भाषा

ENहिગુ
ग्रंथ पाठ

मालिनीविजयोत्तरतन्त्रम् · अध्याय 18

18.1

शृणु देवि परं गुह्यमप्राप्यमकृतात्मनाम्
यन्न कस्य चिदाख्यातं तदद्य कथयामि ते

18.2

सर्वमन्यत्परित्यज्य चित्तमत्र निवेशयेत्
मृच्छैलधातुरत्नादिभवं लिङ्गं न पूजयेत्

18.3

यजेदाध्यात्मिकं लिङ्गं यत्र लीनं चराचरम्
बहिर्लिङ्गस्य लिङ्गत्वमनेनाधिष्ठितं यतः

18.4

अतः प्रपूजयेदेतत्परमाद्वैतमाश्रितः
अनुध्यानेन देवेशि परेण परमाणुना

18.5

योऽनुध्यातः स एवैतल्लिङ्गं पश्यति नापरः
यदेतत्स्पन्दनं नाम हृदये समवस्थितम्

18.6

तत्र चित्तं समाधाय कम्प उद्भव एव च
तत्र प्रशान्तिमाप्नोति मासेनैकेन योगवित्

18.7

हृदयादुत्थितं लिङ्गं ब्रह्मरन्ध्रान्तमीश्वरि
स्वप्रभोद्द्योतिताशेषदेहान्तममलद्युति

18.8

तत्रैव पश्यते सर्वं मन्त्रजालं महामतिः
तन्मस्तकं समारुह्य मासमात्रमनन्यधीः

18.9

ततस्तत्र सुनिष्पन्ने षण्मासात्सर्वसिद्धयः
एतल्लिङ्गमविज्ञाय यो लिङ्गी लिङ्गमाश्रयेत्

18.10

वृथाळ्परिश्रमस्तस्य न लिङ्गफलमश्नुते
शैवमेतन्महालिङ्गमात्मलिङ्गे [न] सिद्ध्यति

18.11

सिद्धेऽत्र लिङ्गवल्लिङ्गी लिङ्गस्थो लिङ्गवर्जितः
भवतीति किमाश्रयमेतस्माल्लिङ्गलिङितः

18.12

अनेन लिङ्गलिङ्गेन यदा योगी बहिर्व्रजेत्
तदा लिङ्गीति विज्ञेयः पुरान्तं लिङ्गमिष्यते

18.13

एतस्माल्लिङ्गविज्ञानाद्योगिनो लिङ्गिताः स्मृताः
अनेनादिष्ठिताः मन्त्राः शान्तरौद्रादिभेदतः

18.14

भवन्तीति किमाश्चर्यं तद्भावगतचेतसः
रौद्रं भावं सम्श्रित्य यदि योगं समभ्यसेत्

18.15

दुर्निरीक्ष्यो भवेत्सर्वैः सदेवासुरमानुषैः
गमागमविनिर्मुक्तः सर्वदृष्टिरकातरः

18.16

मुहूर्तं तिष्ठते यावत्तावदेवेशमाप्नुयात्
आविष्टः पश्यते सर्वं सूर्यकोटिसमद्युति

18.17

यत्तदक्षरमव्यक्तं शैवं भैरवमित्यपि
तं दृष्ट्वा वत्सरार्धेन योगी सर्वज्ञतामियात्

18.18

य एवैनं समासाद्य यस्तृप्तिमधिगच्छति
न च कृत्रिमयोगेषु स मुक्तः सर्वबन्धनैः

18.19

प्राणायामादिकैर्लिङ्गैर्योगाः स्युः कृत्रिमा मताः
तेन तेऽकृतकस्यास्य कलां नार्हन्ति षोडशीम्

18.20

एतत्समभ्यसन् योगी दिव्यचिह्नानि पश्यति
उपविष्ट ऋजुर्योगी न किञ्चिदपि चिन्तयेत्

18.21

मुहूर्तान्निर्दहेत्सर्वं देहस्थमकृतं कृतम्
दह्यमानस्य तस्येह प्रकम्पानुभवो भवेत्

18.22

ततस्तत्र स्थिरीभूते ज्योतिरन्तः प्रकाशते
तां दृष्ट्वा परमां दीप्तिं दिव्यज्ञानं प्रवर्तते

18.23

स्वतन्त्रशिवतामेति भुञ्जानो विषयानपि
अनिमीलितदिव्याक्षो यावदास्ते मुहूर्तकम्

18.24

तस्मात्सर्वगतं भावमात्मनः प्रतिपद्यते
तमेव भावयेद्यत्नात्सर्वसिद्धिफलेप्सया

18.25

ततस्तं भावयेद्योगी कम्पमानोऽत्यनुल्बणम्
ततः प्रपश्यते तेजो ललाटाग्रे समन्ततः

18.26

दृष्ट्वा तत्परमं तेजो दिव्यज्ञानमवाप्नुयात्
षड्भिर्मासैरनायासाद्वत्सरेण प्रसिद्ध्यति

18.27

शिवतुल्यबलो भूत्वा यत्रेष्टं तत्र गच्छति
चेतः सर्वगतं कृत्वा मुहूर्तादेव योगवित्

18.28

शक्यावेशमवाप्नोति प्रकम्पानुभवात्मकम्
ततस्तत्र स्थिरीभूते मासमात्रेण योगवित्

18.29

शाक्तं प्रपश्यते तेजः सबाह्याभ्यन्तरे स्थिरम्
तत्र सम्यक्सुनिष्पन्ने सर्वेन्द्रियजमादरात्

18.30

तत्र स्फुटमवाप्नोति विज्ञानमनिवारितम्
सर्वगं चात्र विज्ञेयं यदक्षर्थेन संगतम्

18.31

एवमेवेदमाख्यातं तत्त्वं पर्यायभेदतः
कर्मेन्द्रियाणि बुद्ध्यन्तं परित्यज्य समस्तकम्

18.32

भावयेत्परमां शक्तिं सर्वत्रैव विचक्षणः
निश्चलं तु मनः कृत्वा यावत्तन्मयतां गतः

18.33

तावत्सर्वगत भावं क्षणमात्रात्प्रपद्यते
निर्दह्य पाशजालानि यथेष्टं फलमाप्नुयात्

18.34

तस्मात्समभ्यसेदेनं कृत्वा निश्चयमात्मनः
यत्राधारविनिर्मुक्तो जीवो लयमवाप्स्यति

18.35

तत्स्थानं सर्वमन्त्राणामुत्पत्तिक्षेत्रमिष्यते
द्विविधं तत्परिज्ञेयं बाह्याभ्यन्तरभेदतः

18.36

प्रयातवाधिकाळ्मात्रा सा ज्ञेया सर्वसिद्धिदा
अथवा गच्छतस्तस्य स्वप्नवृत्त्या विचक्षणः

18.37

निरोधं मध्यमे स्थाने कुर्वीत क्षणमात्रकम्
पश्यते तत्र चिच्छक्तिं तुटिमात्रामखण्डिताम्

18.38

तदेव परमं तत्त्वं तस्माज्जातमिदं जगत्
स एव मन्त्रदेहस्तु सिध्हयोगीश्वरीमते

18.39

तेनैवालिङ्गिता मन्त्राः सर्वसिद्धिफलप्रदाः
ईषद्व्यावृत्तवर्णस्तु हेयोपादेयवर्जितः

18.40

यां संवित्तिमवाप्नोति शिवतत्त्वं तदुच्यते
तत्र चित्तं स्थिरीकुर्वन् सर्वज्ञत्वमवाप्नुयात्

18.41

तत्रैव दिव्यचिह्नानि पश्यते च न संशयः
यत्रैव कुत्र चिद्गात्रे विकार उपजायते

18.42

संकल्पपूर्वको देवि तत्तत्त्वं तत्त्वमुत्तमम्
तदभ्यसेन्महायोगी सर्वज्ञत्वजिगीषया

18.43

प्राप्नोति परमं स्थानं भुक्त्वा सिद्धिं यथेप्सिताम्
गन्धपुष्पादिभिर्योगी नित्यमात्मानमादरात्

18.44

ब्रह्मरन्ध्रप्रदेशे तु पूजयेद्भावतोऽपि वा
द्रवद्द्रव्यसमायोगात्स्नपनं तस्य जायते

18.45

गन्धपुष्पादिगन्धस्य ग्रहणं यजनं मतम्
षड्रसास्वादनं तस्य नैवेद्याय प्रकल्पते

18.46

यमेवोच्चारयेद्वर्णं स जपः परिकीर्तितः
तत्र चेतः समाधाय दह्यमानस्य वस्तुनः

18.47

ज्वालनतस्तिष्ठते यावत्तावद्धोमः कृतो भवेत्
यदेव पश्यते रूपं तदेव ध्यानमिष्यते

18.48

प्रसङ्गादिदमुद्दिष्टमद्वैतयजनं महत्
उदयार्कसमाभासमूर्ध्वद्वारे मनः स्थिरम्

18.49

हृदि वाळ्तत्तथा कुर्याद्द्वादशान्तेऽथवाप्नुयात्
ततो मासार्धमात्रेण तद्रूपमुपलभ्यते

18.50

उपलब्धं तदभ्यस्य सर्वज्ञत्वाय कल्पते
वस्त्रेण मुखमाच्छाद्य योगी लक्ष्ये नियोजयेत्

18.51

नाभिकन्दादधस्तात्तु यावत्तत्त्वं शिखावधि
सूक्ष्मतारकसंकाशं रश्मिज्वालाकरालितम्

18.52

प्राणशक्त्यवसाने तु पश्यते रूपमात्मनः
तदेवाभ्यासतो देवि विकासमुपगच्छति

18.53

तन्मुखं सर्वमन्त्राणां सर्वतन्त्रेषु पठ्यते
ततोऽस्य मासमात्रेण का चित्संवित्तिरिष्यते

18.54

यतः सर्वं विजानाति हृदये संव्यवस्थितं
तां ज्ञात्वा कस्य चिद्योगी न सम्यक्प्रतिपादयेत्

18.55

अध्यायात्कथनं कुर्यान्नाकाले मृत्युमाप्नुयात्
मृतोऽपि श्वभ्रसंघाते क्रमेण परिपच्यते

18.56

एवं ज्ञात्वाळ्महादेवि स्वहितं समुपार्जयेत्
शिष्योऽप्यन्यायतो गृह्णन्नरकं प्रतिपद्यते

18.57

न च तत्कालमाप्नोति वचस्त्ववितथं मम
न्यायेन ज्ञानमासाद्य पश्चान्न प्रतिपद्यते

18.58

तदा तस्य प्रकुर्वीत विज्ञानापहृतिं बुधः
ध्यात्वा तमग्रतः स्थाप्य स्वरूपेणैव योगवित्

18.59

षड्विधं विन्यसेन्मार्गं तस्य देहे पुरोक्तवत्
ततस्तं दीपमालोक्य तदङ्गुष्ठाग्रतः क्रमात्

18.60

नयेत्तेजः समाहृत्य द्वादशान्तमनन्यधीः
ततस्तं तत्र संचिन्त्य शिवेनैकत्वमागतम्

18.61

तत्र ध्यायेत्तमोरूपं तिरोभावनशीलनम्
पतन्तीं तेन मार्गेण ह्यङ्गुष्ठाग्रान्तमागताम्

18.62

सबाह्याभ्यन्तरं ध्यायेन्निविडाञ्जनसप्रभाम्
अनेन विधिना तस्य मूढबुद्धेर्दुरात्मनः

18.63

विज्ञानमन्त्रविद्याद्या न कुर्वन्त्युपकारिताम्
चित्ताभिसन्धिमात्रेण ह्यदृष्टस्यापि जायते

18.64

कथं चिदुपलब्धस्य नित्यमेवापकारिणः
अथवा सूर्यबिम्बाभं ध्यात्वा विच्छेद्यमग्रतः

18.65

स्वर्भानुरूपया शक्त्या ग्रस्तं तमनुचिन्तयेत्
अपराधसहस्रैस्तु कोपेन मह्तान्वितह्

18.66

विधिमेनं प्रकुर्वीत क्रीडार्थं न तु जातु चित्
अनेन विधिना भ्रष्टो विज्ञानादपरेण च

18.67

न शक्यो योजितुं भूयो यावत्तेनैव नोद्धृतः
करुणाकृष्टचित्तस्तु तस्य कृत्वा विशोधनम्

18.68

प्राणायामादिभिस्तीव्रैः प्रायश्चित्तैऋ विधिश्रुतैः
ततस्तस्य प्रकुर्वीत दीक्षां पूर्वोक्तवर्त्मना

18.69

ततः सर्वमवाप्नोति फलं तस्मादनन्यधीः
एवं ज्ञात्वा प्रयत्नेन गुरुमासादयेत्सुधीः

18.70

यतः संतोष उत्पन्नः शिवज्ञानामृतात्मकः
न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभम्

18.71

स एव तद्विजानाति युक्तं वायुक्तमेव वा
अकार्येषु यदा सक्तः प्राणद्वयापहारिषु

18.72

तदा निवारणीयोऽसौ प्रणतेन विपश्चिता
तेनातिवार्यमाणोऽपि यद्यसौ न निवर्तते

18.73

तदान्यत्र क्व चिद्गत्वा शिवमेवानुचिन्तयेत्
एष योगविधिः प्रोक्तः समासाद्योगिनां हितः

18.74

नात्र शुद्धिर्न चाशुद्धिर्न भक्ष्यादिविचारणम्
न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च

18.75

न चापि तत्परित्यागो निष्परिग्रहतापि वा
सपरिग्रहता वापि जटाभस्मादिसंग्रहः

18.76

तत्त्यागो न व्रतादीनां चरणाचरणं च यत्
क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम्

18.77

परस्वरूपलिङ्गादि नामगोत्रादिकं च यत
नास्मिन् विधीयते किं चिन्न चापि प्रतिषिध्यते

18.78

विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा
किं त्वेतदत्र देवेशि नियमेन विधीयते

18.79

तत्त्वे चेतः स्थिरीकार्यं सुप्रयत्नेन योगिना
तच्च यस्य यथैव स्यात्स तथैव समाचरेत्

18.80

तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि
न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्भसा

18.81

विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि
विषं न मुह्यते तेन तद्वद्योगी महामतिः

18.82

इत्येतत्कथितं देवि किमन्यत्परिपृच्छसि

मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc