भाषा

ENहिગુ
ग्रंथ पाठ

मालिनीविजयोत्तरतन्त्रम् · अध्याय 11

11.1

अथातः संप्रवक्ष्यामि दीक्षां परमदुर्लभाम्
भुक्तिमुक्तिकरीं सम्यक्सद्यःप्रत्ययकारिकाम्

11.2

नास्यां मण्डलकुणादि किं चिदप्युपयुज्यते
न च न्यासादिकं पूर्वं स्नानादि च यथेच्छया

11.3

प्रविश्य यागसदनं सूपलिप्तं सुचर्चितम्
प्राङ्मुखोदङ्मुखो वापि सुपुष्पाम्बरभूषितः

11.4

दीप्तां शक्तिमनुस्मृत्य पादाग्रान्मस्तकावधि
महामुद्राप्रयोगेन निर्दग्धां चिन्तयेत्तनुम्

11.5

अनुलोमप्रयोगाच्च मालिनीममृतप्रभाम्
चिन्तयेत्तनुनिष्पत्त्यै तद्ध्यानगतमानसः

11.6

शोध्याध्वानं ततो देहे पूर्वोक्तमनुचिन्तयेत्
ततः संशोध्य वस्तूनि शक्त्यैवामृततां नयेत्

11.7

परासंपुटमध्यस्थां मालिनीं सर्वकर्मसु
योजयेत्विधानज्ञः परां वा केवलां प्रिये

11.8

गणेशं पूजयित्वा तु पुरा विघ्नप्रशान्तये
ततः स्वगुरुमारभ्य पूजयेद्गुरुपद्धतिम्

11.9

गणेशाधस्ततः सर्वं यजेन्मन्त्रकदम्बकम्
तत्पतीनां ततोऽर्घं तत्रैव परिपूजयेत्

11.10

अन्त्याधः पूजयेद्विद्यां तद्वद्विद्यां महेश्वरीम्
मन्त्रविद्यागणस्यान्तः कुलशक्तिं निवेशयेत्

11.11

पूर्वयाम्यापरोदक्षु माहेश्यादिचतुष्टयम्
इन्द्राणीपूर्वकं तद्वदैशादिदल अन्तगम्

11.12

तत्रोपरि न्यसेद्देवं कूटरूपाणुनामुना
जीवं दण्डसमाक्रान्तं शूलस्योपरि संस्थितम्

11.13

दक्षाङ्गुलिं ततोऽधस्तात्ततो वामपयोधरम्
नाभिकण्ठौ ततोधस्ताद्वामस्कन्धविभूषणौ

11.14

शिवजिह्वान्वितः पश्चात्तदूर्ध्वोष्ठेन चोपरि
सर्वयोगिनिचक्राणामधिपोऽयमुदाहृतः

11.15

अस्याप्युच्चारणादेव संवित्तिः स्यात्परोदिता
ततो वीराष्टकं पश्चाच्छक्त्युक्तविधिना यजेत्

11.16

प्रभूतैर्विविधैरिष्ट्वा गन्धधूपैः स्रगादिभिः
श्रीकारपूर्वकं नाम पादान्तं परिकल्पयेत्

11.17

ततः शिष्यं समाहूय बहुधा सुपरीक्षितम्
रुद्रशक्त्या तु संप्रोक्ष्य देवाग्रे विनिवेशयेत्

11.18

भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत्
तथैवाप्यर्पयेत्पुष्पं करयोर्गन्धदिग्धयोः

11.19

निरालम्बौ तु तौ ध्यात्वा शक्त्याकृष्टौ विचिन्तयेत्
शक्तिमन्त्रितनेत्रेण बद्ध्वा नेत्रे तु पूर्ववत्

11.20

ततः प्रक्षेपयेत्पुष्पं सा शक्तिस्तत्करस्थिता
यत्र तत्पतते पुष्पं तत्कुलं तस्य लक्षयेत्

11.21

मुखमुद्घाट्य तं पश्चात्पादयोः प्रतिपातयेत्
ततोऽस्य मस्तके चक्रं हस्तयोश्चार्च्य योगवित्

11.22

तद्धस्तौ प्रेरयेच्छक्त्या यावन्मूर्धान्तमागतौ
शिवहस्तविधिः प्रोक्तः सद्यःप्रत्ययकारकः

11.23

चरुकं दापयेत्पश्चाट्खर्जूरादिफलोद्भवम्
शक्त्यालम्बां तनुं कृत्वा स्थापयेदग्रतः शिशोः

11.24

पुष्पक्षेपप्रयोगेन हस्तमाकृष्य दक्षिणम्
चरुकं ग्राहयेन्मन्त्री तद्ध्यानगतमानसः

11.25

शिवहस्तप्रयोगेन समारोप्य मुखं नयेत्
अनेनैव विधानेन क्षीरवृक्षसमुद्भवम्

11.26

दन्तकाष्ठं ददेत्देवि षोडशाङ्गुलमायतम्
एतेषां चालनान्मन्त्री शक्तिपातं परीक्षयेत्

11.27

मन्दतीव्रादिभेदेन मन्दतीव्रादिकान् बुधः
इत्ययं समयी प्रोक्तः संस्थितोक्तेन वर्त्मना

11.28

चिकीर्षुश्च यदाळ्दीक्षामस्यैवार्पितमानसः
तदिष्ट्वा पूर्ववद्योगी कुलेशं तमनुक्रमात्

11.29

संपूज्य पूर्ववच्छिष्यमृजुदेहे विलोकयेत्
शक्तिं संचिन्त्य पादाग्रान्मस्तकान्तं विचक्षणः

11.30

शोध्याध्वानं ततो न्यस्य सर्वाध्वव्याप्तिभाषनाम्
शक्तितत्त्वादिभेदेन पूर्वोक्तेन च वर्त्मना

11.31

उपविश्य ततस्तस्य विधानमिदमाचरेत्
मूलशोध्यात्समारभ्य शक्तिं दीप्तानलप्रभाम्

11.32

योजयेच्छोध्यसंशुद्धि भावनागतमानसः
एवं सर्वाणि शोध्यानि निर्दहन्तीमनामयाम्

11.33

शिवे संचिन्तयेल्लीनां निष्कले सकलेऽपि वा
योगिना योजिता मार्गे स्वजातीयस्य पोषणम्

11.34

कुरुते निर्दहत्यन्यद्भिन्नजातिकदम्बकम्
अनया शोध्यमानस्य शिष्यस्यास्य महामतिः

11.35

लक्षयेच्चिह्नसंघातमानन्दादिकमादरात्
आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी

11.36

एवमाविष्टया शक्त्या मन्दतीव्रादिभेदतः
पाशस्तोभपशुग्रहौ प्रकुर्वीत यथेच्छया

11.37

गृहीतस्य पुनः कुर्यान्नियोगं शेषभुक्तये
अथवा कस्य चिन्नायमावेशः संप्रजायते

11.38

तदेनं युगपच्छक्त्या सबाह्याभ्यन्तरे दहेत्
तया संदह्यमानोऽसौ च्छिन्नमूल इव द्रुमः

11.39

पतते काश्यपीपृष्ठे आक्षेपं वा करोत्यसौ
यस्य त्वेवमपि स्यान्न तं चैवोपलवत्त्यजेत्

11.40

पृथक्तत्त्वविधौ दीक्षां योग्यतावश्यवर्जिनः
तत्त्वाभ्यासविधानेन वक्ष्यमाणेन कारयेत्

11.41

इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तनम्
कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्विता

11.42

बुभुक्षोस्तु प्रकुर्वीत सम्यग्योगाभिषेचनम्
तत्रेष्ट्वा पूर्ववद्देहं विस्तीर्णैर्विबुधैर्बुधैः [?]

11.43

हेमादिदीपकानष्टौ घृतेनारुणवर्तिकान्
कुलाष्टकेन संबोध्य शिवं शङ्खे प्रपूजयेत्

11.44

सर्वरत्नौषधीगर्भे गन्धाम्बुपरिपूरिते
तेनाभिषेचयेत्तं तु शिवहस्तोक्तवर्त्मना

11.45

आचार्यस्याभिषेकोऽयमधिकारपदान्वितः
कुर्यात्पिण्डादिभिस्तद्वच्चतुःषष्टिं प्रदीपकान्

11.46

अभिषिक्तविधावेव सर्वयोगिगणेन तु
विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत्

11.47

अनयोः कथयेज्ज्ञानं त्रिविधं सर्वमप्यलम्
स्वकीयाज्ञां ददेद्योगी स्वक्रियाकरणं प्रति

मूल पाठ: mālinīvijayottaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc