भाषा

ENहिગુ
ग्रंथ पाठ

मालिनीविजयोत्तरतन्त्रम् · अध्याय 1

1.1

जयन्ति जगदानन्दविपक्षक्षपणक्षमाः
परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः

1.2

जगदर्णवमग्नानां तारकं तारकान्तकम्
सनत्कुमारसनकसनातनसनन्दनाः

1.3

नारदागस्त्यसंवर्तवसिष्ठाद्या महर्षयः
जिज्ञासवः परं तत्त्वं शिवशक्त्युन्मुखीकृताः

1.4

समभ्यर्च्य विधानेन ते तमूचुः प्रहर्षिताः
भगवद्योगसंसिद्धिकाङ्क्षिणो वयमागताः

1.5

सा च योगं विना यस्मान्न भवेत्तमतो वद
ऋषिभिर्योगमिच्छद्भिः स तैरेवमुदाहृतः

1.6

प्रत्युवाच प्रहृष्टात्मा नमस्कृत्य महेश्वरम्
शृणुध्वं संप्रवक्ष्यामि सर्वसिद्धिफलप्रदम्

1.7

मालिनीविजयं तन्त्रं परमेशमुखोद्गतम्
भुक्तिमुक्तिप्रदातारमुमेशममरार्चितम्

1.8

स्वस्थानस्थमुमा देवी प्रणिपत्येदमब्रवीत्
सिद्धयोगेश्वरीतन्त्रं नवकोटिप्रविस्तरम्

1.9

यत्त्वया कथितं पूर्वं भेदत्रयविसर्पितम्
मालिनीविजये तन्त्रे कोटित्रितयलक्षिते

1.10

योगमार्गस्त्वया प्रोक्तः सुविस्तीर्णो महेश्वर
भूयस्तस्योपसंहारः प्रोक्तो द्वादशभिस्तथा

1.11

सहस्रैः सोऽपि विस्तीर्णो गृह्यते नाल्पबुद्धिभिः
अतस्तमुपसंहृत्य समासादल्पधीहितम्

1.12

सर्वसिद्धिकरं ब्रूहि प्रसादात्परमेश्वर
एवमुक्तस्तदा देव्या प्रहस्योवाच विश्वराट्

1.13

शृणु देवि प्रवक्ष्यामि सिद्धयोगेश्वरीमतम्
यन्न कस्य चिदाख्यातं मालिनीविजयोत्तरम्

1.14

मयाप्येतत्पुरा प्राप्तमघोरात्परमात्मनः
उपादेयं च हेयं च विज्ञेयं परमार्थतः

1.15

शिवः शक्तिः सविद्येशा मन्त्रा मन्त्रेश्वराणवः
उपादेयमिति प्रोक्तमेतत्षट्कं फलार्थिनाम्

1.16

मलः कर्म च माया च मायीयमखिलं जगत्
सर्वं हेयमिति प्रोक्तं विज्ञेयं वस्तु निश्चितम्

1.17

एतज्ज्ञात्वा परित्यज्य सर्वसिद्धिफलं लभेत्
तत्रेशः सर्वकृच्छान्तः सर्वज्ञः सर्वकृत्प्रभुः

1.18

सकलो निष्कलोऽनन्तः शक्तिरप्यस्य तद्विधा
स सिसृक्षुर्जगत्सृष्टेरादावेव निजेच्छया

1.19

विज्ञानकेवलानष्टौ बोधयामास पुद्गलान्
अघोरः परमो घोरो घोररूपस्तदाननः

1.20

भीमश्च भीषणश्चैव वमनः पिवनस्तथा
एतानष्टौ स्थितिध्वंसरक्षानुग्रहकारिणः

1.21

मन्त्रमन्त्रेश्वरे शुद्धे संनियोज्य ततः पुनः
मन्त्राणामसृजत्तद्वत्सप्तकोटीः समण्डलाः

1.22

सर्वेऽप्येते महात्मानो मन्त्राः सर्वफलप्रदाः
आत्मा चतुर्विधो ज्ञेयस्तत्र विज्ञानकेवलः

1.23

मलैकयुक्तस्तत्कर्मयुक्तः प्रलयकेवलः
मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम्

1.24

धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम्
ईश्वरेच्छावशादस्य भोगेच्छा संप्रजायते

1.25

भोगसाधनसंसिद्ध्यै भोगेच्छोरस्य मन्त्रराट्
जगदुत्पादयामास मायामाविश्य शक्तिभिः

1.26

सा चैका व्यापिनी सूक्ष्मा निष्कला जगतो निधिः
अनाद्यन्ताशिवेशानी व्ययहीना च कथ्यते

1.27

असूत सा कलातत्त्वं यद्योगादभवत्पुमान्
जातकर्तृत्वसामर्थ्यो विद्यारागौ ततोऽसृजत्

1.28

विद्या विवेचयत्यस्य कर्म तत्कार्यकारणे
रागोऽनुरञ्जयत्येनं स्वभोगेष्वशुचिष्वपि

1.29

नियतिर्योजयत्येनं स्वके कर्मणि पुद्गलम्
कालोऽपि कलयत्येनं तुट्यादिभिरवस्थितः

1.30

तत एव कलातत्त्वादव्यक्तमसृजत्ततः
गुणानष्टगुणां तेभ्यो धियं धीतोऽप्यहङ्कृतिम्

1.31

तत्त्रिधा तैजसात्तस्मान्मनोऽक्षेशमजायत
वैकारिकात्ततोऽक्षाणि तन्मात्राणि तृतीयकात्

1.32

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं बुद्धीन्द्रियाणि तु
कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रयः क्रमात्

1.33

कलादिक्षितिपर्यन्तमेतत्संसारमण्डलम्
समुद्रादि जगत्कृत्स्नं परिवर्तयतीच्छया

1.34

भेदः परः कलादीनां भुवनत्वेन यः स्थितः
असृजत्तमसावेव भोगिनां भोगसिद्धये

1.35

इत्यनेन कलाद्येन धरान्तेन समन्विताः
पुमांसः सकला ज्ञेयास्तदवस्थाजिघांसुभिः

1.36

अवस्थात्रितयेऽप्यस्मिंस्तिरोभावनशीलया
शिवशक्त्या समाक्रान्ताः प्रकुर्वन्ति विचेष्टितम्

1.37

एवं जगति सर्वत्र रुद्राणां योग्यतावशात्
अङ्गुष्ठमात्रपूर्वाणां शतमष्टादशोत्तरम्

1.38

अनुगृह्य शिवः साक्षान्मन्त्रेशत्वे नियुक्तवान्
ते स्वगोचरमासाद्य भुक्तिमुक्तिफलार्थिनाम्

1.39

ब्रह्मादीनां प्रयच्छन्ति स्वबलेन समं फलम्
ऋषिभ्यस्तेऽपि ते चानु मन्वन्तेभ्यो महाधिपाः

1.40

हेयोपादेयविज्ञानं कथयन्ति शिवोदितम्
ब्रह्मादिस्तम्बपर्यन्ते जातमात्रे जगत्यलम्

1.41

मन्त्राणां कोटयस्तिस्रः सार्धाः शिवनियोजिताः
अनुगृह्याणुसंघातं याताः पदमनामयम्

1.42

एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात्
शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा

1.43

तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते
अज्ञानेन सहैकत्वं कस्य चिद्विनिवर्तते

1.44

रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया
भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति

1.45

तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम्
तत्क्षणाद्वोपभोगाद्वा देहपाते शिवं व्रजेत्

1.46

योगदीक्षां समासाद्य ज्ञात्वा योगं समभ्यसेत्
योगसिद्धिमवाप्नोति तदन्ते शाश्वतं पदम्

1.47

अनेन क्रमयोगेन संप्राप्तः परमं पदम्
न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति

1.48

आत्मा चतुर्विधो ह्येष पुनरेष चतुर्विधः
आचार्यत्वादिभेदेन शुद्धात्मा परिपठ्यते

1.49

नित्यादित्रितयं कुर्याद्गुरुः साधक एव च
नित्यमेव द्वयं चान्यो यावज्जीवं शिवाज्ञया

1.50

उपादेयं च हेयं च तदेतत्परिकीर्तितम्
ज्ञात्वैतज्ज्ञेयसर्वस्वं सर्वसिद्ध्यरहो भवेत्

मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc