भाषा

ENहिગુ
ग्रंथ पाठ

मैत्रेयव्याकरण · श्लोक 47-66

47

स च यौवनसंप्राप्तो मैत्रेयो ह्य् अग्रपुद्गलः
चिन्तयिष्यति धर्मात्मा दुःखिताह् खल्व् इमाः प्रजाः ॥

48

ब्रह्मस्वरो महाघोषो हेमवर्णो महाद्युतिः
विशालवक्षाः पीनाङ्गः पद्मपत्त्रनिभेक्षणः ॥

49

समुच्छ्रयेण हस्ताशीतिस् तस्य कायो भविष्यति
विस्तारं विंशहस्तानि ततो ऽर्धम् मुखमण्डलम् ॥

50

अशीतिभिश् चतुर्भिश् च सहस्रैः स पुरस्कृतः
माणवानां च मैत्रेयो मंत्रान् अध्यापयिष्यति ॥

51

ततः शङ्खो महाराजो यूपम् उच्छ्रापयिष्यति
षोडशव्यामविस्तारम् ऊर्ध्वं व्यामसहस्रकम् ॥

52

स तं यूपं नरपतिर् नानारत्नविभूषितम्
प्रदास्यति द्विजातिभ्यो यज्ञं कृत्वा पुरस्सरम्
सप्तरत्नमयं यूपं ब्राह्मणेभ्यः प्रदास्यति ॥

53

तं च रत्नमयं यूपं दत्तमात्रं मनोरमम्
ब्राह्मणानां सहस्राणि विकरिष्यन्ति तत्क्षणात् ॥

54

तस्य यूपस्य मैत्रेयो दृष्ट्वा चैनाम् अनित्यताम्
कृत्स्नं विचिन्त्य संसारं प्रव्रज्यां रोचयिष्यति ॥

55

यत्राहं प्रव्रजित्वेह स्पृशेयम् अमृतं पदम्
विमोचयेयं जनतां व्याधिमृत्युजराभयात् ॥

56

अशीतिभिश् चतुर्भिश् च सहस्रैः स पुरस्कृतः
निष्क्रमिष्यति मैत्रेयः प्रव्रज्याम् अग्रपुद्गलः ॥

57

नागवृक्षस् तदा तस्य बोधिवृक्षो भविष्यति
पञ्चाशद्योजनास् तस्य ऊर्ध्वं शाखाः समुद्गताः
षट्क्रोशविटपाण्य् अस्य विवृतानि समन्ततः ॥

58

तस्य मूले निषण्णो ऽसौ मैत्रेयो द्विपदोत्तमः
अनुत्तरां च संबोधिं प्राप्स्यति नात्र संशयः ॥

59

अष्टाङ्गोपेतया वाचा ततः स मुनिसत्तमः
देशयिष्यति सद्धर्मं सर्वदुःखापहं शिवम् ॥

60

दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम्
आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् ॥

61

प्रसन्नान् जनतां दृष्ट्वा सत्यानि कथयिष्यति
तं चास्य धर्मं संश्रुत्य प्रतिपद्यन्ति शासने ॥

62

सुपुष्पिते च उद्याने सन्निपातो भविष्यति
पूर्णं च योजनं शतं पर्षत् तस्य भविष्यति ॥

63

ततः श्रुत्वा नरपतिः शङ्खो राजा महायशाः
दत्त्वा दानम् असंख्येयं प्रव्रज्यां रोचयिष्यति ॥

64

अशीतिभिश् चतुर्भिश् च सहस्रैः स पुरस्कृतः
नराधिपो विनिष्क्रम्य प्रव्रज्याम् उपयास्यति ॥

65

तेनैव च प्रमाणेन मानवानां पुरस्कृतः
मैत्रेयस्य पिता चैव प्रव्रज्याम् उपयास्यति ॥

66

ततो गृहपतिः x x सुधनो नाम विश्रुतः
प्रव्रजिष्यति धर्मात्मा सहस्रैः परिवारितः ॥

मूल पाठ: Maitreyavyākaraṇa · Edition: 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK) · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc