मैत्रेयव्याकरण · श्लोक 91-26
तं च शक्रः सहस्राक्षो देवराजः शचीपतिः
प्रहृष्टः प्राञ्जलिर्भूत्वा मैत्रेयं स्तोष्यते जिनम् ॥
नमस् ते पुरुषाजन्य नमस् ते पुरुषोत्तम
अनुकम्पस्व जनतां भगवन्न् अग्रपुद्गल ॥
महर्द्धिको देवपुत्रस् तस्य मारो भविष्यति
स चापि प्राञ्जलिर्भूत्वा स्तोष्यते लोकनायकम् ॥
शुद्धावाससहस्रैश् च बहुभिः परिवारितः
प्रवेक्ष्यते च मैत्रेयो लोकनाथो विनायकः ॥
ब्राह्मणपरिवारेण ब्रह्मा चापि गिरास्फुटम्
कथयिष्यति सद्धर्मं ब्रह्मं घोषम् उदीरयन् ॥
आकीर्णा पृथिवी सर्वा अर्हद्भिश् च भविष्यति
क्षीणास्रवैर् वान्तदोषैः प्रहीणभवबन्धनैः ॥
हृष्टा देवमनुष्याश् च गन्धर्वा यक्षराक्षसाः
शास्तुः पूजां करिष्यन्ति नागाश् चापि महर्द्धिकाः ॥
ते वै नूनं भविष्यन्ति च्यानघाश् (?) छिन्नसंचयाः
उत्क्षिप्तपरिखाः धीरा अनादाना निरुत्सकाः
ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥
ते ऽपि नूनं भविष्यन्ति अममा अपरिग्रहाः
अजातरूपरजता अनिकेता असंस्तवाः
ब्रह्मचर्यं चरिष्यन्ति ये मैत्रेयानुशसने ॥
ते वै पानं गमिष्यन्ति छित्वा जालम् एव भुजात्
ध्यानानि चोपसंपद्य प्रीतिसौख्यसमन्विताः
ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥
षष्टिं वर्षसहस्राणि मैत्रेयो द्विपदोत्तमः
देशयिष्यति सद्धर्मं शास्ता लोकानुकम्पया ॥
शतानि च सहस्राणि प्राणिनं स विनायकः
विनीय धर्मकायेन ततो निर्वाणम् एष्यति ॥
तस्मिंश् च निर्वृते धीरे मैत्रेये द्विपदोत्तमे
दशवर्षसहस्राणि सद्धर्मः स्थास्यति क्षितौ ॥
प्रसादयति चित्तानि तस्माच् छाक्यमुनौ जिने
ततो दृक्षथ मैत्रेयं संबुद्धं द्विपदोत्तमम् ॥
तस्माद् धर्मे च बुद्धे च सङ्घे चापि गणोत्तमे
प्रसादयति चित्तानि भविष्यति महर्द्धिकम् ॥
तं तादृशं कारुणिकं मैत्रेयं द्विपदोत्तमम्
आराधयित्वा कालेन ततो निर्वाणम् एष्यथ ॥
इदम् आश्चर्यकं श्रुत्वा दृष्ट्वा च विभवानल्पिकाम्
को विद्वान् न प्रसीदेत अपि कृष्णासु जातिषु ॥
तस्माद् इहात्मकामेन माहात्म्यम् अभिकाङ्क्षताः
सद्धर्मो गुरुकर्तव्यः स्मरता बुद्धशासनम् ॥
एलापत्त्रश् च गान्धारे शङ्खो वाराणसीपुरे ॥
चतुर्भिर् एभिर् निधिभिः स राजा सुसमन्वितः
भविष्यति महावीरश् शतपुण्यबलोदितः ॥
मूल पाठ: Maitreyavyākaraṇa · Edition: 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK) · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0