मालिनीविजयोत्तरतन्त्रम् · अध्याय 12
अथैतां देवदेवस्य श्रुत्वा वाचमतिस्फुटाम्
प्रहर्षोत्फुल्लनयना जगदानन्दकारिणी
संतोषामृतसंतृप्ता देवी देवगणार्चिता
प्रणम्यान्धकहन्तारं पुनराहेति भारतीम्
पूर्वमेव त्वया प्रोक्तं योगी योगं समभ्यसेत्
तस्याभ्यासः कथं कार्यः कथ्यतां त्रिपुरान्तक
एवमुक्तो जगद्धात्र्या भैरवो भयनाशनः
प्राह प्रसन्नगम्भीरां गिरमेतामुदारधीः
योगाभ्यासविधिं देवि कथ्यमानं मया शृणु
स्थिरीभूतेन येनेह योगी सिद्धिमवाप्स्यति
गुहायां भूगृहे वापि निःशब्दे सुमनोरमे
सर्वबाधाविनिर्मुक्ते योगी योगं समभ्यसेत्
जितासनो जितमना जितप्राणो जितेन्द्रियः
जितनिद्रो जितक्रोधो जितोद्वेगो गतव्यथः
लक्ष्यभेदेन वा सर्वमथवा चित्तभेदतः
धरादिशक्तिपर्यन्तं योगीशस्तु प्रसाधयेत्
व्योमविग्रहबिन्द्वर्णभुवनध्वनिभेदतः
लक्ष्यभेदः स्मृतः षोढा यथावदुपदिश्यते
बाह्याभ्यन्तरभेदेन समुच्चयकृतेन च
त्रिविधं कीर्तितं व्योम दशधा बिन्दुरिष्यते
कदम्बगोलकाकारः स्फुरत्तारकसप्रभः
शुक्लादिभेदभेदेन एकोऽपि दशधा मतः
चिञ्चिनीचीरवाकादिप्रभेदाद्दशधा ध्वनिः
विग्रहः स्वाणुभेदाच्च द्विधा भिन्नोऽप्यनेकधा
भुवनानां न सङ्ख्यास्ति वर्णानां सा शतार्धिका
एकस्मिन्नपि साध्ये वै लक्षेदत्रानुषङ्गतः
अन्यान्यपि फलानि स्युर्लक्ष्यभेदः स उच्यते
एकमेव फलं यत्र चित्तभेदस्त्वसौ मतः
होमदीक्षाविशुद्धात्मा समावेशोपदेशवान्
यं सिषाधयिषुर्योगमादावेव समाचरेत्
हस्तयोस्तु पराबीजं न्यस्य शक्तिमनुस्मरेत्
महामुद्राप्रयोगेन विपरीतविधौ बुधः
ज्वलद्वह्निप्रतीकाशां पादाग्रान्मस्तकान्तिकम्
नमस्कारं ततः पश्चाद्बद्ध्वा हृदि धृतानिलः
स्वरूपेण पराबीजमतिदीप्तमनुस्मरेत्
तस्य मात्रात्रयं ध्यायेत्कखत्रयविनिर्गतम्
ततस्तालशताद्योगी समावेशमवाप्नुयात्
ब्रह्मघ्नोऽपि हि सप्ताहात्प्रतिवासरमभ्यसेत्
एवमाविष्टदेहस्तु यथोक्तं विधिमाचरेत्
यः पुनर्गुरुणैवादौ कृतावेशविधिक्रमः
स वासनानुभावेन भूमिकाजयमारभेत्
गणनाथं नमस्कृत्य संस्मृत्य त्रिगुरुक्रमम्
सम्यगाविष्टदेहः स्यादिति ध्यायेदनन्यधीः
स्वदेहं हेमसङ्काशं तुर्याश्रं वज्रलाञ्छितम्
ततो गुरुत्वमायाति सप्तविंशतिभिर्दिनैः
दिवसात्सप्तमादूर्ध्वं जडता चास्य जायते
षड्भिर्मासैर्जितव्याधिर्द्रुतहेमनिभो भवेत्
वज्रदेहस्त्रिभिश्चाब्दैर्नवनागपराक्रमः
एषा ते पार्थिवी शुद्धा धारणा परिकीर्तिता
आद्या पूर्वोदिते देवि भेदे पञ्चदशात्मके
सव्यापारं स्मरेद्देहं द्रुतहेमसमप्रभम्
उपविष्टं च तुर्याश्रे मण्डले वज्रभूषिते
सप्ताहाद्गुरुतामेति मासाद्व्याधिविवर्जितः
षड्भिर्मासैर्धरान्तःस्थं सर्वं जानाति तत्त्वतः
त्रिभिरब्दैर्महीं भुङ्क्ते सप्ताम्भोनिधिमेखलाम्
द्वितीयः कथितो भेदस्तृतीयमधुना शृणु
तद्वदेव स्मरेद्देहं किं तु व्यापारवर्जितम्
पूर्वोक्तं फलमाप्नोति तद्वत्पातालसंयुतम्
चतुर्थे हृद्गतं ध्यायेद्द्वादशाङ्गुलमायतम्
पूर्ववर्णस्वरूपेण सव्यापारमतन्द्रितः
प्राप्य पूर्वोदितं सर्वं पातालाधिपतिर्भवेत्
तदेव स्थिरमाप्नोति निर्व्यापारे तु पञ्चमे
स्फुरत्सूर्यनिभं पीतं षष्ठे कृष्णघनावृतम्
निस्तरङ्गं स्मरेत्तद्वत्सप्तमेऽपि विचक्षणः
द्वयेऽप्यत्र स्थिरीभूते भूर्भुवः स्वरिति त्रयम्
वेत्ति भुङ्क्ते च लोकानां पुरोक्तैरेव वत्सरैः
सकलं हृदयान्तःस्थमात्मानं कनकप्रभम्
स्वप्रभाद्योतिताशेष देहान्तमनुचिन्तयेत्
सव्यापारादिभेदेन सप्तलोकीं तु पूर्ववत्
वेत्ति भुङ्क्ते स्थिरीभूते भेदेऽस्मिन्नवमे बुधः
रविबिम्बनिभं पीतं पूर्ववद्द्वितयं स्मरेत्
ब्रह्मलोकमवाप्नोति पूर्वोक्तेनैव वर्त्मना
अधःप्रकाशकं पीतं द्विरूपं पूर्ववन्महत्
चिन्तयेन्मत्समो भूत्वा मल्लोकमनुगच्छति
सबाह्याभ्यन्तरं पीतं तेजः सर्वप्रकाशकम्
चिन्तयेच्छतरुद्राणामधिपत्वमवाप्नुयात्
इत्येवं पृथिवीतत्त्वमभ्यस्यं दशपञ्चधा
योगिभिर्योगसिद्ध्यर्थं तत्फलानि बुभुक्षया
योग्यतावशगा जाता यस्य यत्रैव वासना
स तत्रैव नियोक्तव्यो दीक्षाकाले विचक्षणैः
यो यत्र योजितस्तत्त्वे स तस्मान्न निवर्तते
तत्फलं सर्वमासाद्य शिवयुक्तोऽपवृज्यते
अयुक्तोऽप्यध्वसंशुद्धिं संप्राप्य भुवनेशतः
शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः
मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0