प्रवक्ष्यन्ते सपूर्वासनशाश्वताः
ह्रीं क्ष्लां क्ष्वीं वं तथाळ्क्षं च पञ्चकस्य यथाक्रमम्
हं यं रं लं तथा वं च पञ्चकस्यापरस्य च
ऋं .ऋं ळं .ळ्ं तथा ओमौं हः अमाकर्णिकावधौ
केसरेषु भकारान्ता हं हां हिं हीं च हुं तथा
हूं हें हैं च दलेष्वेवं स्वसंज्ञाभिश्च शक्तयः
मण्डलत्रितये शेषं सूक्ष्मं प्रेतस्य कल्पयेत्
ज्रकारं शूलशृङ्गाणामित्येतत्परिकीर्तितम्
अनुक्तासनयोगेषु सर्वत्रैव प्रकल्पयेत्
नमः स्वाहा तथा वौषठुं वषट्फट्च
प्रायश्चित्तेषु सर्वेषु जपेन्मालामखण्डिताम्
भिन्नां वाप्यथवाभिन्नामतिक्रमबलाबलम्
सकृज्जपात्समारभ्य यावल्लक्षत्रयं प्रिये
प्राणवृत्तिनिरोधेन ततः परतरं क्व चित्
सदा भ्रमणशीलानां पीठक्षेत्रादिकं बहिः
प्रयोगं संप्रवक्ष्यामि सुखसिद्धिफलप्रदम्
नासाक्रान्तं महाप्राणं दण्डरूपं सबिन्दुकम्
तद्वद्गुह्यं च कुर्वीत विद्येयं द्व्यक्षरा मता
अस्याः पूर्वोक्तविधिना कृतसेवः प्रसन्नधीः
पीठादिकं भ्रमेत्सिद्ध्यै नान्यथा वीरवन्दिते
तत्प्रदेशं समासाद्य मन्त्रैरात्मानमादरात्
विद्यया वेष्तयेत्स्थानं रक्तसूत्रसमानया
बहुधानन्यचित्तस्तु सबाह्याभ्यन्तरं बुधः
ततस्तत्र क्व चित्क्षेत्रे योगिन्यो भीमविक्रमाः
समागत्य प्रयच्छन्ति संप्रदायं स्वकं स्वकम्
येनासौ लब्धमात्रेण संप्रदायेन सुव्रते
तत्समानबलो भूत्वा भुङ्क्ते भोगान् यथेप्सितान्
अथवा कृतसेवस्तु लक्षमेकं जपेत्सुधीः
तर्पयित्वा दशांशेन क्षुद्रकर्मसु योजयेत्
तत्रोच्चारितमात्रेयं विषक्षयकरी भवेत्
चक्रवभ्रममाणैषा योनौ रक्तां विचिन्तयेत्
गमागमक्रमाद्वापि विन्द[लचुन]वारिता
तत्रस्थश्चाशु संघातविघाताकुञ्चनेन तु
क्षणादनन्यचित्तस्तु क्षोभयेदुर्वशीमपि
कृतसेवविधिर्वाथ लक्षत्रयजपेन तु
महतीं श्रियमाधत्ते पद्मश्रीफलतर्पिता
षडुत्थासनसंस्थाना साधिताप्युक्तवर्त्मना
सर्वसिद्धिकरी देवी मन्त्रिणामुपजायते
शूलपद्मविधिं मुक्त्वा नवात्माद्यं च सप्तकम्
षडुत्थमासनं दद्यात्सर्वचक्रविधौ बुधः
कुद्रा च महती योज्या हृद्बीजेनोपचारकम्
अथान्यत्संप्रवक्ष्यामि स्वप्नज्ञानमनुत्तमम्
हृच्चक्रे तन्मयो भूत्वा रात्रौ रात्रावनन्यधीः
मासादूर्ध्वं महादेवि स्वप्ने यत्किंचिदीक्षते
तत्तथ्यं जायते तस्य ध्यानयुक्तस्य योगिनः
तत्रैव यदि कालस्य नियमेन रतो भवेत्
तदा प्रथमयामे तु वत्सरेण शुभाशुभम्
षट्त्रिमासेन क्रमशो द्वितीयादिष्वनुक्रमात्
अरुणोदयवेलायां दशाहेन फलं लभेत्
संकल्पपूर्वकेऽप्येवं परेषामात्मनोऽपि वा
क्व चित्कार्ये समुत्पन्ने सुप्तज्ञानमुपाक्रमेत्
इत्येतत्कथितं देवि सिद्धयोगीश्वरीमतम्
नातः परतरं ज्ञानं शिवाद्यवनिगोचरे
य एवं तत्त्वतो वेद स शिवो नात्र संशयः
तस्य पादरजः मूर्ध्नि धृतं पापप्रशान्तये
एतच्छ्रुत्वा महादेवी परं संतोषमागता
एवं क्षमापयामास प्रणिपत्य पुनः पुनः
इति वः सर्वमाख्यातं मालिनीविजयोत्तरम्
ममैतत्कथितं देव्या योगामृतमनुत्तमम्
भवद्भिरपि नाख्येयमशिष्याणामिदं महत्
न चापि परशिष्याणामपरीक्ष्य प्रयत्नतः
सर्वथैतत्समाख्यातं योगाभ्यासरतात्मनाम्
प्रयातानां विनीतानां शिवैकार्पितचेतसाम्
कार्तिकेयात्समासाद्य ज्ञानामृतमिदं महत्
मनयो योगमभ्यस्य परां सिद्धिमुपागताः
मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0