भाषा

ENहिગુ
ग्रंथ पाठ

मालिनीविजयोत्तरतन्त्रम् · अध्याय 16

16.1

अथ गर्वमयीं दिव्यां धारणां धारणोत्तमाम्
महागर्वकरीं वक्ष्ये योगिनां योगवन्दिते

16.2

षोडशारं स्मरेच्चक्रमात्मदेहमनन्यधीः
एषोऽहमिति संचिन्त्य स्वकार्यपरिवारितम्

16.3

अप्रधृष्यो भवेद्योगी वत्सरत्रितयेन तु
ममत्वमच्युतं तस्य भवेत्सर्वत्र कुत्र चित्

16.4

तादृग्रूपस्य चक्रस्य नाभिं मूर्तिं स्वकां स्मरन्
चिन्तयेत्सर्वमेवाहं मयि सर्वमवस्थितम्

16.5

ततोऽहङ्कारविज्ञानं प्राप्नोतीति किमद्भुतम्
हृच्चक्रे समनुध्यायन्मत्स्वरूपमतन्द्रितः

16.6

अविलम्बमवाप्नोति गर्वावरणजं फलम्
बिम्बादिकं क्रमात्सर्वं चिन्तयन्नीललोहितम्

16.7

तद्भवं सर्वमाप्नोति दशावस्थाप्रचोदितम्
इति गर्वमयी प्रोक्ता प्रजापतिगुणप्रदा

16.8

उद्यदादित्यबिम्बाभं हृदि पद्ममनुस्मरन्
धर्मादिभावसंयुक्तमष्टपत्रं सकर्णिकम्

16.9

मासेन स्थिरबुद्धिः स्यात्षड्भिः श्रुतिधरो भवेत्
त्रिभिरब्दैः स्वयं कर्ता शास्त्राणां संप्रजायते

16.10

स्वां तत्र चिन्तयेन्मूर्तिं बुद्धितत्त्वं प्रपश्यति
तदीशज्ञानमाप्नोति ब्रह्माणमनुचिन्तयन्

16.11

वेदानुद्गिरते सुप्तः समाधिस्थोऽथवा मुनिः
सुस्थिरास्ते सदाभ्यासादनधीता अपि स्फुटम्

16.12

बिम्बादिकं क्रमात्सर्वं पूर्वोक्तमनुचिन्तयन्
प्राप्नोति ब्राह्ममैश्वर्यं बुद्ध्यावरणमाश्रितम्

16.13

हृदि बिम्बं रवेर्ध्यायेत्तदन्तः सोममण्डलम्
एवमभ्यसतस्तस्य षण्मासादुपजायते

16.14

दिव्यचक्षुरनायासात्सिद्धिः स्याद्वत्सरत्रयात्
स्वदेहं चिन्तयंस्तत्र गुणज्ञानमवाप्स्यति

16.15

लिङ्गाकारं स्मरन् दीप्तं तदीशत्वमवाप्नुयात्
बिम्बादि पूर्ववद्ध्यायन् दशकं दशकात्मकम्

16.16

फलमाप्नोत्यसंदेहाद्गुणावरणसंस्थितम्
चतुर्विंशत्यमी प्रोक्ताः प्रत्येकं दशपञ्चधा

16.17

धारणाः क्ष्मादितत्त्वानां समासाद्योगिनां हिताः
त्रयोदशात्मके भेदे षडन्याः संस्थिता यथा

16.18

योगिनामनुवर्ण्यन्ते तथा योगप्रसिद्धये
देहं मुक्त्वा स्वरूपेण नान्यत्किं चिदिति स्मरेत्

16.19

सितपद्मासनासीनं मण्डलत्रितयोपरि
एवमत्र स्थिरीभूते मासमात्रेण योगवित्

16.20

सर्वव्याधिविनिर्मुक्तो भवतीति किमद्भुतम्
षण्मासादस्य विज्ञानं जायते पृथिवीतले

16.21

अब्दाज्जरादिनिर्मुक्तस्त्रिभिः पुंस्तत्त्वदृग्भवेत्
हृदधः पङ्कजेऽत्रैव द्वादशार्धाङ्गुलां तनुम्

16.22

हृदन्तां भावयेत्स्वाक्यां षण्मासान्मृत्युजिद्भवेत्
त्रिभिरब्दैः समाप्नोति पुंस्तत्त्वेश्वरतुल्यताम्

16.23

बिम्बादौ पूर्ववत्सर्वं तत्र संचिन्तिते सति
फलमाप्नोत्यसंदेहात्पुरुषावरणस्थितम्

16.24

एतद्वेदान्तविज्ञानं समासादुपवर्णितम्
कपिलस्य पुरा प्रोक्तमेतद्विस्तरशो मया

16.25

शरत्संध्याभ्रसंघाभं स्वदेहमनुचिन्तयन्
वीतरागत्वमभ्येति षड्भिर्मासैर्न संशयः

16.26

जरामरणनिर्मुक्तो वर्षेणैवोपजायते
त्र्यब्दाज्ज्ञानमवाप्नोति रागावरणजं महत्

16.27

रक्तं संचिन्तयेद्देहं संपूर्णाभ्रोपरिस्थितम्
मासषट्कमनुद्विग्नो वीतरागत्वसिद्धये

16.28

स्मरन् संवत्सरे सम्यङ्मृत्युना न प्रपीड्यते
त्रिभिरब्दैर्जितद्वन्द्वो रागे च समतां व्रजेत्

16.29

रक्तपद्मस्थितं रक्तं पञ्चपर्वं हृदावधि
ध्यायन् फलमवाप्नोति पूर्वोक्तमखिलं क्रमात्

16.30

बिम्बादि चात्र पूर्वोक्तमनुचिन्तयतो मुहुः
फलं भवति निःशेषं रञ्जकावृतिसंभवम्

16.31

हृदि पद्मं सितं ध्यायेद्द्व्यष्टपत्रं सकेसरम्
सर्वामृतमयं दिव्यं चन्द्रकल्पितकर्णिकम्

16.32

निश्चलं तत्र संयम्य चेतो निद्रान्तमात्मनः
ततो यत्पश्यते स्वप्ने तथ्यं तत्तस्य जायते

16.33

एवमभ्यसतस्तस्य बुद्धिपद्मोदितं फलम्
सर्वं प्रजायते तस्य तत्कालक्रमयोगतः

16.34

चतुरङ्गुलदेहादि सर्वं तत्र विचिन्तयन्
पूर्ववत्सर्वमाप्नोति विद्यातत्त्वसमुद्भवम्

16.35

हृदयादेकमेकं तु व्यतिक्रम्यार्धमङ्गुलम्
पृथक्चक्रत्रयं ध्यायेद्रक्तनीलासितं क्रमात्

16.36

तत्रत्यद्व्येकपर्वं तु पुरुषं तत्समद्युतिम्
बिम्बादिकं च यत्प्रोक्तं तत्त्वत्रयमिदं महत्

16.37

त्रयोदशात्मकं भेदमेतदन्तं विदुर्बुधाः
एकादशप्रभेदेन तत्त्वद्वयमथोच्यते

16.38

कण्ठकूपावधौ चक्रे पञ्चारे नाभिसंस्थितम्
ध्यायेत्स्वरूपमात्मीयं दीप्तनेत्रोपलब्धवत्

16.39

क्षित्यादिकालतत्त्वान्ते यद्वस्तु स्थितमध्वनि
सर्वं प्रसाध्य योगीन्द्रो न कालेनाभिभूयते

16.40

बिम्बादिकेऽपि तत्रस्थे योगिनामनुचिन्तिते
भवतीति किलाश्चर्यमनायासेन तत्फलम्

16.41

कण्ठाकाशे स्थिरं चेतः कुर्वन् योगी दिने दिने
मायोत्थं फलमाप्नोति बिम्बादावपि तत्रगे

16.42

कण्ठकूपविधानाभं राहुग्रस्तेन्दुबिम्बवत्
चिन्तयन्न पुनर्याति मायादेर्वशवर्तिताम्

16.43

तदेव तत्र स्वर्भानुमुक्तवत्परिचिन्तयन्
तेजोदेहादिकं चापि प्राप्नोति परमेशताम्

16.44

मध्यन्दिनकराकारं लम्बकस्थं विचिन्तयेत्
समस्तमन्त्रचक्रस्य रूपं यत्सामुदायिकम्

16.45

ततः कालक्रमाद्योगी मन्त्रत्वमधिगच्छति
अनुषङ्गफलं चात्र पूर्वोक्तं सर्वमिष्यते

16.46

मूर्तिं तत्रैव संचिन्त्य मन्त्रेशत्वमवाप्नुयात्
तदधोदीपकं तेजो ध्यात्वा तत्पतितां व्रजेत्

16.47

सबाह्याभ्यन्तरं तस्मादधोर्ध्वं व्यापि च स्मरन्
तेजो मन्त्रेश्वरेशानपदान्न च्यवते नरः

16.48

बद्ध्वा पद्मासनं योगी पराबीजमनुस्मरन्
भ्रुवोर्मध्ये न्यसेच्चित्तं तद्बहिः किं चिदग्रतः

16.49

निमीलिताक्षो हृष्टात्मा शब्दालोकविवर्जिते
पश्यते पुरुषं तत्र द्वादशाङ्गुलमायतम्

16.50

तत्र चेतः स्थिरं कुर्यात्ततो मासत्रयोपरि
सर्वावयवसंपूर्णं तेजोरूपमचञ्चलम्

16.51

प्रसन्नमिन्दुसंकाशं पश्यति दिव्यचक्षुषा
तं दृष्ट्वा पुरुषं दिव्यं कालज्ञानं प्रवर्तते

16.52

अशिरस्के भवेन्मृत्युः षण्मासाभ्यन्तरेण तु
वञ्चनं तत्र कुर्वीत यत्नात्कालस्य योगवित्

16.53

ब्रह्मरन्ध्रोपरि ध्यायेच्चन्द्रबिम्बमकल्मषम्
स्रवन्तममृतं दिव्यं स्वदेहापूरकं बहु

16.54

तेनापूरितमात्मानं चेतोनालानुसर्पिणा
सबाह्याभ्यन्तरं ध्यायन् दशाहान्मृत्युजिद्भवेत्

16.55

महाव्याधिविनाशेऽपि योगमेनं समभ्यसेत्
प्रत्यङ्गव्याधिनाशाय प्रत्यङ्गगमनुस्मरन्

16.56

धूम्रवर्णं यदा पश्येन्महाव्याधिस्तदा भवेत्
कृष्णे कुष्ठमवाप्नोति नीले शीतलिकाभयम्

16.57

हीनचक्षुषि तद्रोगं नासाहीने तदात्मकम्
यद्यदङ्गं न पश्येत तत्र तद्व्याधिमादिशेत्

16.58

आत्मनो वा परेषां वा योगी योगपथे स्थितः
वर्षैस्तु पञ्चभिः सर्वं विद्यातत्त्वान्तमीश्वरि

16.59

वेत्ति भुङ्क्ते च सततं न च तस्मात्प्रहीयते
तत्रस्थे तेजसि ध्याते सर्वदेहविसर्पिणि

16.60

पूर्वोक्तं सर्वमाप्नोति तत्कालक्रमयोगतः
अथोर्ध्वव्यापिनि ध्याने तत्र तस्मादखण्डितः

16.61

सर्वमन्त्रेश्वरेशत्वान्न भूयोऽपि निवर्तते
एवं ललाटदेशेऽपि महादीप्तमनुस्मरन्

16.62

प्रपश्यत्यचिरादेव वर्णाष्टकयुतं क्रमात्
इन्द्रनीलप्रतीकाशं शिखिकण्ठसमद्युति

16.63

राजावर्तनिभं चान्यत्तथा वैडूर्यसंनिभम्
पुष्परागनिभं चान्यत्प्रवालकसमद्युति

16.64

पद्मरागप्रतीकाशमन्यच्चन्द्रसमद्युति
तां दृष्ट्वा परमां ज्योत्स्नां दिव्यज्ञानं प्रवर्तते

16.65

विहारपादचारादि ततः सर्वं प्रवर्तते
अधोर्ध्वं व्यापिनि ध्याते न तस्माच्च्यवते पदात्

16.66

इत्येतत्सर्वमाख्यातं लक्ष्यभेदव्यवस्थितम्
अधुना चित्तभेदोऽपि समासादुपदिश्यते

16.67

पिशाचानन्तपर्यन्तगुणाष्टकसमीहया
तत्तद्रूपगुणं कुर्यात्सम्यगीशे स्थिरं मनः

16.68

इतीश्वरपदान्तस्य मार्गस्यास्य पृथक्पृथक्
यथोपासा तथाख्याता योगिनां योगसिद्धये

मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc