मालिनीविजयोत्तरतन्त्रम् · अध्याय 15
अथ वागिन्द्रियादीनां मनोन्तानामनुक्रमात्
धारणाः संप्रवक्ष्यामि दशैकाञ्च समासतः
वदनान्तर्नमःशब्दमात्मनश्चिन्तयेद्बुधः
गृहीतवाक्त्वमभ्येति मौनेन मधुसूदनि
सर्वत्रास्खलिता वाणी षड्भिर्मासैः प्रवर्तते
सर्वशास्त्रार्थवेत्तृत्वं वत्सरादुपजायते
वागेवास्य प्रवर्तेत काव्यालङ्कारभूषिता
त्रिभिरब्दैः स्वयं कर्ता शास्त्राणां संप्रजायते
तत्रैव चिन्तयेद्देहं स्वकीयमनुरूपतः
भूयस्तमेव धवलमीषत्तेजोवभासितम्
रसान्तःसोमबिम्बादितेजोन्तं तमनुस्मरेत्
सर्वं फलमवाप्नोति वागावरणजं क्रमात्
पाणौ चित्तं समादाय षण्मासाद्दूरसंस्थितम्
वस्तु गृह्णात्यसंदेहात्त्र्यब्दात्पारेऽपि वारिधेः
तत्रात्मदेहपूर्वं तु पद्माभमनुचिन्तयन्
सव्यापारादिभेदेन चतुर्दशकमादरात्
पुरोक्तकालनियमात्पूर्वोक्तेनैव वर्त्मना
सर्वं फलमवाप्नोति हस्तावृतिसमाश्रितम्
पादावेवंविधौ ध्यायन् वत्सरत्रयमादरात्
मुहूर्तेन समुद्रान्तामश्रान्तो भ्रमति क्षितिम्
चतुर्दश समभ्यर्च्य स्वदेहादिकमभ्यसन्
प्राप्नोति पूर्ववत्सर्वं फलं पादावृतिस्थितम्
पायावपि मनस्तत्त्वं स्थिरीकुर्वन्नवाप्स्यति
मासेन तद्भवव्याधि विमुक्तिमविलम्बतः
पुण्यश्लोकत्वमाप्नोति त्रिभिरब्दैरनादरात्
चतुर्दशविधं चात्र पूर्ववत्फलमाप्स्यति
स्वरूपतः स्मरेल्लिङ्गं मासमात्राज्जितेन्द्रियः
षड्भिर्मासैरनायासादिच्छाकामित्वमाप्नुयात्
चतुर्दशविधे भेदे तत्राभ्यस्ते महामतिः
लिङ्गावरणजं सर्वं पूर्ववल्लभते फलम्
स्वजिह्वामिन्दुवर्णाभां चिन्तयेद्दशभिर्दिनैः
प्राप्नोत्यनुभवं योगी जिह्वाभावमिवात्मनः
आस्वादयति दूरस्थं षण्मासादेकमानसः
वत्सरैस्तु त्रिभिः साक्षाल्लेढ्यसौ परमामृतम्
येनासौ भवते योगी जरामरणवर्जितः
अपेयादिप्रसक्तोऽपि न पापैः परिभूयते
पूर्ववत्सर्वमन्यच्च स्वदेहाद्यनुचिन्तयन्
फलमाप्नोत्यसंदेहाद्रसनावृतिसंभवम्
कनकाभं स्वकं घ्राणमनुचिन्तयतः शनैह्
दिवसैर्दशभिर्घ्राणशुन्यतानुभवो भवेत्
षण्मासाद्गन्धमाघ्राति दूरस्थस्यापि वस्तुनः
घातयेद्गन्धमाघ्राय यस्य रुष्टो भविष्यति
वत्सरैस्तु त्रिभिर्दिव्यं गन्धमासाद्य योगवित्
जरामरणनैर्गुण्ययुक्तो दिव्यत्वमर्हति
सर्वमन्यद्यथोद्दिष्टं तथैव च विचिन्तयेत्
क्रमिकं फलमाप्नोति घ्राणावरणमास्थितम्
उदयादित्यसंकाशे चिन्तयंश्चक्षुषी निजे
दशाहाच्चक्षुषो रक्तस्रावानुभवमाप्स्यति
वेदना महती चास्य ललाटे संप्रजायते
न भेतव्यं महादेवि न चाभ्यासं परित्यजेत्
संत्यजन्नन्धतामेति तेन यत्नात्समभ्यसेत्
षड्भिर्मासैर्महायोगी दिव्यदृष्टिः प्रजायते
छिद्रां प्रपश्यते भूमिं कटाहान्तामतन्द्रितः
आध्रुवान्तमथोर्ध्वं च करामलकवद्बुधः
वत्सरैस्तु त्रिभिर्योगी ब्रह्माण्डान्तं प्रपश्यति
तदन्तर्योगिनीज्ञानं शरीरस्थं प्रजायते
स्वदेहादिकमन्यच्च पूर्वोक्तं पूर्ववत्स्मरन्
नयनावृतिजं सर्वमाप्नोतीति किमद्भुतम्
सर्वत्राञ्जनपत्राभां निस्तरङ्गां त्वचं स्मरन्
शस्त्रैरपि न मासेन छेत्तुं शक्यो भविष्यति
षण्मासादतितीव्रेण नाग्निनाप्येष दह्यते
वत्सरत्रितयाद्योगी वज्रोपलविषाहिभिः
पीड्यते न कदा चित्स्यादजरामरतां गतः
स्पर्शावृतिजविज्ञान गीतवच्च चतुर्दश
भेदाः सह फलैर्ज्ञेयाः पूर्वकालानुसारतः
किं त्वत्र चिन्तयेद्देहं स्वदेहादिभिरावृतम्
संदधानः स्वकं चेतः श्रोत्राकाशे विचक्षणः
दूराच्छ्रवणविज्ञानं षण्मासादुपजायते
त्रिभिः संवत्सरैर्देवि ब्रह्माण्डान्तरुदीरितम्
शृणोति स स्फुटं सर्वं जरामरणवर्जितः
तत्राकाशोक्तवत्सर्वं स्वदेहाद्यनुचिन्तयेत्
श्रोत्रावरणजं सर्वं फलमाप्नोति पूर्ववत्
मनोवतीमतो वक्ष्ये धारणां सर्वसिद्धिदाम्
यया संसिद्धया देवि सर्वसिद्धिफलं लभेत्
मन एव मनुष्याणां कारणं बन्धमोक्षयोः
तस्मात्तदभ्यसेन्मन्त्री यदीच्छेन्मोक्षमक्षयम्
तदर्धचन्द्रसंकाशमधोवक्त्रं हृदि स्थितम्
चिन्तयन्मासमात्रेण प्रतिभां प्रतिपत्स्यते
अकस्मात्पश्यते किं चिदकस्माच्छृणुते तथा
सर्वेन्द्रियात्मकं ज्ञानमकस्माच्च क्व चित्क्व चित्
स्वस्वकेन्द्रियविज्ञानं संपश्येद्वत्सरत्रयात्
भवते योगयुक्तस्य योगिनः सुपरिस्फुटम्
स्वदेहादिकमप्यत्र पूर्वोक्तवदनुस्मरन्
चित्तावरणविज्ञानं प्राप्य सोमगुणं लभेत्
इत्येकादश गीतानि समभ्यस्यानि ते तथा
इन्द्रियाणि यतः सर्वं फलमेषु प्रतिष्ठितम्
बन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः
विगृहीतानि बन्धाय विमुक्तानि विमुक्तये
एतानि व्यापके भावे यदा स्युर्मनसा सह
विमुक्तानीति विद्वद्भिर्ज्ञातव्यानि तदा प्रिये
यदा तु विषये क्वापि प्रदेशान्तरवर्तिनि
संस्थितानि तदा तानि बद्धानीति प्रचक्षते
इत्ययं द्विविधो भावः शुद्धाशुद्धप्रभेदतः
इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरीमते
मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0