भाषा

ENहिગુ
ग्रंथ पाठ

मालिनीविजयोत्तरतन्त्रम् · अध्याय 17

17.1

अथैतत्सर्वमुद्दिष्टं यदि न स्फुटतां व्रजेत्
स्फुटीकृतेऽस्थिरे तत्र न मनस्तिष्ठते स्फुटम्

17.2

गतिभङ्गं ततस्तस्य प्राणायामेन कारयेत्
स च पञ्चविधः प्रोक्तः पूरकादिप्रभेदतः

17.3

पूरकः कुम्भकश्चैव रेचको ह्यपकर्षकः
उत्कर्षः पञ्चमो ज्ञेयस्तदभ्यासाय योगिभिः

17.4

पूरकः पूरणाद्वायोर्द्वेधा षोढा च गीयते
स्वभावपूरणादेको विरेच्यान्यः प्रपूरितः

17.5

नासामुखोर्ध्वतालूनां रन्ध्रभेदाद्विभिद्यते
भिन्नः षोढात्वमभ्येति पुनर्भेदैरनन्तताम्

17.6

कुम्भः पञ्चविधो ज्ञेयस्तत्रैकः पूरितादनु
विधृतो रेचकात्पश्चाद्द्वितीयः परिकीर्तितः

17.7

द्वयोरन्ते द्वयं चान्यत्स्वभावस्थश्च पञ्चमः
स्थानान्तरप्रभेदेन गच्छत्येषोऽप्यनन्तताम्

17.8

रेचकः पूर्ववज्ज्ञेयो द्विधाभूतः षडात्मकः
स्थानसंस्तम्भितो वायुस्तस्मादुत्कृष्य नीयते

17.9

योऽन्यप्रदेशसंप्राप्त्यै स उत्कर्षक इष्यते
तस्मादपि पुनः स्थानं यतो नीतस्तदाहृतः

17.10

अपकर्षक इत्युक्तो द्वावप्येतावनेकधा
एषामभ्यसनं कुर्यात्पद्मकाद्यासनस्थितः

17.11

अधमः सकृदुद्घातो मध्यमो द्विगुणो मतः
ज्येष्ठः स्याद्यस्त्रिरुद्घातः स च द्वादशमात्रकः

17.12

त्रिर्जानुवेष्टनान्मात्रा त्रिगुणाच्छोटिकात्रयात्
अजितां नाक्रमेन्मात्रां वायुदोषनिवृत्तये

17.13

प्रत्यङ्गधारणाद्वायुं न च चक्षुषि धारयेत्
नाभिहृत्तालुकान्तस्थे विधृते मरुति क्रमात्

17.14

चतस्रो धारणा ज्ञेयाः शिख्यम्ब्वीशामृतात्मिकाः
यद्यत्र चिन्तयेद्द्रव्यं तत्तत्सर्वगतं स्मरेत्

17.15

बिन्दुनादात्मकं रूपमीशानी धारणा श्रिता
अमृतायां स्मरेदिन्दुं कालत्यागोक्तवर्त्मना

17.16

धारणाभिरिहैताभिर्योगी योगपथे स्थितः
हेयं वस्तु परित्यज्य यायात्पदमनामयम्

17.17

त्रिवेदद्वीन्दुसङ्ख्यातसमुद्घातास्त्विमा मताः
एताभिरप्यधोऽप्युक्तं फलं प्राप्नोत्यनुत्तमम्

17.18

योगाङ्गत्वे समानेऽपि तर्को योगाङ्गमुत्तमम्
हेयाद्यालोचनात्तस्मात्तत्र यत्नः प्रशस्यते

17.19

मार्गे चेतः स्थिरीभूतं हेयेऽपि विषयेच्छया
प्रेर्य तेनानयेत्तावद्यावत्पदमनामयम्

17.20

तदर्थभावनायुक्तं मनो ध्यानमुदाहृतम्
तदेव परमं ज्ञानं भावनामयमिष्यते

17.21

मुहूर्तादेव तत्रस्थः समाधिं प्रतिपद्यते
तत्रापि च सुनिष्पन्ने फलं प्राप्नोत्यभीप्सितम्

17.22

यत्किं चिच्चिन्तयेद्वस्तु नान्यत्वं प्रतिपद्यते
तेन तन्मयतामाप्य भवेत्पश्चादभाववत्

17.23

पञ्चतामिव संप्राप्तस्तीव्रैरपि न चाल्यते
ततः शब्दादिभिर्योगी योगिनीकुलनन्दनः

17.24

इत्यनेन विधानेन प्रत्याहृत्य मनो मुहुः
प्राणायामादिकं सर्वं कुर्याद्योगप्रसिद्धये

17.25

सर्वमप्यथवा भोगं मन्यमानो विरूपकम्
स्वशरीरं परित्यज्य शाश्वतं पदमृच्छति

17.26

तदा पूर्वोदितं न्यासं कालानलसमप्रभम्
विपरीतविधानेन कुर्यात्स्कृक्छिन्दियुग्गतम्

17.27

आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापिनीम्
पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तिकम्

17.28

तमुत्कृष्य ततोऽङ्गुष्ठाद्ब्रह्मरन्ध्रान्तमानयेत्
छेदयेत्सर्वमर्माणि मन्त्रेणानेन योगवित्

17.29

जीवमादिद्विजारूढं शिरोमालादिसंयुतम्
कृत्वा तदग्रे कुर्वीत द्विजमाद्यमजीवकम्

17.30

इत्येषा कथिता काल रात्रिर्मर्मनिकृन्तनी
नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम्

17.31

शतार्धोच्चारयोगेन जायते मूर्ध्नि वेदना
एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत्

17.32

निपीड्य तं ततस्तत्र बिन्दुनादादिचिन्तकः
वेगादुत्कृष्य तत्रस्थं कालरात्र्या विसर्जयेत्

17.33

अनेन क्रमयोगेन अने योजितः परमे पदे
समय्यपि महादेवि दीक्षोक्तं फलमश्नुते

17.34

[लचुन] सिद्धयोगेश्वरीमते
तत्सकाशाद्भवेत्सिद्धिः सर्वमन्त्रोक्तलक्षणा

17.35

तदेव मन्त्ररूपेण मनुष्यैः समुपास्यते
एष ते ज्ञेयसद्भावः कथितः सुरवन्दिते

17.36

अभक्तस्य गुहस्यापि नाख्येयो जातुचित्त्वया
उदरं सर्वमापूर्य ब्रह्मरन्ध्रान्तमागतम्

17.37

वायुं भ्रमणयोगेन ततस्तं प्रेरयेत्तथा
यावत्प्राणप्रदेशान्तं योगिनां मनसेप्सितम्

17.38

प्राप्यते पुनरावृत्य तथैव नाभिमण्डलम्
एवं समभ्यसेत्तावद्यावद्वासरसप्तकम्

17.39

तदाप्रभृति संयुक्तः कर्षयेत्त्रिदशानपि
अनेनाकृष्य विज्ञानं सर्वयोगिनिषेवितम्

17.40

गृह्णीयाद्योगयुक्तात्मा किमन्यैः क्षुद्रशासनैः
प्रथमं महती घूर्णिरभ्यासात्तस्य जायते

17.41

ततः प्रकम्पो देवेशि ज्वलतीव ततोऽप्यणुः

मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc