मालिनीविजयोत्तरतन्त्रम् · अध्याय 20
अथ पिण्डादिभेदेन शाक्तं विज्ञानमुच्यते
योगिनां योगसिद्ध्यर्थं संक्षेपान्न तु विस्तरात्
पिण्डं शरीरमित्युक्तं तद्वच्छक्तिशिवात्मनोः
ब्रह्मानन्दो बलं तेजो वीर्यमोजश्च कीर्त्यते
अज्ञानेन निरुद्धं तदनाद्येव सदात्मनः
तदाविर्भूतये सर्वमनिरुद्धं प्रवर्तते
तेनाविर्भाव्यमानं तत्पूर्वावस्थां परित्यजत्
याः संवित्तीरवाप्नोति ता अधस्तात्प्रकीर्तिताः
तदेव पदमिच्छन्ति सर्वार्थावगतिर्यतः
तस्मात्संजायते नित्यं नित्यमेव शिवात्मनोः
तदेव रूपमित्युक्तमात्मनश्च विनश्वरम्
रूपातीतं तदेवाहुर्यतोक्षाविषयं परम्
भावनां तस्य कुर्वीत नमस्कृत्य गुरुं बुधः
तावदालोचयेद्वस्तु यावत्पदमनामयम्
नैवं न चैवं नाप्येवं नापि चैवमपि स्फुटम्
चेतसा योगयुक्तेन यावत्तदिदमप्यलम्
कृत्वा तन्मयमात्मानं सर्वाक्षार्थविवर्जितम्
मुहूर्तं तिष्ठते यावत्तावत्कम्पः प्रजायते
भ्रमणोद्भवनिद्राश्च किं चिदानन्द इत्यपि
तत्र यत्नेन संदध्याच्चेतः परफलेच्छया
तदेतदात्मनो रूपं शिवेन प्रकटीकृतम्
यत्र तु यच्च विज्ञेयं शिवात्मकमपि स्थितम्
तद्रूपोद्बलकत्वेन स्थितिमित्यवधारयेत्
तत्समभ्यसतो नित्यं स्थूलपिण्डाद्युपाश्रयात्
चतुर्भेदत्वमायाति भक्त्याभिन्नमपि स्वतः
स्थूलपिण्डे द्विधा प्रोक्तं बाह्याभ्यन्तरभेदतः
भौतिकं बाह्यमिच्छन्ति द्वितीयं चातिवाहिकम्
तत्राद्योपाश्रयाद्योगी ससंवित्तिरपि स्फुटान्
बाह्यार्थान् संप्रगृह्णाति किं चिदाध्यात्मिकानपि
द्वितीयोपाश्रयात्तत्त्वभावार्थान् संप्रपद्यते
ईशते च स्वदेहान्तः पीठक्षेत्रादिकं स्फुटम्
स्वरूपालोचनादस्य यत्किं चिदुपजायते
तत्र चेतः स्थिरीकुर्वंस्तदेव सकलं लभेत्
तेन तत्र न कुर्वीत चैतदुत्तमवाञ्छया
पिण्डद्वयविनिर्मुक्ता किं चित्तद्वासनान्विता
विज्ञानकेवलान्तस्था पदमित्यभिधीयते
यत एतामनुप्राप्तो विज्ञानक्रमयोगतः
रूपोदयातिविज्ञानपदत्वं प्रतिपद्यते
एतच्चतुर्विधं ज्ञेयं चतुर्धार्थप्रतिश्रयात्
स च तत्त्वादिसंवित्तिपूर्वस्तत्पतितावधिः
पदभावविनिर्मुक्ता किं चित्तदनुवर्जिता
अवस्था स्वस्वरूपस्य प्रकाशकरणी यतः
तेन सारूप्यमित्युक्ता रूपस्थं यत्तदान्वितम्
उदितादिप्रभेदेन तदप्युक्तं चतुर्विधं
ज्ञानोदया च देवेशि ममत्वात्तत्फलप्रदम्
अमुना क्रमयोगेन अन्तरा येषु संदधत्
चेतः शुद्धमवाप्नोति रूपातीतं परं पदम्
चतुर्विधं तदप्युक्तं संवित्तिफलभेदतः
त्रिविधं तत्समभ्यस्य सर्वसिद्धिफलेच्छया
चतुर्थात्तु तनुं व्यक्त्वा तत्क्षणादपवृज्यते
इति पिण्डादि भेदेन शिवज्ञानमुदाहृतम्
योगाभ्यासविधानेन मन्त्रविद्यागणं शृणु
पूर्वोक्तविधिसंनद्धः प्रदेशे पूर्वचोदिते
नाभ्यादिपञ्चदेशानां परार्णं क्वापि चिन्तयेत्
स्वरूपेण प्रभाभारप्रकाशिततनूदरम्
दीप्तिभिस्तस्य तीव्राभिरा ब्रह्मभुवनं ततः
एवं संस्मरतस्तस्य दिवसैः सप्तभिः प्रिये
रुद्रशक्तिसमावेशः सुमहान् संप्रजायते
आविष्टो बहुवाक्यानि संस्कृतादीनि जल्पति
महाहास्यं तथा गेयं शिवरुदितमेव च
करोत्याविष्टचित्तस्तु न तु जानाति किं चन
मासेनैवं यदा मुक्तो यत्र यत्रावलोकयेत्
तत्र तत्र दिशः सर्वा ईक्षते किरणाकुलाः
यां यामेव दिशं षड्भिर्मासैर्युक्तस्तु वीक्षते
नानाकाराणि रूपाणि तस्यां तस्यां प्रपश्यति
न तेषु संदधेच्चेतः न चाभ्यासं परित्यजेत्
कुर्वन्नेतद्विधं योगी भीरुरुन्मत्तको भवेत्
वीरः शक्तिं पुनर्याति प्रमादात्तद्गतोऽपि सन्
वत्सराद्योगसंसिद्धिं प्राप्नोति मनसेप्सिताम्
परापरामथैतस्या अपरां वा यथेच्छया
सद्भावं मातृसंघस्य हृदयं भैरवस्य वा
नवात्मानमपि ध्यायेद्रतिशेखरमेव वा
अघोर्याद्यष्टकं वापि माहेश्यादिकमेव वा
अमृतादिप्रभेदेन रुद्रान् वा शक्तयोऽपि वा
सर्वे तुल्यबलाः प्रोक्ता रुद्रशक्तिसमुद्भवाः
अथवामृतपूर्णानां प्रभेदः प्रोच्यते परः
प्राणस्थं परयाक्रान्तं प्रत्येकमपि दीपितम्
विद्यां प्रकल्पयेन्मन्त्रं प्राणाक्रान्तं परासनम्
द्वादशारस्य चक्रस्य षोडशारस्य वा स्मरेत्
अष्टारस्याथवा देवि तस्य त्रेधा शतस्य वा
षडरस्याथवा मन्त्री यथा सर्वं तथा शृणु
संक्षेपादिदमाख्यातं सार्धं चक्रशतद्वयम्
एतत्त्रिगुणातां याति स्त्रीपुंयामलभेदतः
शान्त्यादिकर्मभेदेन प्रत्येकं द्वादशात्मताम्
दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ
शकुनिः सुमतिर्नन्दो गोपालोऽथ पितामहः
नन्दा भद्रा जया काली कराली विकृतानना
क्रोष्टकी भीममुद्रा च वायुवेगा हयानना
गम्भीरा घोषणी चैव द्वादशैताः प्रकीर्तिताः
आग्नेय्यादिचतुष्कोणा ब्रह्माण्याद्या अपि प्रिये
सिद्धिरृद्धिस्तथा लक्ष्मीर्दीप्तिर्माला शिखा शिवा
सुमुखी वामनी नन्दा हरिकेशी हयानना
विश्वेशी च सुमाख्या च एता वा द्वादश क्रमात्
एतासां वाचका ज्ञेयाः स्वराः षण्ठविवर्जिताः
षोडशारेऽमृताद्याश्च स्त्रीपुंपाठप्रभेदतः
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिः शर्वरीश्वरः
अर्घेशो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा
झिण्ठीशो भौतिकश्चैव सद्योजातस्तथापरः
अनुग्रहेश्वरः क्रूरो महासेनोऽथ षोडश
सिद्धिरृद्धिर्द्युतिर्लक्ष्मी मेघा कान्तिः स्वधा धृतिः
दीप्तिः पुष्टिर्मतिः कीर्तिः संस्थितिः सुगतिः स्मृतिः
सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः
षोडशारे स्वरा ज्ञेया वाचकत्वेन सर्वतः
अघोराद्यास्तथाष्टारे अघोर्याद्याश्च देवताः
माहेश्याद्यास्तथा देवि चतुर्विंशत्यतः शृणु
नन्दादिकाः क्रमात्सर्वा ब्रह्माण्याद्यास्तथैव च
संवर्तो लकुलीकश्च भृगुः श्वेतो बकस्तथा
खड्गी पिनाकी भुजगो नवमो बलिरेव च
महाकालो द्विरण्डश्च च्छगलाण्डः शिखी तथा
लोहितो मेषमीनौ च त्रिदण्ड्याषाढिनामकौ
उमाकान्तोऽर्धनारीशो दारुको लाङ्गली तथा
तथा सोमेशशर्माणौ चतुर्विम्शत्यमी मताः
कादिभान्ताः परिज्ञेया अष्टारे याद्यमष्टकम्
मकारो बिन्दुरूपस्थः सर्वेषामुपरि स्थितः
जुंकारोऽथ तथा स्वाहा षडरे षट्क्रमेण तु
बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः
माधवश्च महादेवि षष्ठः संपरिकीर्तितः
विश्वा विश्वेश्वरी चैव हाराद्री वीरनायिका [हारौद्री?]
अम्बा गुर्वेति योगिन्यो बीजैस्तैरेव षट्स्मृताः
अन्योन्यवलिताः सर्वे स्वाम्यावरणभेदतः
अकारादिक्षकारान्ताः सर्वसिद्धिफलप्रदाः
ध्यानाराधनयुक्तानां योगिनां मन्त्रिणामपि
अथवा सर्वचक्राणां मध्ये विद्यां यथेप्सिताम्
मन्त्रं वा पूर्वमुद्दिष्टं जपन् ध्यायन् प्रसिद्ध्यति
इति संक्षेपतः प्रोक्तं सर्वकामफलप्रदम्
मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0