मैत्रेयव्याकरण · श्लोक 27-46
ब्राह्मणस् तस्य राज्ञश् च सुब्राह्मणः पुरोहितः
बहुश्रुतश् चतुर्वेदस् तस्योपध्यायो भविष्यति ॥
अध्यापको मन्त्रधरः स्मृतिमान् वेदपारगः
कैटाभे स निर्घण्टे च पदव्याकरणे तथा ॥
तदा ब्रह्मावती नाम तस्य भार्या भविष्यति
दर्शनीया प्रासादिका अभिरूपा यशस्विनी ॥
तुषितेभ्यश् च्यवित्वा तु मैत्रेयो ह्य् अग्रपुद्गलः
तस्याः कुक्षौ स नियतं प्रतिसन्धिं ग्रहीष्यति ॥
दश मासांश् च निखिलान् धारयित्वा महाद्युतिः
सुपुष्पिते च उद्याने गत्वा मैत्रेयमातरा ॥
न निषण्णा न सुप्तासौ स्थिता सा धर्मचारिणी
द्रुमस्य शाखाम् आलम्ब्य मैत्रेयं जनयिष्यति ॥
निष्क्रमिष्यति पार्श्वेन दक्षिणेन नरोत्तमः
अभ्रकूटाद् यथा सूर्यो निर्गतश् च प्रभासते ॥
अलिप्तो गर्भपङ्केन पद्मं चैव यथाम्भसा
त्रैधातुकम् इदं सर्वं प्रभया पूरयिष्यति ॥
अथ प्रीतस् सहस्राक्षो देवराजश् शचीपतिः
ग्रहीष्यति कुमारं तं जायमानं नरोत्तमम् ॥
श्रिया ज्वलन्तं मैत्रेयं द्वात्रिंशद्वरलक्षणम्
मुञ्च मुञ्च सहस्राक्ष जातमात्रो वदिष्यति ॥
पदानि जातमात्रस् तु सप्तासौ प्रक्रमिष्यति
पदे पदे निधनं च पद्मं पद्मं भविष्यति ॥
दिशश् चतस्रश् चोद्वीक्ष्य वाचं प्रव्याहरिष्यति
इयं मे पश्चिमा जातिर् नास्ति भूयः पुनर्भवः ॥
न पुनर् आगमिष्यामि निर्वास्यामि निराश्रवः
शीतोष्णवारिधाराभिस् स्नापयिष्यन्ति पन्नगाः ॥
दिव्याम्बराणि पुष्पाणि पतिष्यन्ति नभस्तलात्
श्वेतं तस्य सुराश् छत्त्रं धारयिष्यन्ति मूर्धनि ॥
हृष्टश् चैव सहस्राक्षो देवराजो शचीपतिः
ग्रहीष्यति तं कुमारं द्वात्रिंशद्वरलक्षणम्
श्रिया ज्वलन्तं मैत्रेयं मातुर् हस्ते प्रदास्यति ॥
मनोरमां च शिविकां नानारत्नविभुषिताम्
आरूढा पुत्रसहिता वहिष्यते च देववत् ॥
ततस् तूर्यसहस्रेषु वाद्यमानेषु तत्पुरम्
प्रविष्टमात्रे मैत्रेये पुष्पवर्षं पतिष्यति ॥
तस्मिंश् च दिवसे भार्या गुर्विण्यः प्रसविष्यन्ति
सर्वास् ता जनयिष्यन्ति पुत्रान् क्षेमेण स्वस्तिना ॥
दृष्ट्वा च पुत्रं सुब्रह्मा द्वात्रिंशद्वरलक्षणम्
प्रत्यवेक्ष्य च मन्त्रेषु ततः प्रीतो भविष्यति ॥
गतिद्वयं कुमारस्य यथा मन्त्रेषु दृश्यते
नराधिपश् चक्रवर्ती बुद्धो वा द्वीपदोत्तमः ॥
मूल पाठ: Maitreyavyākaraṇa · Edition: 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK) · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0