भाषा

ENहिગુ
ग्रंथ पाठ

मालिनीविजयोत्तरतन्त्रम् · अध्याय 14

14.1

अथ गन्धादिपूर्वाणां तन्मात्राणामनुक्रमात्
धारणाः संप्रवक्ष्यामि तत्फलानां प्रसिद्धये

14.2

पीतकं गन्धतन्मात्रं तुर्याश्रं पर्वसंमितम्
नासारन्ध्राग्रगं ध्यायेद्वज्रलाञ्छनलाञ्छितम्

14.3

दशमाद्दिवसादूर्ध्वं योगिनोऽनन्यचेतसः
क्वापि गन्धः समायाति द्विधाभूतोऽप्यनेकधा

14.4

ततोऽस्य ऋतुमात्रेण शुद्धो गन्धः स्थिरीभवेत्
षड्भिर्मासैः स्वयं गन्ध मय एव भविष्यति

14.5

यो यत्र रोचते गन्धस्तं तत्र कुरुते भृशम्
त्र्यब्दात्सिद्धिमवाप्नोति प्रेप्सितां पाञ्चभौतिकीम्

14.6

तदूर्ध्वमात्मनो रूपं तत्र संचिन्तयेद्यदि
गन्धावरणविज्ञानं त्रिभिरब्दैरवाप्नुयात्

14.7

ईषद्दीप्तियुतं तत्र तन्मण्डलविवर्जितम्
ध्यायन् प्रपश्यते सर्वान् गन्धावरणवासिनः

14.8

धरातत्त्वोक्तबिम्बाभं तत्रैवमनुचिन्तयन्
तत्समानत्वमभ्येति पूर्ववद्द्वितये स्थिरे

14.9

स्वरूपं तत्र संचिन्त्य भासयन्तमधःस्थितम्
तदीशत्वमवाप्नोति पूर्वोक्तेनैव वर्त्मना

14.10

धरातत्त्वोक्तवत्सर्वमत ऊर्ध्वमनुस्मरन्
तद्रूपं फलमाप्नोति गन्धावरणसंस्थितम्

14.11

रसरूपामतो वक्ष्ये धारणां योगिसेविताम्
यया सर्वरसावाप्तिर्योगिनः संप्रजायते

14.12

जलबुद्बुदसंकाशं राजनाड्यग्रसंस्थितं
चिन्तयेद्रसतन्मात्रं जिह्वाग्राधारमात्मनः

14.13

सुशीतं षड्रसं स्निग्धं तद्गतेनान्तरात्मना
ततोऽस्य मासमात्रेण रसास्वादः प्रवर्तते

14.14

लवणादीन् परित्यज्य यदा मधुरतां गतः
तदा तन्निगिरन् योगी षण्मासान्मृत्युजिद्भवेत्

14.15

जराव्याधिविनिर्मुक्तः कृष्णकेशोऽच्युतद्युतिः
जीवेदाचन्द्रतारार्कमभ्यस्यंश्च क्व चित्क्व चित्

14.16

पूर्वोक्तबुद्बुदाकारं स्वरूपमनुचिन्तयन्
नीरावरणविज्ञानमाप्नोतीति किमद्भुतम्

14.17

तमेव द्युतिसंयुक्तं ध्यायन्नाधारवर्जितम्
पश्यते वत्सरैः सर्वं रसावरणमाश्रितम्

14.18

जलतत्त्वोक्तबिम्बादि तदूर्ध्वमनुचिन्तयन्
पूर्वोक्तं सर्वमाप्नोति रसावरणजं स्फुटम्

14.19

अतो रूपवतीं वक्ष्ये दिव्यदृष्टिप्रदां शुभाम्
धारणां सर्वसिद्ध्यर्थं रूपतन्मात्रमाश्रिताम्

14.20

एकान्तस्थो यदा योगी बहिर्मीलितलोचनः
शरत्संध्याभ्रसंकाशं यत्तत्किं चित्प्रपश्यति

14.21

तत्र चेतः समाधाय यावदास्ते दशाह्निकम्
तावत्स पश्यते तत्र बिन्दून् सूक्ष्मतमानपि

14.22

के चित्तत्र सिता रक्ताः पीता नीलास्तथापरे
तान् दृष्ट्वा तेषु संदध्यान्मनोऽत्यन्तमनन्यधीः

14.23

षण्मासात्पश्यते तेषु रूपाणि सुबहूनि च
त्र्यब्दात्तान्येव तेजोभिः प्रदीप्तानि स्थिराणि च

14.24

तान्यभ्यस्यंस्ततो द्व्यब्दाद्बिम्बाकाराणि पश्यति
ततोऽब्दात्पश्यते तेजः षण्मासात्पुरुषाकृति

14.25

त्रिमासाद्व्यापकं तेजो मासात्सर्वं विसर्पितम्
कालक्रमाच्च पूर्वोक्तं रूपावरणमाश्रितम्

14.26

सर्वं फलमवाप्नोति दिव्यदृष्टिश्च जायते
इतीयं कल्पनाशून्या धारणाकृतकोदिता

14.27

दशपञ्चविधो भेदः स्वयमेवात्र जायते
अतोऽस्यां निश्चयं कुर्यात्किमन्यैः शास्त्रडम्बरैः

14.28

अतः स्पर्शवतीमन्यां कथयामि तवाधुना
धारणां तु यया योगी वज्रदेहः प्रजायते

14.29

षट्कोणमण्डलान्तःस्थमात्मानं परिभावयेत्
रूक्षमञ्जनसंकाशं प्रत्यङ्गस्फुरिताकुलम्

14.30

ततोऽस्य दशभिर्देवि दिवसैस्त्वचि सर्वतः
भवेत्पिपीलिकास्पर्शस्ततस्तमनुचिन्तयन्

14.31

वज्रदेहत्वमासाद्य पूर्वोक्तं पूर्ववल्लभेत्
पूर्वोक्तमण्डलाकारं पूर्वरूपं विचिन्तयन्

14.32

स्पर्शतत्त्वावृतिज्ञानं लभन् केन निवार्यते
हीनमण्डलमात्मानं ध्यायेत्तत्पतिसिद्धये

14.33

यया संसिद्धया सर्व स्पर्शवेदी भविष्यति
कर्णौ पिधाय यत्नेन निमीलितविलोचनः

14.34

संशृणोति महाघोषं चेतस्तत्रानुसंदधेत्
दीप्यते जाठरो वह्निस्ततोऽस्य दशभिर्दिनैः

14.35

दूराच्छ्रवणविज्ञानं षण्मासादुपजायते
यस्तस्यान्ते ध्वनिर्मन्दः किं चित्किं चिद्विभाव्यते

14.36

सकलात्मा स विज्ञेयस्तदभ्यासादनन्यधीः
शब्दावरणविज्ञानमाप्नोति स्थिरतां गतम्

14.37

यः पुनः श्रूयते शब्दस्तदन्ते शङ्खनादवत्
प्रलयाकलरूपं तदभ्यस्यं तत्फलेप्सुभिः

14.38

स एवातितरामन्यशब्दप्रच्छादको यदा
विज्ञानाकल इत्युक्तस्तदासावपराजिते

14.39

मनोह्लादकरो योऽन्यस्तदन्ते संविभाव्यते
स मन्त्र इति विज्ञेयो योगिभिर्योगकाङ्क्षिभिः

14.40

ततस्तु श्रूयते योऽन्यः शान्तघण्टानिनादवत्
स मन्त्रेश इति प्रोक्तः सर्वसिद्धिफलप्रदः

14.41

घण्टानादविरामान्ते यः शब्दः संप्रजायते
मन्त्रेशेशपदं तद्धि सिद्धीनां कारणं महत्

14.42

अनिलेनाहता वीणा यादृङ्नादं विमुञ्चति
तादृशो यो ध्वनिस्तत्र तं विद्याच्छाम्भवं पदं

14.43

पृथग्वा क्रमशो वापि सर्वानेतान् समभ्यसेत्
प्राप्नोति सर्ववित्सिद्धीः शब्दावरणमाश्रिताः

14.44

इत्येताः कथिताः पञ्च तन्मात्राणां तु धारणाः

मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc