मालिनीविजयोत्तरतन्त्रम् · अध्याय 13
अथातः सम्प्रवक्ष्यामि धारणां वारुणीमिमाम्
यया संसिद्धयोगेन जलान्ताधिपतिर्भवेत्
जलान्तःस्थं स्मरेद्देहं सितं शीतं सुवर्तुलम्
सबाह्याभ्यन्तरं योगी नान्यदस्तीति चिन्तयेत्
एवमभ्यस्यतस्तस्य सप्ताहात्क्लिन्नता भवेत्
पित्तव्याधिपरित्यक्तो मासेन भवति ध्रुवम्
स्निग्धाङ्गः स्निग्धदृष्टिश्च नीलकुञ्चितमूर्धजः
भवत्यब्देन योगीन्द्रस्त्रिभिर्वर्षति मेघवत्
इत्येषा वारुणी प्रोक्ता प्रथमा शुद्धधारणा
अधुना संप्रवक्ष्यामि भेदैर्भिन्नामिमां पुनः
पूर्ववच्चिन्तयेद्देहं सव्यापारं सितं स्वकम्
जलोपरि स्थितं देवि तद्गतेनान्तरात्मना
सप्ताहान्मुच्यते रोगैः सर्वैः पित्तसमुद्भवैः
षण्मासाज्जायते स्थैर्यं यदि तन्मयतां गतः
जलावरणविज्ञानमब्दैरस्य त्रिभिर्भवेत्
निर्व्यापारप्रभेदेऽपि सर्वत्र वरुणोपमः
स याति वारुणं तत्त्वं भूमिकाः क्रमशोऽभ्यसेत्
पूर्ववत्कण्ठमध्यस्थमात्मानं द्वादशाङ्गुलम्
संस्मरञ्जलतत्त्वेशं प्रपश्यत्यचिराद्ध्रुवम्
तद्दृष्टिः स्थिरतामेति स्वरूपे पञ्चमे स्थिरे
द्विभेदेऽपि स्थिरीभूते चन्द्रबिम्बे घनावृते
तत्समानत्वमभ्येति ततः सकलरूपिणी
चिन्त्यते देहमापूर्य सितवर्णेन तेजसा
तदेव स्थिरतामेति तत्र सुस्थिरतां गते
घनमुक्तेन्दुबिम्बाभं ततः समनुचिन्तयेत्
तत्पतित्वं समभ्येति द्वितीये स्थिरतां व्रजेत्
अधःप्रकाशकं शुक्लं ततस्तेजो विचिन्तयेत्
विद्येश्वरत्वमाप्नोति जलावरणसंभवम्
स्वदेहव्यापिनि ध्याते तत्रस्थे शुक्लतेजसि
सर्वाधिपत्यमाप्नोति सुस्थिरे तत्र सुस्थिरम्
ध्येयतत्त्वसमानत्वमवस्थात्रितये स्थिरे
द्वितये च तदीशान संवित्तिरुपजायते
द्वितयेऽन्यत्र तत्तुल्यः स्थिरो भवति योगवित्
षट्के सर्वेशतामेति द्वितयेऽन्यत्र तु च्युतिः
इत्ययं सर्वतत्त्वेषु भेदे पञ्चदशात्मके
ज्ञेयो विधिर्विधानज्ञैः फलपञ्चकसिद्धिदः
तत्फलान्तरमेतस्मादुक्तं यच्चापि वक्ष्यते
अनुषङ्गफलं ज्ञेयं तत्सर्वमविचारतः
इतीयं वारुणी प्रोक्ता प्रभेदैर्दशपञ्चभिः
योगिनां योगसिद्ध्यर्थमाग्नेयीमधुना शृणु
त्रिकोणं चिन्तयेद्देहं रक्तज्वालावलीधरम्
स्वशरीरोत्थितो वह्निर्ज्वलन् वै सर्वदाहकः
सप्तभिर्दिवसैर्देवि तैक्ष्ण्यमस्योपजायते
वातश्लेष्मभवैः सर्वैर्मासान्मुच्यति साधकः
निद्राहीनश्च बह्वाशी स्वल्पविण्मूत्रकृद्भवेत्
इच्छया निर्दहेद्यद्यत्स्पृष्टं वस्तु ऋतुक्षयात्
त्र्यब्दादग्निसमो भूत्वा क्रीडत्यग्निर्यथेच्छया
सर्वं निर्दहति क्रुद्धः सशैलवनकाननम्
त्रिकोणमण्डलारूढमात्मानमनुचिन्तयेत्
सव्यापारादिभेदेन सर्वत्रापि विचक्षणः
सप्ताहाद्व्याधिभिर्हीनः षण्मासादग्निवद्भवेत्
त्रिभिरब्दैः स संपूर्णं तेजस्तत्त्वं प्रपश्यति
यच्छक्तिभेदे यद्दृष्टं तत्तद्भेदे स्थिरीभवेत्
पूर्ववत्तालुमध्यस्थमात्मानं ज्वलनप्रभम्
ध्यायन् प्रपश्यते तेजस्तत्त्वेशानखिलान् क्रमात्
धूमाक्रान्ताग्निसंकाशं रविबिम्बसमाकृतिम्
ध्यायंस्तन्मध्यतस्तेजस्तत्त्वेशसमतां व्रजेत्
प्रभाहततमोजालं विधूमाग्निसमप्रभम्
तत्रैव सकलं ध्यायेत्तत्पतित्वमवाप्नुयात्
दिवसाग्निप्रभाकारं तत्र तेजो विचिन्तयेत्
तन्मन्त्रेश्वरतामेति तत्र सुस्थिरतां गतः
मणिप्रदीपसंकाशं तेजस्तत्र प्रकाशयेत्
मन्त्रेशेशत्वमभ्येति योगी तन्मयतां गतः
सबाह्याभ्यन्तरं तेजो ध्यायन् सर्वत्र तद्गतः
तस्मान्न च्यवते स्थानादासंहारमखण्डितः
संहारे तु परं शान्तं पदमभ्येति शाङ्करम्
इत्येषा पञ्चदशधा कथिता वह्निधारणा
स्वदेहं चिन्तयेत्कृष्णं वृत्तं षड्बिन्दुलाञ्छितम्
चलं सचूचूशब्दं च वायवीं धारणां श्रितः
चलत्वं कफजव्याधिविच्छेदाद्वायुवद्भवेत्
षण्मासमभ्यसेद्योगी तद्गतेनान्तरात्मना
योजनानां शतं गत्वा मुहूर्तादेत्यखेदतः
वत्सरैस्तु त्रिभिः साक्षाद्वायुरूपधरो भवेत्
चूर्णयत्यद्रिसंघातं वृक्षानुन्मूलयत्यपि
क्रुद्धश्चालयते शक्रं सभृत्यबलवाहनम्
नीलाञ्जननिभं देहमात्मीयमनुचिन्तयेत्
पूर्वोक्तं सर्वमाप्नोति षण्मासान्नात्र संशयः
त्र्यब्दात्प्रपश्यते वायु तत्त्वं तन्मयतां गतः
भ्रुवोर्मध्ये स्मरेद्रूपमात्मनोऽञ्जनसंनिभम्
पश्यते वायुतत्त्वेशानाशुगानखिलानपि
घनावृतेन्द्रनीलाभरविबिम्बसमाकृतिम्
ध्यायंस्तत्समतामेति तत्संलीनो यदा भवेत्
भिन्नेन्द्रनीलसंकाशं सकलं तत्र चिन्तयेत्
तन्मन्त्रेशत्वमाप्नोति ततस्तस्येशतामपि
सर्वव्यापिनि तद्वर्णे ध्याते तेजस्यवाप्नुयात्
तदाप्रधृष्यतामेति तत्राधोर्ध्वविसर्पिणि
इतीयं कथिता दिव्या धारणा वायुसम्भवा
स्वदेहं वायुवद्ध्यात्वा तदभावमनुस्मरन्
दिवसैः सप्तभिर्योगी शून्यतां प्रतिपद्यते
मासमात्रेण भोगीन्द्रैरपि दष्टो न मुह्यति
सर्वव्याधिपरित्यक्तो वलीपलितवर्जितः
षण्मासाद्गगनाकारः सूक्ष्मरन्ध्रैरपि व्रजेत्
वत्सरत्रितयात्साक्षाद्व्योमवच्च भविष्यति
इच्छयैव महाकायः सूक्ष्मदेहस्तथेच्छया
अच्छेद्यश्चाप्यभेद्यश्च च्छिद्रां पश्यति मेदिनीम्
शतपुष्परसोच्छिष्टमूषागर्भखवन्निजम्
देहं चिन्तयतस्त्र्यब्दाद्व्योमज्ञानं प्रजायते
पूर्वोक्तं च फलं सर्वं सप्ताहादिकमाप्नुयात्
ललाटे चिन्तयेत्तद्वद्द्वादशाङ्गुलमायतम्
तत्तत्त्वेशान् क्रमात्सर्वान् प्रपश्यत्यग्रतः स्थितान्
राहुग्रस्तेन्दुबिम्बाभं ध्यायंस्तत्समतां व्रजेत्
सकलं चन्द्रबिम्बाभं तत्रस्थमनुचिन्तयेत्
तन्मन्त्रेशत्वमाप्नोति ज्योत्स्नया चेन्द्रतामपि
तयैवाधोविसर्पिण्या सबाह्याभ्यन्तरं बुधः
मन्त्रेश्वरेशतामाप्य विज्ञानमतुलं लभेत्
तया चोर्ध्वविसर्पिण्या ज्योत्स्नयामृतरूपया
स्वतन्त्रत्वमनुप्राप्य न क्व चित्प्रतिहन्यते
इत्येवं पञ्चतत्त्वानां धारणाः परिकीर्तिताः
शुद्धाद्यस्था तु संवित्तिर्भूतावेशोऽत्र पञ्चधा
तास्वेव संदधच्चित्तं विषादिक्षय आत्मनः
अन्यस्यामपि संवित्तौ यस्यामेव निजेच्छया
चेतः सम्यक्स्थिरीकुर्यात्तया तत्फलमश्नुते
एकापि भाव्यमानेयमवान्तरविभेदतः
अन्तरायत्वमभ्येति तत्र कुर्यान्न संस्थितिम्
संस्थितिं तत्र कुर्वन्तो न प्राप्स्यन्त्युत्तमं फलम्
धारणापञ्चके सिद्धे पिशाचाद्या गुणाष्टकाः
ऐन्द्रान्ताः पञ्च सिद्ध्यन्ति योगिनां भेदतोऽपि वा
इष्टाः पञ्चदशावस्थाः क्रमेणैव समभ्यसन्
त्र्यब्दादाद्यां प्रसाध्यान्यां द्वाभ्यामेकेन चापराम्
षण्मासात्पञ्चभिश्चान्यां चतुर्भिस्त्रिभिरेव च
द्वाभ्यामेकेन पक्षेण दशभिः पञ्चभिर्दिनैः
त्रिभिर्द्वाभ्यामथैकेन व्यस्तेच्छोः पूर्ववत्क्रमः
शाश्वतं पदमाप्नोति भुक्त्वा सिद्धिं यथेप्सिताम्
मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0