महायानसूत्रालंकार · अध्याय 8
त्रिविधं माहात्म्यं दर्शयति । वशितामाहात्म्यं स्वयं परमज्ञानवशित्वप्राप्त्या क्लेशास्ववशस्य जगतः स्ववशे स्थापनात् । अभिरतिमाहात्म्यं सदा परहितक्रियैकारामत्वात् । भवनिर्भयतामाहात्म्यं च ।
॥ प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः ॥
अष्टमो ऽधिकारः
बोधिसत्त्वपरिपाके संग्रहः श्लोकः ।
रूचिः प्रसादः प्रशमो ऽनुकम्पना क्षमाथ मेधा प्रबलत्वमेव च ।
अहार्यताङ्गैः समुपेतता भृशं जिनात्मजे तत्परिपाकलक्षणम्
रूचिर्महायानदेशनाधर्मे, प्रसादस्तद्देशिके, प्रशमः क्लेशानाम्, अनुकम्पा सत्त्वेषु, क्षमा दुष्करचर्यायां, मेधा ग्रहणधारणप्रतिवेधेषु, प्रबलत्वमधिगमे, अहार्यता मारपरप्रवादिभिः, प्राहाणिकाङ्गैः समन्वागतत्वम् । भृशमिति रूच्यादीनामधिमात्रत्वं दर्शयति । एष समासेन बोधिसत्त्वानां नवप्रकार आत्मपरिपाको वेदितव्यः ।
रूचिपरिपाकमारभ्य श्लोकः ।
सुमित्रतादित्रयमुग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः ।
कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम्
सुमित्रतादित्रयं सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशोमनसिकारश्च । उग्रवीर्यता अधिमात्रो वीर्यारम्भः । परार्धनिष्ठा सर्वाचिन्त्यस्थाननिर्विचिकित्सता । उत्तमधर्मसंग्रहो महायानधर्मरक्षा, तत्प्रतिपन्नानामुपद्रवेभ्यो रक्षणात् ।
बोधिसत्त्वस्य महायानधर्मपरिग्रहमधिकृत्येदं रूचिपरिपाकलक्षणं वेदितव्यम् । येन कारणेन परिपच्यते सुमित्रतादित्रयेण । यश्च तस्याः परिपाक उग्रवीर्यपरार्धनिष्ठायुक्तः स्वभावः । यत्कर्म चोत्तमधर्मसंग्रहकरणात्तदेतेन परिदीषितम् ।
प्रसादपरिपाकमारभ्य श्लोकः ।
गुणज्ञताथाशुसमाधिलाभिता फलानुभूतिर्मनसो ऽध्यभेद[द्य?]ता ।
जीनात्मजे शास्तरि संप्रपत्तये मतं हि सम्यक्परिपाकलक्षणम्
तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश्च परिदीपितः । गुणज्ञता इत्यपि स भगवांस्तथागत इति विस्तरेण कारणम् । अवेत्यप्रभाव[साद]लाभादभेद्यचित्तता स्वभावः ।
आशुसमाधिलाभस्तत्फलस्य चाभिज्ञादिकस्य प्रत्यनुभवनं कर्म ।
प्रशमपरिपाकमारभ्य श्लोकः ।
सुसंवृतिः क्लिष्टवितर्कवर्जना निरन्तरायो ऽथ शुभाभिरामता ।
जिनात्मजे क्लेशविनोदनायतन्मतं हि सम्यक्परिपाकलक्षणम्
क्लेशविनोदना बोधिसत्त्वस्य प्रशमः । तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश्च परिदीपितः । इन्द्रियाणां स्मृतिसंप्रजन्याभ्यां सुसंवृतिः कारणम् । क्लिष्टवितर्कवर्जना स्वभावः । प्रतिपक्षभावनायां निरन्तरायत्वं कुशलाभिरामता च कर्म ।
कृपापरिपाकलक्षणमधिकृत्य श्लोकः ।
कृपा प्रकृत्या परदुःखदर्शनं निहीनचित्तस्य च संप्रवर्जनम् ।
विशेषगत्वं जगदग्रजन्मता परानुकम्पापरिपाकलक्षणम्
स्वप्रकृत्या च गोत्रेण परदुःखदर्शनेन निहीनयानपरिवर्जनतया च परिपच्यत इतिकारणम् । विशेषगामित्वं परिपाकवृद्धिगमनात् स्वभावः । सर्वलोकश्रेष्ठात्मभावता कर्म अविनिवर्तनीयभूमौ ।
क्षान्तिपरिपाकलक्षणमारभ्य श्लोकः ।
घृतिः प्रकृत्या प्रतिसंख्यभावना सुदुःखशीताद्यधिवासना सदा ।
विशेषगामित्वशुभाभिरामता मतं क्षमायाः परिपाकलक्षणम्
धृतिः सहनं क्षान्तिरिति पर्यायाः ततत्परिपाके गोत्रं प्रतिसंख्यानं भावना च कारणम् । तीव्राणां शीतादिदुःखानामधिवासनास्वभावः । क्षमस्य विशेषगामित्वं कुशलाभिरामता च कर्म ।
मेधापरिपाकमारभ्य श्लोकः ।
विपाकशुद्धिः श्रवणाद्यमोषता प्रविष्टता सूक्तदुरूक्तयोस्तथा ।
स्मृतेर्महाबुद्ध्युदये च योग्यता सुमेधतायाः परिपाकलक्षणम्
तत्र मेधानुकूला विपाकविशुद्धिः कारणम् । श्रुतचिन्तितभावितचिरकृतचिरभाषितानामसंमोषता सुभाषितदुर्भाषितार्थसुप्रविष्टता च स्मृतेर्मेधापरिपाकस्वभावः । लोकोत्तरप्रज्ञोत्पादनयोग्यता कर्म ।
बलवत्वप्रतिलम्भपरिपाकमारभ्य श्लोकः ।
शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा ।
मनोरथाप्तिर्जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम्
तत्र पुण्यज्ञानद्वयेन तस्य पुण्यज्ञानद्वयस्य बीजपुष्टता तत्परिपाके कारणम् । अधिगमं प्रत्याश्रययोग्यता तत्परिपाकस्वभावः । मनोरथसंपत्तिर्जगदग्रभूतता च कर्म ।
अहार्यतापरिपाकमारभ्य श्लोकः ।
सुधर्मतायुक्तिविचारणाशयो विशेषलाभः परपक्षदूषणम् ।
पुनः सदा मारनिरन्तरायता अहार्यतायाः परिपाकलक्षणम्
तत्परिपाकस्य सद्धर्मे युक्तिविचारणाकृत आशयः कारणम् । मारनिरन्तरायता स्वभावो यदा मारो न पुनः शन्कोत्यन्तरायं कर्तुम् । विशेषाधिगमः परपक्षदूषणं च कर्म ।
प्राहाणिकाङ्गसमन्वागमपरिपाकमधिकृत्य श्लोकः ।
शुभाचयो ऽथाश्रययत्नयोग्यता विवेकतोदग्रशुभाभिरामता ।
जिनात्मजे ह्यङ्गसमन्वये पुनर्मतं हि सम्यक्परिपाकलक्षणम्
तत्परिपाकस्य कारणं कुशलमूलोपचयः । आश्रयस्य वीर्यारम्भक्षमत्वं स्वभावः । विवेकोत्कृष्टता कुशलाभिरामता च कर्म ।
नवविधात्मपरिपाकमाहात्म्यमारभ्य श्लोकः ।
इति नवविधवस्तुपचितात्मा परपरिपाचनयोग्यतामुपेतः ।
शुभ[धर्म]मयसततप्रवर्धितात्मा भवति सदा जगतो ऽग्रबन्धुभूतः
द्विविधं तन्माहात्म्यम् । परपरिपाके प्रतिशरणत्वम् । सततं धर्मकायवृद्धिश्च । तत एव जगतो ऽग्रबन्धुभूतः ।
सत्त्वपरिपाकविभागे एकादश श्लोकाः ।
व्रणे ऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता ।
तथाश्रये ऽस्मिन्द्वयपक्षशान्तता[तां]तथोपभोगत्वसुशान्तपक्षता[मुशन्तिपव्कताम्]
अनेन परिपाकस्वभावं दर्शयति । यथा व्रणस्य स्रावणयोग्यता परिपाकः । भोजनस्य च भोगयोग्यता । एवं सत्त्वानामाश्रये व्रणभोजनस्थानीये स्रावणस्थानीयं विपक्षशमनम् । भोगस्थानीयश्च प्रतिपक्षोपभोगः । तद्योग्यता आश्रयस्य परिपाक इति । विपक्षप्रतिपक्षावत्र पक्षद्वयं वेदितव्यम् ।
द्वितीयश्लोकः ।
विपाचनोक्ता परिपाचना तथा परिपाचना चाप्यनुपाचनापरा ।
सुपाचना[चा]प्यधिपाचना मता निपाचनोत्पाचनना च देहिषु
अनेन परिपाकप्रभेदं दर्शयति । क्लेशविगमेन पाचनना [पाचना?] विपाचना । सर्वतो यानत्रयेण पाचना परिपाचना । बाह्यपरिपाकविशिष्टत्वात् प्रकृष्टा पाचना प्रपाचना । यथाविनेयधर्मदेशनात्तदनुरूपा पाचना अनुपाचना । सत्कृत्य पाचना सुपाचना । अधिगमेन पाचना अधिपाचना अविपरीतार्थेन । नित्या पाचना निपाचना अपरिहाणीयार्थेन । क्रमेणोत्तरोत्तरपाचना उत्पाचना । इत्ययमष्टप्रकारः परिपरिपाकप्रभेदः ।
तृतीयचतुर्थौ श्लोकौ ।
हिताशयेनेह यथा जिनात्मजो व्यवस्थितः सर्वजगद्विपाचयन् ।
तथा न माता न पिता न बन्धवः सुतेषु बन्धुष्वपि सुव्यवस्थिताः
तथाजनो नात्मनि वत्सलो मतः कुतो ऽपि सुस्निग्धपराश्रये जने ।
यथा कृपात्मा परसत्त्ववत्सलो हिते सुखे चैव नियोजनान्मतः
आभ्यां किं दर्शयति । यादृशेनाशयेन बोधिसत्त्वः सत्त्वान्परिपाचयति तमाशयं दर्शयति । मातापितृबान्धवाशयविशिष्टं लोकात्मवात्सल्यविशिष्टं च हितसुखसंयोजनात् । आत्मवत्सलस्तु लोक आत्मानं हिते च सुखे च संनियोजयति ।
अवशिष्टैः श्लोकैर्येन प्रयोगेण सत्त्वान्परिपाचयति तं पारमिता प्रतिपत्त्या संदर्शयति ।
यादृशेन दानेन यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः ।
न बोधिसत्त्वस्य शरीरभोगयोः परेष्वदेयं पुनरस्ति सर्वथा ।
अनुग्रहेण द्विविधेन पाचयन् परं समैर्दानगुणैर्न तृप्यते
त्रिविधेन दानेन पाचयति । सर्वस्वशरीरभोगदानेन अविषमदानेन अतृप्तिदानेन च । कथं परिपाचयति दृष्टधर्मसंपरायानुग्रहेण । अविघातेनेच्छापरिपूर्णात् [पूरणात्] । अनागतेन [तेन] च संगृह्य कुशलप्रतिष्ठापनात् ।
यादृशेन शीलेन यथा सत्वान्परिपाचयति तदारभ्य श्लोकः ।
सदाप्रकृत्याध्यविहिंसकः स्वयं रतो ऽप्रमत्तो ऽत्र परं निवेशयन् ।
परंपरानुग्रहकृदूद्विधा परे विपाकनिष्यन्दगुणेन पाचकः
पञ्चविधेन शीलेन । ध्रुवशीलेन प्रकृतिशीलेन परिपूर्णशीलेनाध्यविंहिंसकत्वात् । परिपूर्णो ह्यविहिंसको ऽध्यविहिंसको दशकुशलकर्मपथपरिपूरितः । यथोक्तं द्वितीयायां भूमौ । अधिगमशीलेन स्वयंरततया निरन्तरास्खलितशीलेन चाप्रमत्ततया । कथं च ( म्स_बग्छि 35 ) परिपाचयति । शीले संनिवेशनात् । द्विधानुग्रहक्रियया दृष्टधर्मे संपराये च । संपरायानुग्रहं परेषु विपाकनिष्यन्दगुणाभ्यां परंपरया करोति । तद्विपाकनिष्यन्दयोरन्योन्यानुकूल्येनाव्यवच्छेदात् ।
यादृश्या क्षान्त्या यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः ।
परे ऽपकारिण्युपकारिबुद्धिमान् प्रमर्षयन्नुग्रमपि व्यतिक्रमम् ।
उपायचित्तैरपकारमर्षणैः शुभे समादापयते ऽपकारिणः
अपकारिणि परे उपकारिबुद्ध्या प्रगाढापकारमर्षणक्षान्त्या परिपाचयति । उपकारिबुद्धित्वं पुनः क्षान्तिपारमितापरिपूर्यानुकूल्यवृत्तिता वेदितव्यम् । कथं परिपाचयति । दृष्टधर्मानुग्रहेण चापकारमर्षणात् । संपरायानुग्रहेण चोपायज्ञस्तैरपकारमर्षणैरावर्ज्यापकारिणां कुशले समादापनात् ।
यादृशेन वीर्येण यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः ।
पुनः स यत्नं परमं समाश्रितो न खिद्यते कल्पसहस्रकोटिभिः ।
जिनात्मजः स[त्त्व]गणं प्रपाचयन्परैकचित्तस्य शुभस्य कारणात्
अधिमात्रदीर्घकालाखेदे वीर्येण दीर्घकालाखेदित्वमनन्तसत्त्वपरिपाचनात् । परैकचित्तस्य कुशलस्यार्थे कल्पसहस्रकोटिभिरखेदात् । अत एवोक्तं भवति यथा परिपाचयति । कुशलचित्तसंनियोजनात् दृष्टधर्मसंपरायानुग्रहेणेति ।
यादृशेन ध्यानेन यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः ।
वशित्वमागम्य मनस्यनुत्तरं परं समावर्जयते ऽत्र शासने ।
निहत्य सर्वामवमानकामतां शुभेन संवर्धयते च तं पुनः
प्राप्तानुत्तरवशित्वेन ध्यानेन निरामिषेण च निहतसर्वावमानाभिलाषेण परिपाचयति । बुद्धशासने परस्यावर्जनादावर्जितस्य च कुशलधर्मसंवर्धनात् परिपाचयति ।
यादृश्या प्रज्ञया यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः ।
स तत्त्वभावार्थनये सुनिश्चितः करोति सत्त्वान्सुविनीत संशयान् ।
ततश्च ते तज्जिनशासनादराद् विवर्धयन्ते स्वपरं गुणैः शुभैः
स बोधिसत्त्वस्तत्त्वार्थनये चाभिप्रायार्थनये च सुविनिश्चितया प्रज्ञया परिपाचयति । कथं परिपाचयति सत्त्वानां संशयविनयनात् । ततश्च शासनबहुमानात्तेषामात्मपरगुणसंवर्धकत्वेन ।
निय[ग]मेन श्लोकः ।
इति सुगतिगतौ शुभत्रये वा जगदखिलं कृपया स बोधिसत्त्वः ।
तनुपरमविमध्यमप्रकारैर्विनयति लोकसमानभावगत्या
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0