भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार · अध्याय 7

7.1

बुद्धविहिते सुधर्मे सुव्यवस्थापिते स परमार्थज्ञानप्रविष्टो बोधिसत्त्वः संपिण्डितधर्मालम्बनस्य मूलचित्तस्य धर्मधातौ मतिमुपनिविधाय या स्मृतिरूपलभ्यते तां सर्वां स्मृतिप्रवृत्तिं कल्पनामात्रामवगच्छत्येवं गुणार्णवस्य पारंबुद्धत्वमाशु व्रजतीत्येतत्परमार्थज्ञानस्य माहात्म्यम् ।
॥ महायानसूत्रालंकारे तत्त्वाधिकारः षष्ठः ॥
सप्तमो ऽधिकारः
प्रभावलक्षणविभागे श्लोकः ।
उत्पत्तिवाक्चित्तशुभाशुभाधि तत्स्थाननिःसारपदा परोक्षम् ।
ज्ञानं हि सर्वत्रगसप्रभेदेष्वव्याहतं धीरगतः प्रभावः

7.2

परेषामुपपत्तौ ज्ञानं च्युतोपपादाभिज्ञा । वाचि ज्ञानं दिव्यश्रोत्राभिज्ञायां[यया] वाचं तत्र गत्वोपपन्ना भाषन्ते । चित्ते ज्ञानं चेतः पर्यायाभिज्ञा । पूर्वशुभाशुभाधाने ज्ञानं पूर्वनिवासाभिज्ञा । यत्र विनेयास्तिष्ठन्ति तत्स्थानगमनज्ञानं ऋद्धिविषयाभिज्ञा । निःसरणे ज्ञानमास्रवक्षयाभिज्ञा, यथा सत्त्वा उपपत्तितो निःसरन्तीति । एषु षट्स्वर्थेषु सर्वत्र लौकधातौ सप्रभेदेषु पदापरोक्षमव्याहतं ज्ञानं स प्रभावो बोधिसत्त्वानां षडभिज्ञासंगृहीतः । प्रभावलक्षणविभागे स्वभावार्थं उक्तः ।
हेत्वर्थमारभ्य श्लोकः ।
ध्यानं चतुर्थं सुविशुद्धमेत्य निष्कल्पनाज्ञानपरिग्रहेण ।
यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति

7.3

येन निश्रयेण येन ज्ञानेन येन मनसिकारेण तस्य प्रभावस्य समुदागमस्तत्संदर्शयति ।
फलार्थमारभ्य श्लोकः ।
येनार्यदिव्याप्रतिमैर्विहारैर्ब्राह्मैश्च नित्यं विहरत्युदारैः ।
बुद्धांश्च सत्वांश्च स दिक्षु गत्वा संमानयत्यानयते विशुद्धिम्

7.4

त्रिविधं फलमस्य प्रभावस्य संदर्शयति । आत्मन आर्यादिसुखविहारमतुल्यं चोत्कृष्टं च लोकधात्वन्तरेषु गत्वा बुद्धानां पूजनं सत्त्वानां विशोधनं च ।
कर्मार्थं षड्विधमारभ्य चत्वारः श्लोकाः ।
दर्शनकर्म संदर्शनकर्म चारभ्य श्लोकः ।
मायोपमान्पश्यति लोकधातून्सर्वान्ससत्त्वान्सविवर्तनाशान् ।
संदर्शयत्येव च तान्यथेष्टं वशी विचित्रैरपि स प्रकारैः

7.5

स्वयं च सर्वलोकधातूनां ससत्त्वानां सविवर्तसंवर्तानां मायोपमत्वदर्शनात् । परेषां यथेष्टं तत्संदर्शनात् । अन्यैश्च विचित्रैः कम्पनज्वलनादिप्रकारैः । दशवशितालाभात् । यथा दशभूमिके ऽष्टम्यां भूमौ निर्दिष्टाः ।
रश्मिकर्मारभ्य श्लोकः ।
रश्मिप्रमोक्षैर्भृशदुःखितांश्च आपायिकान्स्वर्गगतान्करोति ।
मारान्वयान् क्षुब्धविमानशोभान् संकम्पयंस्त्रासयते समारान्

7.6

द्विविधं रश्मिकर्म संदर्शयति । अपायोपपन्नानां च प्रसादं जनयित्वा स्वर्गोपपादनम् । मारभवनानां च समारकाणां कम्पनोद्वेजनम् ।
विक्रीडनकर्म चारभ्य श्लोकः ।
समाधिविक्रीडितमप्रमेयं संदर्शयत्यग्रगणस्यमध्ये ।
सकर्मजन्मोत्तमनिर्मितैश्च सत्त्वार्थमातिष्ठति सर्वकालम्

7.7

अप्रमेयसमाधिविक्रीडितसंदर्शनात् बुद्धपर्षन्मण्डलमध्ये त्रिविधेन निर्माणेन सदा सत्त्वार्थकरणाच्च । त्रिविधं निर्माणं शिल्पकर्मस्थाननिर्माणम् । विनेयवशेनयथेष्टोपपत्तिनिर्माणम् । उत्तमनिर्माणं च तुषितभवनवासादिकम् ।
क्षेत्रपरिशुद्धिकर्म आरभ्य श्लोकः ।
ज्ञानवसित्वात्समुपैति शुद्धिं क्षेत्रं यथाकामनिदर्शनाय ।
अबुद्धनामेषु[?] च बुद्धनाम संश्रावणात्तन्क्षिपते ऽन्यधातौ

7.8

द्विविधपापविशोधनया । भाजनपरिशोधनया ज्ञानवशित्वाद्यथेष्टं स्फटिकवैदूर्यादिमयबुद्धक्षेत्रसंदर्शनतः । सत्त्वपरिशोधनया च बुद्धनामविरहितेषु लोकधातुषूपपन्नानां सत्त्वानां बुद्धनामसंश्रावणया प्रसादं ग्राहयित्वा तदविरहितेषु लोकधातुषूपपादनात् ।
योगार्थमारभ्य श्लोकः ।
शक्तो भवत्येव च सत्त्वपाके संजातपक्षः शकुनिर्यथैव ।
बुद्धात्प्रशंसां लभते ऽतिमात्रामादेयवाक्यो भवति प्रजानाम्

7.9

त्रिविधं योगं प्रदर्शयति । सत्त्वपरिपाचनशक्तियोगं प्रशंसायोगमादेयवाक्यतायोगं च ।
वृत्त्यर्थमारभ्य श्लोकः ।
षड्धाप्यभिज्ञा त्रिविधा च विद्या अष्टौ विमोक्षाभिभुवस्तथाष्टौ ।
दशापि कृत्स्नायतनान्यमेयाः समाधयो धीरगतः प्रभावः

7.10

षड्भिः प्रभेदैर्बोधिसत्त्वस्य प्रभावो वर्तते । अभिज्ञाविद्याविमोक्षाभिभ्वायतनकृत्स्नायतनाप्रमाणसमाधिप्रभेदैः ।
एवं षडर्थेन विभागलक्षणेन प्रभावं दर्शयित्वा तन्माहात्म्योद्भावनार्थं श्लोकः ।
स हि परमवशित्वलब्धबुद्धिर्जगदवशं स्ववशे विधाय नित्यम् ।
परहितकरणैकताभिरामश्चरति भवेषु हि सिंहवत्सुधीरः

मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc