भाषा

ENहिગુ
ग्रंथ पाठ

मालिनीविजयोत्तरतन्त्रम् · अध्याय 19

19.1

अथैनं परमं योगविधिमाकर्ण्य शाङ्करी
पुनराह प्रसन्नास्या प्रणिपत्य जगद्गुरुम्

19.2

साध्यत्वेन श्रुता देव भिन्नयोनिस्तु मालिनी
विद्यात्रयं सविद्याङ्गं विधिवच्चावधारितम्

19.3

अधुना श्रोतुमिच्छामि ह्यभिन्ना साध्यते कथम्
हिताय साधकेन्द्राणां प्रसादाद्वक्तुमर्हसि

19.4

एवमुक्तो महेशान्या जगतां पतिरादरात्
विकसद्वदनाम्भोजः प्रत्युवाच वचोऽमृतम्

19.5

आरिराधयिषुः शंभुं कुलोक्तविधिना बुधः
कुलचक्रं यजेदादौ बुधो दीक्षोक्तवर्त्मना

19.6

ततो जपेत्परां शक्तिं लक्षमेकमखण्डितम्
पराबीजपुटान्तःस्थां न द्रुतां न विलम्बिताम्

19.7

तद्वत्खण्डाष्तकं चास्या लक्षं लक्षमखण्डितम्
जपेत्कुलेश्वरस्यापि लक्षषट्कमनन्यधीः

19.8

होमयित्वा दशांशेन द्रव्यं पूर्वोदितं बुधः
नित्यानुस्मृतिशीलस्य वाक्सिद्धिः संप्रजायते

19.9

स्वकुले जपयुक्तस्य अशक्तस्यापि साधने
भवन्ति कन्यसा देवि संसारे भोगसंपदः

19.10

शक्तस्तु साधयेत्सिद्धिं मध्यमामुत्तमामपि
कृतसेवाविधिः पृथ्वीं भ्रमेदुद्भ्रान्तपन्त्रिवत्

19.11

नगरे पञ्चरात्रं तु त्रिरात्रं पत्तने तु वै
ग्रामेऽपि चैकरात्रं तु स्थित्वैनं विधिमाचरेत्

19.12

यन्नामाद्यक्षरं यत्र वर्गे तत्तस्य वस्तुनः
कुलमुक्तं विधानज्ञैर्नगरादेर्न संशयः

19.13

या यत्र देवता वर्गे वाच्यत्वे संव्यवस्थिता
सैव तस्य पतित्वेन ध्येया पूज्या च साधकैः

19.14

तस्य किं चित्समासाद्य नगरादिकमादरात्
स्वदिग्वर्गस्थितो भूत्वा चक्रं योज्य निजोदये

19.15

अवा [लचुन] समेकैक उदिते [लचुन]
देवता माहेश्वर [लचुन]

19.16

क्रमेणैव यथा रात्रौ [लचुन] तथाळ्दिवा
स्वदिशि स्वोदये वर्गं तमेवानुस्मरेद्बुधः

19.17

तिष्ठेदन्योदयं यावत्ततः स्वां दिशमाश्रयेत्
स्वकुलं चिन्तयन् यायात्तद्देशकुलमेव वा

19.18

यावदन्यां दिशं मन्त्री ततस्तदनुचिन्तयेत्
एवं यावत्स्वकं स्थानं कुलचक्रोक्तवर्त्मना

19.19

भ्रमित्वा पुनरायाति पूर्वकालक्रमेण च
तावदागत्य देवेशि तदेशकुलनायिका

19.20

ददेद्भक्ष्यादिकं किं चिद्दापयेद्वाथ केन चित्
अनेन विधिना युक्तो गुप्ताचारो दृढव्रतः

19.21

योगिनीमेलकं प्राप्य षण्मासेनैव सिद्ध्यति
दुष्करोऽयं विधिर्देवि सत्त्वहीनैर्नराधमैः

19.22

सर्वसिद्धिकरो मुख्यः कुलशास्त्रेषु सर्वतः
अथैकस्मिन्नपि ग्रामे पत्तने नगरेऽपि वा

19.23

तद्दिग्भागं समाश्रित्य तदेवजपते कुलम्
त्रिभिरब्दैरनायासात्साधयेदुत्तमं फलम्

19.24

लोकयात्रापरित्यक्तो ग्रासमात्रपरिग्रहः
अथवा नाभिचक्रे तु ध्यानचक्रं कुलात्मकम्

19.25

चेतसा भ्रमणं कुर्यात्सर्वकालक्रमेण तु
ततोऽस्य वत्सरार्धेन देहान्तं योगिनीकुलम्

19.26

आविर्भवत्यसंदेहात्स्वविज्ञानप्रकाशकम्
तेनाविर्भूतमात्रेण योगी योगिकुले कुली

19.27

भवेदपि पतिर्देवि योगिनां परमेश्वरि
अथवा चिन्तयेद्देवि यकारादिक्रमाष्टकम्

19.28

स्वरूपेण प्रभाकारकरालाकुलविग्रहम्
तस्य मध्ये कुलेशानं स्वबोधकमनुस्मरन्

19.29

सर्वमेव च तत्पश्चाच्चक्रं दीपशिखाकृतिम्
संभूतं चिन्तयेद्योगी योगिनीपदकाङ्क्षया

19.30

एतस्मिन् व्यक्तिमापन्ने पिण्डस्थं बुद्ध उच्यते
ततोऽस्याकस्मिकी देवि महामुद्रोपजायते

19.31

शृङ्गारवीरकारुण्यशोककोपादयस्तथा
प्रबुद्धमेतदुद्दिष्टं पिण्डस्थममरार्चिते

19.32

दिवसैरभियुक्तस्य ततोऽस्य बहुभिर्दिनैः
धरादितत्त्वभावानां संवित्तिरुपजायते

19.33

सुप्रबुद्धं तदिच्छन्ति पिण्डस्थं ज्ञानमुत्तमम्
चक्रं च त्रिगुणाष्टारमथवा तत्र चिन्तयेत्

19.34

कादिहान्ताक्षराक्रान्तं पूर्वरूपं सबिन्दुकम्
तत्रापि पूर्ववत्सर्वं कुर्वन्नेतद्फलं लभेत्

19.35

आदिवर्णान्वितं वाथ षोडशारमनुस्मरन्
मध्यक्रमेण वा योगी पञ्चमं चुम्बकादिभिः

19.36

द्वासप्ततिसहस्राणि नाडीनां नाभिचक्रके
यतः पिण्डत्वमायान्ति तेनासौ पिण्ड उच्यते

19.37

तत्र स्थितं तु यज्ज्ञेयं पिण्डस्थं तदुदाहृतम्
अ [लचुन] मल [लचुन] त्केश [लचुन] कम्

19.38

विज्वरत्वमवाप्नोति वत्सरेण यदृच्छया
चक्रपञ्चकमेतद्धि पूर्ववद्धृदये स्थितम्

19.39

पदस्थमिति शंसन्ति चतुर्व्हेदं विचक्षणाः
यत्रार्थावगतिर्देवि तत्स्थानंपदमुच्यन्ते

19.40

चतुष्कमत्र विज्ञेयं भेदं पञ्चदशात्मकम्
सर्वतोभद्रसंसिद्धौ सर्वतोभद्रतां व्रजेत्

19.41

जरामरणनैर्गुण्यनिर्मुक्तो योगचिन्तकः
व्याप्तावपि प्रसिद्धायां मायाधस्तत्त्वगोचरः

19.42

वेत्ति तत्पतितुल्यत्वं तदीशत्वं च गच्छति
पदस्थे किं तु चन्द्राभं प्रदीपाभं न चिन्तयेत्

19.43

एतदेवामृतौघेन देहमापूरयत्स्वकम्
चिन्तितं मृत्युनाशाय भवतीति किमद्भुतम्

19.44

उपलक्षणमेतत्ते चन्द्रबिम्बाद्युदीरितम्
येन येनैव रूपेण चिन्त्यते परमेश्वरी

19.45

पिण्डस्थादिप्रभेदेषु तेनैवेष्टफलप्रदा
रूपमैश्वरमिच्छन्ति शिवस्याशिवहारिणः

19.46

यद्भ्रूमध्यस्थितं यस्मात्तेन तत्रव्यवस्थितम्
पञ्चकं सूर्यसंकाशं रूपस्थमभिधीयते

19.47

तत्रापि पूर्ववत्सिद्धिरीश्वरान्तपदोद्भवा
रूपातीतं तु देवेशि प्रागेवोक्तमनेकधा

19.48

इत्येषा कुलचक्रस्य समासाद्व्याप्तिरुत्तमा
कथिता सर्वसिद्ध्यर्थं सिद्धयोगीश्वरीमते

19.49

सर्वदाथ विभेदेन पृथग्वर्णविभेदतः
विद्यादिसर्वसंसिद्ध्यै योगिनां योगमिच्छन्ति

19.50

भूयोऽपि संप्रदायेन वर्णभेदश्च कीर्त्यते
स्त्रीरूपां हृदि संचिन्त्य सितवस्त्रादिभूषिताम्

19.51

नाभिचक्रोपविष्टां तु चन्द्रकोटिसमप्रभाम्
बीजं यत्सर्वशास्त्राणां तत्तदा स्यादनारतम्

19.52

स्वकीयेनैव वक्त्रेण निर्गच्छत्प्रविचिन्तयेत्
तारहारलताकारं विस्फुरत्किरणाकुलम्

19.53

वर्णैस्तारकसंकाशैरारब्धममिताद्युति
मासार्धाच्छास्त्रसंघातमुद्गिरत्यनिवारितम्

19.54

स्वप्ने मासात्समाधिस्थः षड्भिर्मासैर्यथेच्छया
उच्छिन्नान्यपि शास्त्राणि ग्रन्थतश्चार्थतोऽपि वा

19.55

जानाति वत्सराद्योगी यदि तन्मयतां गतः
अनुषङ्गफलं चैतत्समासादुपवर्णितम्

19.56

विद्येश्वरसमानत्वसिद्धिरन्याश्च सिद्धयः
प्रतिवर्नविभेदेन यथेदानीं तथोच्यते

19.57

ध्यातव्या योगिभिर्नित्यं तत्तत्फलबुभुक्षुभिः
विन्यासक्रमयोगेन त्रिविधेनापि वर्त्मना

19.58

यो यत्राङ्गे स्थितो वर्णः कुलशक्तिसमुद्भवः
तं तत्रैव समाधाय स्वरूपेणैव योगवित्

मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc