मालिनीविजयोत्तरतन्त्रम् · अध्याय 21
अथातः परमं गुह्यं शिवज्ञानामृतोत्तमम्
व्याधिमृत्युविनाशाय योगिनामुपवर्ण्यते
षोडशारे खगे चक्रे चन्द्रकल्पितकर्णिके
स्वरूपेण परां तत्र स्रवन्तीममृतं स्मरेत्
पूर्वन्यासेन संनद्धः क्षणमेकं विचक्षणः
ततस्तु रसनां नीत्वा लम्बके विनियोजयत्
स्रवन्तममृतं दिव्यं चन्द्रबिम्बसितं स्मरेत्
मुखमापूर्यते तस्य किं चिल्लवणवारिणा
लोहगन्धेन तच्चात्र न पिबेत्किं तु निक्षिपेत्
एवं समभ्यसेत्तावद्यावत्तत्स्वादु जायते
जराव्याधिविनिर्मुक्तो जायते तत्पिबंस्ततः
षड्भिर्मासैरनायासाद्वत्सरान्मृत्युजिद्भवेत्
तत्र स्वादुनि संजाते तदाप्रभृति तत्रगम्
यदेव चिन्तयेद्द्रव्यं तेनास्यापूर्यते मुखम्
रुधिरं मदिरं वाथ वसां वा क्षीरमेव वा
घृततैलादिकं वाथ द्रवद्द्रव्यमनन्यधीः
अथान्यं संप्रवक्ष्यामि संक्रान्तिविधिमुत्तमम्
मृते जीवच्छरीरे तु प्रविशेद्योगविद्यया
निवातस्थो जितप्राणो जितासनविधिक्रमः
कुर्वीत वायुनावेशमर्कतूले शनैः शनैः
स्वादाकृष्टिविधिं यावद्गुडे निम्बे च कारयेत्
श्रीखण्डगुडकर्पूरैस्ततः कृत्वाकृतिं शुभाम्
प्रगुणामगुण[लचुन]न्यङ्गेषु संदधत्
न्यासं कृत्वापि तत्रापि वेधं कुर्याच्छनैः शनैः
निरोधं तत्र कुर्वीत घट्टनं तदनन्तरम्
घट्टनं नाम विज्ञेयमङ्गप्रत्यङ्गचालनम्
एवमभ्यसतस्तस्य योगयुक्तस्य योगिनः
चलते प्रतिमा सा तु धावते चापि संमुखी
पुनस्तां प्रेरयेत्तावद्यावत्स्वस्थानमागतम्
पतितां चालयेद्भूय उत्तानां पार्श्वतः स्थितः
एवं सर्वात्मनस्तावद्यावत्स्ववशतां गताम्
ततः प्रभृत्यसौ योगी प्रविशेद्यत्र रोचते
मृते जीवच्छरीरे वा संक्रान्त्याक्रान्तिभेदतः
प्रक्षिप्य जलवच्छक्तिजालं सर्वाङ्गसंधिषु
प्रत्यङ्गमङ्गतस्तस्य शक्तिं तेनाक्रमेद्बुधः
स्वकीयं रक्षयेद्देहमाक्रान्तावन्यथा त्यजेत्
बहून्यपि शरीराणि दृढलक्ष्यो यदाळ्भवेत्
तदाळ्गृह्णात्यसंदेहं युगपत्संत्यजन्नपि
अथापरं प्रवक्ष्यामि सद्यःप्रत्ययकारकम्
समाधानामृतं दिव्यं योगिनां मृत्युनाशनम्
चन्द्राकृष्टिकरं नाम मासाद्वाळ्योगभोगदम्
शुक्लपक्षे द्वितीयायां मेषस्थे तिग्मरोचिषि
स्नातः शुचिर्निराहारः कृतपूजाविधिर्बुधः
न्यसेच्चन्द्रे कलाजालं परया समधिष्ठितम्
सर्वबाधापरित्यक्ते प्रदेशे संस्थितो बुधः
एकचित्तः प्रशान्तात्मा शिवसद्भावभावितः
तावदालोकयेच्चन्द्रं यावदस्तमुपागतम्
ततो भुञ्जीत दुग्धेन चन्द्रध्यानसमन्वितः
एवं दिने दिने कुर्याद्यावत्पञ्चदशी भवेत्
शेषां रात्रिं स्वपेद्ध्यायंशॢचन्द्रबिम्बगतां पराम्
पौर्णमासीं तथा योगी अर्धरात्र उपस्थितः
जने निःशब्दतां याते प्रसुप्ते सर्वजन्तुभिः
चन्द्रकोटिकरप्रख्यां तारहारविभूषणाम्
सिताम्बरपरीधानां सितचन्दनचर्चिताम्
मौक्तिकाभरणोपेतं सुरूपां नवयौवनाम्
आप्यायनकरीं देवीं समन्तादमृतस्रवाम्
राजीवासनसंस्थां च योगनिद्रामवस्थिताम्
चन्द्रबिम्बे परां देवीमीक्षते नात्र संशयः
ततस्तां चेतसा व्याप्य तावदाकर्षयेत्सुधीः
यावन्मुखाग्रमायाता तत्र कुर्यात्स्थिरं मनः
ततः प्रसार्य वदनं ध्यानासक्तेन चेतसा
निगिरेत्तां समाकृष्य भूयो हृदि विचिन्तयेत्
तया प्रविष्टया देहं योगी दुःखविवर्जितः
शक्तितुल्यबलो भूत्वा जीवेदाचन्द्रतारकम्
एकोऽप्यनेकधात्मानं संविभज्य निजेच्छया
त्रैलोक्यं यौगपद्येन भुनक्ति वशतां गतम्
आसाद्य विपुलान् भोगान् प्रलये समुपस्थिते
परमभ्येति निर्वाणं दुष्प्रापमकृतात्मनाम्
अथवा तन्न शक्नोति गगने परिचिन्तितुम्
प्रतिबिम्बे तथा ध्यायेदुदकादिषु पूर्ववत्
तत्पीत्वाळ्मनसा शेषां स्वपेद्रात्रिमनुस्मरन्
पूर्वोक्तं समवाप्नोति षड्भिर्मासैरखण्डितम्
मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0