भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार · अध्याय 9

9.1

अनेन यत्र च विनयति, सुगतिगमने यानत्रये वा । यच्च विनयति, जगदखिलम् । येन च विनयति, कृपया । यश्च विनयति बोधिसत्त्वः । यादृशैश्च परिपाचनप्रकारै तनुपरमविमध्यमप्रकारैः । यावन्तं च कालं, तत्परिदीपनात् समासेन परिपाकमाहात्म्यं दर्शयति । तत्र तनुः प्रकारो ऽधिमुक्तिचर्याभूमौ बोधिसत्त्वस्य परमो ऽष्टाम्यादिषु विमध्यमः सप्तसु वेदितव्यः । यावल्लोकस्य भावस्तत्समानया गत्या अत्यन्तमित्यर्थः ।
॥ महायानसूत्रालंकारे परिपाकाधिकारो ऽष्टमः ॥
नवमो ऽधिकारः
सर्वाकारज्ञतायां द्वौ श्लोकौ । तृतीयस्तयोरेव निर्देशभूतः ।
अमेयैर्दुष्करशतैरमेयैः कुशलाचयैः ।
अप्रमेयेण कालेन अमेयावरणक्षयात्

9.2

सर्वकारज्ञतावाप्तिः सर्वावरणनिर्मला ।
विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम्

9.3

कृत्वा दुष्करमद्भुतं श्रमशतैः संचित्यसर्वंशुभं
कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात् ।
सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद् बुद्धता
रत्नानामिव सा प्रभावमहतां पेटा समुद्धाति[टि?]ता

9.4

समुदागमतः स्वभावत औपम्यतश्च बुद्धत्वमुद्भावितम् । यावद्भिर्दुष्करशतैर्यावद्भिः कुशलसंभारैर्यावता कालेन यावतः क्लेशज्ञेयावरणस्य प्रहाणात्समुदागच्छति, अयं समुदागमः । सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला स्वभावः । विवृतारत्नपेटा तदौपम्यम् ।
तस्यैव बुद्धत्वस्याद्वयलक्षणे सानुभावे द्वौ लोकौ ।
सर्वधर्माश्च बुद्धत्वं धर्मो नैव च कश्चन ।
शुक्लधर्ममयं तच्च न च तैस्तन्निरूप्यते

9.5

धर्मरत्ननिमित्तत्वाल्लब्धरत्नाकरोपमम् ।
शुभसस्यनिमित्तत्वाल्लब्धमेघोपमं मतम्

9.6

सर्वधर्माश्च बुद्धत्वं, तथताया अभिन्नत्वात्तद्विशुद्धिप्रभावितत्वाच्च । बुद्धत्वस्य न च कश्चिद्धर्मो ऽस्ति । परिकल्पितेन धर्मस्वभावेन शुक्लधर्ममयं च बुद्धत्वं, पारमितादिनां कुशलानां तद्भावेन परिवृत्तेः । न च तैस्तन्निर्दिश्यते पारमितादीनां पारमितादिभावेनापरिनिष्पत्तेरिदमद्वयलक्षणम् । रत्नाकरमेघोपमत्वमनुभावः, देशनाधर्मरत्नानां तत्प्रभवत्वात्, कुशलसस्यानां च विनेयसंतानक्षेत्रेषु ।
बुद्धत्वं सर्वधर्मः समुदितमथ वा सर्वधर्मव्यपेतं
प्रोद्भूतेर्धर्मरत्नप्रततसुमहतो धर्मत्नाकराभम् ।
भूतानां शुक्लसस्यप्रसवसुमहतो हेतुतो मेघभूतं
दानाद्धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु

9.7

अनेन तृतीयेन श्लोकेन तमेवार्थं निर्दिशति । सुमहतः प्रततस्य धर्मरत्नस्य प्रोद्भूतेनिमित्तत्वाद्रत्नाकराभम्, भूतानां महतः शुक्लसस्यप्रसवहेतुत्वान्मेघभूतम् । महतः सुविहितस्याक्षयस्य धर्माम्बुवर्षस्य दानात् प्रजास्वित्ययमत्र पदविग्रहो वेदितव्यः ।
तस्यैव बुद्धत्वस्य शरणत्वानुत्तर्ये पञ्च श्लोकाः ।
परित्राणं हि बुद्धत्वं सर्वक्लेशगणात्सदा ।
सर्वदुश्चरितेभ्यश्च जन्ममरणतो ऽपि च

9.8

अनेन संक्षेपतः क्लेशकर्मजन्मसंक्लेशपरित्राणार्थेन शरणत्वं दर्शयति ।
उपद्रवेभ्यः सर्वेभ्यो अपायादनुपायतः ।
सत्कायाद्धीनयानाच्च तस्माच्छरणमुत्तमम्

9.9

अनेन द्वितियेनोपद्रवादिपरित्राणाद्विस्तरेण । तत्र सर्वोपद्रवपरित्राणत्वं यद् बुद्धानुभावेन अन्धाश्चक्षूंषि प्रतिलभन्ते, बधिराः श्रोतं, विक्षिप्तचित्ताः स्वस्थचित्तमीतयः शाम्यन्तीत्येवमादि । अपायपरित्राणत्वं बुद्धप्रभया तद्गतानां मोक्षणात्, तदगमने च प्रतिष्ठापनात् । अनुपायपरित्राणत्वं तीर्थिकदृष्टिव्युत्थापनात् । सत्कायपरित्राणत्वं यानद्वयेन परिनिर्वापणात् ।
हीनयानपरित्राणत्वमनियतगोत्राणां महायानैकायनीकरणात् ।
शरणमनुपमं तच्छ्रेष्ठबुद्धत्वमिष्टं
जननमरणसर्वक्लेशपापेषु रक्षा ।
विविधभयगतानां सर्वरक्षापयानं
प्रततविविधदुःखापायनोपायगानां

9.10

अनेन तृतीयेन तस्यैव शरणत्वस्यानुपमश्रेष्ठस्य चानुत्तर्यं तेनैवार्थेन दर्शयति ।
बौद्धैर्धर्मैर्यच्च सुसंपूर्णशरीरं यत्सद्धर्मे वेत्ति च सत्त्वान्प्रविनेतुम् ।
यातं पारं यत्कृपया सर्वजगत्सु तद् बुद्धत्वं श्रेष्ठमिहत्यं[हेष्टं] शरणानाम्

9.11

अनेन चतुर्थेन यैः कारणैस्तत्तथानुत्तरं शरणं भवति तत्संदर्शयति । बौद्धैर्धर्मैर्बलवैशारद्यादिभिः सुसंपूर्णस्वभावत्वात् स्वार्थनिष्ठामधिकृत्य सद्धर्मसत्त्वविनयोपायज्ञानात् करुणापारगमनाच्च परार्थनिष्ठामधिकृत्य ।
आलोकात्[कालात्]सर्वसत्त्वानां बुद्धत्वं शरणं महत् ।
सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम्

9.12

अनेन पञ्चमेन श्लोकेन यावन्तं कालं यावतां सत्त्वानां यत्रार्थे शरणं भवति तत्समासेन दर्शयति । यत्रार्थे इति सर्वव्यसनव्यावृत्तौ संपत्त्यभ्युदये च ।
आश्रयपरावृत्तौ षट् श्लोकाः ।
क्लेशज्ञेयवृत्तीनां सततमनुगतं बीजमुत्कृष्टकालं
यस्मिन्नस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः ।
बुद्धत्वं शुक्लधर्मप्रवरगुणयुता आ[चा]श्रयस्यान्यथाप्ति-
स्तत्प्राप्तिर्निर्विकल्पाद्विषयसुमहतो ज्ञानमार्गात्सुशुद्धात्

9.13

अनेन विपक्षबीजवियोगतः प्रतिपक्षसंपत्तियोगतश्चाश्रयपरिवृत्तिः परिदीपिता । यथा च तत्प्राप्तिर्द्विविधमार्गलाभात् । सुविशुद्धलोकोत्तरज्ञानमार्गलाभात् । तत्पृष्ठलब्धानन्तज्ञेयविषयज्ञानमार्गलाभाच्च । उत्कृष्टकालमित्यनादिकालं ।
सुविपुलैः सर्वहानिप्रकारैरिति भूमिप्रकारैः ।
स्थितश्च तस्मिन्स तथागतो जगन्महाचलेन्द्रस्थ इवाभ्युदीक्षते ।
शमाभिरामं करूणायते जनमघा[भवा]भिरामे ऽन्यजने तु का कथा

9.14

अनेन द्वितीयेनान्याश्रयपरावृत्तिभ्यस्तद्विशेषं दर्शयति । तत्स्थो हि महाचलेन्द्रस्थ इव दूरान्तरनिकृष्टं लोकं पश्यति ।
दृष्ट्वा च करूणायते श्रावकप्रत्येकबुद्धानपि प्रागेव तदन्यान् ।
प्रवृत्तिरूद्वित्तिरवृत्तिराश्रयो निवृत्तिरावृत्तिरथो द्वयाद्वया ।
समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिरिष्यते

9.15

अनेन तृतीयेन तद्दशप्रभेदंदर्शयति । सा हि तथागतानां परिवृत्तिः परार्थवृत्तिरिति प्रवृत्तिः । सर्वधर्मविशिष्टत्वादुष्कृष्टा वृत्तिरित्युद्वृत्तिः । संक्लेशहेताववृत्तिः । आश्रय इति यो ऽसौ परिवृत्त्याश्रयस्तं दर्शयति । संक्लेशान्निवृत्तितो निवृत्तिः । आत्यन्तिकत्वादायता वृत्तिरित्यावृत्तिः । अभिसंबोधिपरिनिर्वाणदर्शनवृत्त्या द्वया वृत्तिः । संसारनिर्वाणाप्रतिष्ठितत्वात्संस्कृतासंस्कृतत्वेनाद्वया वृत्तिः । विमुक्तिसामान्येन श्रावकप्रत्येकबुद्धसमा वृत्तिः । बलवैशारद्यादिभिः बुद्धधर्मैरसमत्वाद्विशिष्टा वृत्तिः ।
सर्वयानोपदेशगतत्वात्सर्वगतावृत्तिः ।
यथाम्बरं सर्वगतं सदामतं तथैव तत्सर्वगतं सदामतम् ।
यथाम्बरं रूपगणेषु सर्वगं तथैव तत्सत्त्वगणेषु सर्वगम्

9.16

अनेन चतुर्थेन तत्स्वभावस्य बुद्धत्वस्य सर्वगतत्वं दर्शयति । आकाशसाधर्म्येणौद्देशनिर्देशतः पूर्वापरार्धाभ्याम् । सत्त्वगणेषु सर्वगतत्वं बुद्धत्वस्यात्मत्वेन सर्वसत्त्वोपगमने परिनिष्पत्तितो वेदितव्यम् ।
यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते ।
तथा दुष्टेषु सत्त्वेषु बुद्धबिम्बं न दृश्यते

9.17

अनेन पञ्चमेन सर्वगतत्वे ऽप्यभाजनभूतेषु सत्त्वेषु अबुद्धबिम्बदर्शनं दृष्टान्तेन साधयति ।
यथाग्निर्ज्वलते ऽन्यत्र पुनरन्यत्रशाम्यति ।
बुद्धेष्वपि तथा ज्ञेयं संदर्शनमदर्शनम्

9.18

अनेन षष्ठेन बुद्धविनेयेषु सत्सुबुद्धोत्पादात्तद्दर्शनं । विनीतेषु परिनिर्वाणात्तददर्शनं अग्निज्वलनशमनसाधर्म्येण साधयति ।
अनाभोगाप्रतिप्रस्रब्धबुद्धकार्यत्वे चत्वारः श्लोकाः ।
अघटितेभ्यस्तूर्येभ्यो यथा स्याच्छब्दसंभवः ।
तथा जिने विनाभोगं देशनायाः समुद्भवः

9.19

यथा मणेर्विना यत्नं स्वप्रभाव[स]निदर्शनम् ।
बुद्धेष्वपि विनाभोगं तथा कृत्यनिदर्शनम्

9.20

आभ्यां श्लोकाभ्यामनाभोगेन बुद्धकार्यं साधयत्यघटिततूर्यशब्दमणिप्रभाव[स]साधर्म्येण ।
यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः ।
तथैवानास्रवे धातौ अविच्छिन्ना जिनक्रियाः

9.21

यथाकाशे क्रियाणां हि हानिरभ्युदयः सदा ।
तथैवानास्रवे धातौ बुद्धकार्योदयव्ययः

9.22

आभ्यामप्यप्रतिप्रस्रब्धबुद्धकार्यत्वं बुद्धकृत्यस्याविच्छेदात् । आकाश इव लोकक्रियाणामविच्छेदे ऽपि चान्यान्यक्रियोदयव्ययस्तथैव ।
अनास्रवधातुगाम्भीर्ये षोडश श्लोकाः ।
पौर्वापर्य[आ]विशिष्टापि सर्वावरणनिर्मला ।
नशुद्धा नापि चाशुद्धा तथता बुद्धता मता

9.23

पौर्वापर्येण[आ]विशिष्टत्वान्न शुद्धा । पश्चात्सर्वावरणनिर्मलत्वान्नाशुद्धा मलविगमात् ।
शून्यतायां विशुद्धायां नैरात्म्यान्मार्गलाभतः ।
बुद्धाः शुद्धात्मलाभित्वात् गता आत्ममहात्मताम्

9.24

तत्र चानास्रवे धातौ बुद्धानां परमात्मा निर्दिश्यते । किं कारणम् । अग्रनैरात्म्यात्मकत्वात् । अग्रं नैरात्म्यं विशुद्धा तथता सा च बुद्धानामात्मा स्वभावार्थेन तस्यां विशुद्धायामग्रं नैरात्म्यमात्मानं बुद्धा लभन्ते शुद्धम् । अतः शुद्धात्मलाभित्वात् बुद्धा आत्ममाहात्म्यं प्राप्ता इत्यनेनाभिसंधिना बुद्धानामनास्रवे धातौ परमात्मा व्यवस्थाप्यते ।
न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते ।
तस्माद्बुद्धतथाप्रश्ने अव्याकृतनयो मतः

9.25

तेनैव कारणेन बुद्धत्वं न भाव उच्यते । पुद्गलधर्माभावलक्षणत्वात्तदात्मकत्वाच्च बुद्धत्वस्य । नाभाव उच्यते तथतालक्षणभावात् । अतो बुद्धस्य भावाभावप्रश्ने, भवति तथागतः परं मरणान्न भवतीत्येवमादिरव्याकृतनयोमतः ।
दाहशान्तिर्यथा लोहे दर्शने तिमिरस्य च ।
चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते

9.26

यथा च लोहे दाहशान्तिर्दर्शने च तिमिरमेत[?]स्य शान्तिर्न भावो दाहतिमिरयोरभावलक्षणात् । नाभावः शान्तिलक्षणेन भावात् । एवं बुद्धानां चित्तज्ञाने च दाहतिमिरस्थानीययो रागाविद्ययोः शान्तिर्न भावः शस्यते तदभावप्रभावितत्वाच्चेतः प्रज्ञाविमुक्त्या नाभावस्तेन तेन विमुक्तिलक्षणेन भावात् ।
बुद्धानाममले धातौ नैकता बहुता न च ।
आकाशवददेहत्वात्पूर्वदेहानुसारतः

9.27

बुद्धानामनास्रवधातौ नैकत्वं पूर्वदेहानुसारेण । न बहुत्वं देहाभावादाकाशवत् ।
बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा ।
जगत्कुशलसस्येषु महामेघोपमा मता

9.28

पुण्यज्ञानसुपूर्णत्वात्पूर्णचन्द्रोपमा मता ।
ज्ञानालोककरत्वाच्च महादित्योपमा मता

9.29

एतौ रत्नाकरमेघोपमत्वे पूर्णचन्द्रमहादित्योपमत्वे च श्लोकौ गतार्थौ ।
अमेया रश्मयो यद्वद्वयामिश्रा भानुमण्डले ।
सदैककार्या वर्तन्ते लोकमालोकयन्ति च

9.30

तथैवानास्रवे धातौ बुद्धानामप्रमेयता ।
मिश्रैककार्या कृत्येषु ज्ञानालोककरामता

9.31

एकेन व्यामिश्ररश्म्येककार्यस्योपमतया साधारणकर्मतां दर्शयति । रश्मीनामेककार्यत्वं पाचनशोषणसमानकार्यत्वाद्वेदितव्यं । द्वितीयेनानास्रवे धातौ मिश्रैककार्यत्वं निर्माणादिकृत्येषु ।
यथैकरश्मिनिःसारात्सर्वरश्मिविनिःसृतिः ।
भानोस्तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः

9.32

एककाले सर्वरश्मिविनिःसृत्या स च [सह?]बुद्धानामेककाले ज्ञानप्रवृत्तिं दर्शयति ।
यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम् ।
तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम्

9.33

यथा सूर्यैकमुक्ताभै रश्मिभिर्भास्यते जगत् ।
सकृत् ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते

9.34

ममत्वाभावे जगज्ज्ञेयप्रभासेन[सने] च यथाक्रमं श्लोकौ गतार्थौ ।
यथैवादित्यरश्मीनां मेघाद्यावरणं मतम् ।
तथैव बुद्धज्ञानानामावृतिः सत्त्वदुष्टता

9.35

यथा रश्मीनां मेघाद्यावरणमप्रभासेन । तथा बुद्धज्ञानानामावरणं सत्त्वानामा[म]भाजनत्वेन दुष्टता पञ्चकषायात्युत्सदतया ।
यथा पांशुवशाद्वस्त्रे रङ्गचित्राविचित्रता ।
तथावेधवशान्मुक्तौ ज्ञानचित्राविचित्रता

9.36

यथा पांशुविशेषेण वस्त्रे रङ्गविचित्रता क्वचिदविचित्रता । तथैव पूर्वप्रणिधानचर्याबलाधानविशेषाद् बुद्धानां विमुक्तौ ज्ञानविचित्रता भवति ।
श्रावकप्रत्येकबुद्धानां विमुक्तावविचित्रता ।
गाम्भीर्यममले धातौ लक्षणस्थानकर्मसु ।
बुद्धानामेतदुदितं रङ्गैर्वाकाशचित्रणा

9.37

एतदनास्रवधातौ बुद्धानां त्रिविधं गाम्भीर्यमेवमुत्तम् । लक्षणगाम्भीर्यं चतुर्भिः श्लोकैः । स्थानगाम्भीर्यंपञ्चमेनैकत्वपृथक्त्वाभ्यामस्थितत्वात् । कर्मगाम्भीर्यं दशभिः । तत्पुनर्लक्षणगाम्भीर्यं विशुद्धिलक्षणं परमात्मलक्षणमव्याकृतलक्षणं विमुक्तिलक्षणं चारभ्योक्तम् । कर्मगाम्भीर्यं बोधिपक्षादिरत्नाश्रयत्वकर्म सत्त्वपरिपाचनकर्म निष्ठागमनकर्म धर्मदेशनाकर्म निर्माणादिकृत्यकर्म ज्ञानप्रवृत्तिकर्म अविकल्पनकर्म चित्राकारज्ञानकर्म ज्ञानाप्रवृत्तिकर्म विमुक्तिसामान्यज्ञानविशेषकर्म चारभ्योक्तम् । सेयमनास्रवे धातौ निष्प्रपञ्चत्वादाकाशोपमे गाम्भीर्यप्रभेददेशना यथा रङ्गैराकाशचित्रणी वेदितव्या ।
सर्वेषामविशिष्टापि तथता शुद्धिमागता ।
तथागतत्वं तस्माच्च तद्गर्भाः सर्वदेहिनः

9.38

सर्वेषां निर्विशिष्टा तथता तद्धिशुद्धिस्वभावश्च तथागतः । अतः सर्वे सत्त्वास्तथागतगर्भा इत्युच्यते ।
विभुत्वविभागे श्लोका एकादश ।
श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते ।
प्रत्येकबुद्धेभ्यो मनः[बुद्धभौमेन] श्रावकस्याभिभूयते

9.39

बोधिसत्त्वविभुत्वस्य तत्कलां नानुगच्छति ।
तथागतविभुत्वस्य तत्कलां नानुगच्छति

9.40

आभ्यां तावद् द्वाभ्यां प्रभावोत्कर्षविशेषेण बुद्धानां विभुत्वं दर्शयति ।
अप्रमेयमचिन्त्यं च विभुत्वं बौद्धमिष्यते ।
यस्य यत्र यथा यावत्काले यस्मिन्प्रवर्तते

9.41

अनेन तृतीयेन प्रकारप्रभेदगाम्भीर्यविशेषाभ्यां कथमप्रमेयं कथं वा चिन्त्यमित्याह । यस्य पुद्गलस्यार्थे तत्प्रवर्त्तते यत्र लोकधातौ यथा तादृशैः प्रकारैर्यावदल्पं वा बहु वा यस्मिन्काले ।
अवशिष्टैः श्लोकैः मनो[परा]वृत्तिभेदेन विभुत्वभेदं दर्शयति ।
पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम् ।
सर्वार्थवृत्तौ सर्वेषां गुणद्वादशशतोदये

9.42

पञ्चेन्द्रियपरावृत्तौ द्विविधं विभुत्वं परमं लभ्यते । सर्वेषां पञ्चानामिन्द्रियाणां सर्वपञ्चार्थवृत्तौ । तत्र प्रत्येकं द्वादशगुणशतोत्पत्तौ ।
मनसो ऽपि परावृत्तौ विभुत्वं लभ्यते परम् ।
विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले

9.43

मनसः परावृत्तौ विभुत्वानुचरे निर्विकल्पे सुविशुद्धे ज्ञाने परमं विभुत्वं लभ्यते । येन सहितं सर्वं विभुत्वज्ञानं प्रवर्तते ।
सार्थोद्ग्रहपरावृत्तौ विभुत्वं लभ्यते परम् ।
क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि

9.44

अर्थपरावृत्तौ उद्ग्रहपरावृत्तौ च क्षेत्रविशुद्धिविभुत्वं परमं लभ्यते येन यथाकामं भोगसंदर्शनं करोति ।
विकल्पस्य परावृत्तौ विभुत्वं लभ्यते परम् ।
अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम्

9.45

विकल्पपरावृत्तौ सर्वेषां ज्ञानानां कर्मणां च सर्वकालमव्याघाते परमं विभुत्वं लभ्यते ।
प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम् ।
अप्रतिष्ठितनिर्वाणं बुद्धानामचले[मले] पदे

9.46

प्रतिष्ठापरावृत्तावप्रतिष्ठितनिर्वाणं परमं विभुत्वं लभ्यते । बुद्धानामनास्रवेधातौ ।
मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम् ।
बुद्धसौख्यबिहारे ऽथ दारासंक्लेशदर्शने

9.47

मैथुनस्य परावृत्तौ द्वयोर्बुद्धसुखविहारे च दारासंक्लेशदर्शने च ।
आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम् ।
चिन्तितार्थसमृद्धौ च गतिरूपविभावने

9.48

आकाशसंज्ञाव्यावृत्तौ द्वयोरेव चिन्तितार्थसमृद्धौ च येन गगनगर्भो भवति । गतिरूपविभावेन च यथेष्टगमनादाशवशी[काशी]करणाच्च ।
इत्यमेयपरावृत्तावमेयविभुता मता ।
अचिन्त्यकृत्यानुष्ठानाब्दुद्धानाममलाश्रये

9.49

इत्यनेन मुखेनाप्रमेया परावृत्तिः ।
तत्र चाप्रमेयं विभुत्वमचिन्त्यकर्मानुष्ठानं बुद्धानामनास्रवे धातौ वेदितव्यम् ।
तस्यैव बुद्धस्य सत्त्वपरिपाकनिमित्तत्वे सप्त श्लोकाः ।
शुभे बृद्धो लोको व्रजति सुविशुद्धौ परमतां
शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम् ।
व्रजत्येवं लोको दिशि दिशि जिनानां सुकथितै-
रपक्वः पक्वो वा [न] च पुनरशेषं ध्रुवमिह

9.50

अनेन यादृशस्य परिपाकस्य निमित्तं भवति तद्दर्शयति । उपचितकुशलमूलानां च विमुक्तौ परमतायामनुपचितकुशलमूलानां च कुशलमूलोपचये । अपक्वः शुभवृद्धौ परमतां व्रजन[न्] पाकं व्रजति पक्वः सुविशुद्धौ परमतां व्रजति । एवं च नित्यकालं व्रजति न च निःशेषं लोकस्यानन्तत्वात् ।
तथा कृत्वा चर्यां [कृच्छ्रावाप्यां] परमगुणयोगाद्भुतवतीं
महाबोधिं नित्यां ध्रुवमशरणानां च शरणम् ।
लभन्ते यद्धीरा [दिशि दिशि] गसदा [सदा] सर्वसमयं
तदाश्चर्यं लोके सुविधचरणान्नाद्भुतमपि

9.51

अनेन द्वितीयेन परिपव्कानां बोधिसत्त्वानां परिपाकस्याश्चर्यं नाश्चर्यं लक्षणम् । सदा सर्वसमयमिति नित्यं निरन्तरं च तदनुभूय[रूप]मार्गचरणं सुविधिचरणम् ।
क्वचिद्धर्माञ्चकं[धर्म्यं चक्रं] बहुमुखशतैर्दर्शयतिः यः
क्वचिज्जन्मान्तर्धि क्वचिदपि विचित्रां जनचरीम् ।
क्वचित्कृत्स्नां बोधिं क्वचिदपि च निर्वाणमसकृत्
न च स्थानात्तस्माद्विचलति स सर्वं च कुरुते

9.52

अनेन तृतीयेन युगपद्बहुमुखपरिपाचनोपायप्रयोगे निमित्तत्वं दर्शयति । यथा यत्रस्थः सत्त्वान् विनयति । विचित्रा जनचरी जातकभेदेन । न च स्थानाच्चलतीत्यनास्रवाद्धातोः ।
न बुद्धानामेवं भवति ममपक्वो ऽयमिति चाप्र-
पाच्यो ऽयं देही अपि च अधुनापाच्यत इति ।
विना संस्कारं तु प्रपचमुपयात्येव जनता
शुभैर्धर्मैर्नित्यं दिशि दिशि समन्तात्रयमुखम्

9.53

अनेन चतुर्थेन तत्परिपाकप्रयोगनिमित्तत्वमनभिसंस्कारेण दर्शयति ।
त्रयमुखमिति यानत्रयेण ।
यथायत्नं भानुः प्रततविषदैरंशविसरैः
प्रपाक[कं] सस्यानां दिशि [दिशि] समन्तात्प्रकुरूते ।
तथा धर्मार्को ऽपि प्रशमविधिधर्माशुविसरैः
प्रपाकं सस्यानां दिशि दिशि समन्तात्प्रकुरूते

9.54

अनेन पञ्चमेनानभिसंस्कारपरिपाचनदृष्टान्तं दर्शयति ।
यथैकस्माद्दीपाद्भवति सुमहान्दीपनिचयो
ऽप्रमेयो ऽसंख्येयो न च स पुनरेति व्ययमतः ।
तथैकस्माद् बुद्धाद् [पाका]द्भवति सुमहान् परिपाक[पाक]निचयो
ऽप्रमेयो ऽसंख्येयो न च स पुनरेति[पुनरुपैति] व्ययमतः

9.55

अनेन षष्ठेन परंपरया परिपाचनम् ।
यथा तोयैस्तृप्तिं व्रजति न महासागर इव
न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः ।
तथा बौद्धो धातुः सततसमितैः शुद्धिविशनै-
र्नतृप्तिं वृद्धिं वा व्रजति परमाश्चर्यमिह तत्

9.56

अनेन सप्तमेन परिपव्कानां विमुक्तिप्रवेशे समुद्रोदाहरणेन धर्मधातोरतृप्तिं चावकाशदानादवृद्धिं ध्याना[चान]धिकत्वात् ।
धर्मधातुविशुद्धौ चत्वारः श्लोकाः ।
सर्वधर्मद्वयावारतथताशुद्धिलक्षणः ।
वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः

9.57

एष स्वभावार्थमारभ्यैकः श्लोकः ।
क्लेशज्ञेयावरणद्वयात्सर्वधर्मतथताविशुद्धिलक्षणश्च ।
वस्तुतदालम्बनज्ञानयोरक्षयवशिता लक्षणश्च ।
सर्वतस्तथताज्ञानभावना समुदागमः ।
सर्वसत्त्वद्वयाधानसर्वथाक्षयता फलम्

9.58

एष हेत्वर्थं फलार्थं चारभ्य द्वितीयः श्लोकः । सर्वतस्तथताज्ञानभावना धर्मधातुविशुद्धिहेतुः । सर्वत इति सर्वधर्मपर्यायमुखैः । सर्वसत्त्वानां सर्वथा हितसुखद्वयाधानाक्षयता फलम् ।
कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः ।
समाधिधारणीद्वारद्वयामेयसमन्वितः

9.59

एष कर्मार्थं योगार्थं चारभ्य तृतीयः श्लोकः । त्रिविधं कायादिनिर्माणं कर्म समाधिधारणीमुखाभ्यां द्वयेन चाप्रमेयेण पुण्यज्ञानसंभारेण समन्वागमो योगः ।
स्वभावधर्मसंभोगनिर्माणैर्भिन्नवृत्तिकः ।
धर्मधातुर्विशुद्धो ऽयं बुद्धानां समुदाहृतः

9.60

एष वृत्त्यर्थमारभ्य चतुर्थः श्लोकः । स्वाभाविकसांभोगिकनैर्माणिककायवृत्त्या भिन्नवृत्तिकः ।
बुद्धकायविभागे सप्तश्लोकाः ।
स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिको ऽपरः ।
कायभेदा हि बुद्धानां प्रथमस्तु द्वयाश्रयः

9.61

त्रिविधः कायो बुद्धानाम् । स्वाभाविको धर्मकाय आश्रयपरावृत्तिलक्षणः । सांभोगिको येन पर्षन्मण्डलेषु धर्मसंभोगं करोति । नैर्माणिको येन निर्माणेन सत्त्वार्थं करोति ।
सर्वधातुषु सांभोग्यो भिन्नो गणपरिग्रहैः ।
क्षेत्रैश्च नामभिः कायैर्धर्मसंभोगचेष्टितैः

9.62

तत्र सांभोगिकः सर्वलोकधातुषु पर्षन्मण्डलबुद्धक्षेत्रनामशरीरधर्मसंभोगक्रियाभिर्भिन्नः ।
समः सूक्ष्मश्च तच्छिष्टः[च्छिलष्टः] कायः स्वाभाविको मतः ।
संभोगाविभुताहेतुर्यथेष्टं भोगदर्शने

9.63

स्वाभाविकः सर्वबुद्धानां समो निर्विशिष्टतया । सूक्ष्मो दुर्ज्ञानतया । तेन संभोगिकेन कायेन संबद्धः संभोगविभुत्वे च हेतुर्यथेष्टं भोगदर्शनाय ।
अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः ।
द्वयोर्द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता

9.64

नैर्माणिकस्तु कायो बुद्धानामप्रमेयप्रभेदं बुद्धनिर्माणं सांभोगिकः स्वार्थसंपत्तिलक्षणः । नैर्माणिकः परार्थसंपत्तिलक्षणः । एवं द्वयार्थसंपत्तिर्यथाक्रमं द्वयोः प्रतिष्ठिता सांभोगिके च काये नैर्माणिके च ।
शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः ।
बुद्धनिर्माणकायो ऽयं महामायो[महोपायो] विमोचने

9.65

स पुनर्निर्माणकायः सदा विनेयार्थं शिल्पस्य वीणावादनादिभिः । जन्मनश्चाभिसंबोधेश्च निर्वाणस्य च दर्शनैर्विमोचने महोपायत्वात्परार्थसंपत्तिलक्षणो वेदितव्यः ।
त्रिभिः कायैस्तु विज्ञेयो बुद्धानां कायसंग्रहः ।
साश्रयः स्वपरार्थो यस्त्रिभिः कायैर्निदर्शितः

9.66

त्रिभिश्च कायैर्बुद्धानां सर्वकायसंग्रहो वेदितव्यः । एभिस्त्रिभिः कायैः साश्रयः स्वपरार्थो निदर्शितः । द्वयोः स्वपरार्थप्रभावितत्वात् द्वयोश्च तदाश्रितत्वाद्यथा पूर्वमुक्तम् ।
आश्रयेणाशयेनापि कर्मणा ते समा मताः ।
प्रकृत्यास्रंसनेनापि प्रबन्धेनैषु नित्यता

9.67

ते च त्रयः कायाः सर्वबुद्धानां यथाक्रमं त्रिभिर्निर्विशेषाः, आश्रयेण धर्मधातोरभिन्नत्वात्, आशयेन पृथग्बुद्धाशयस्याभावात् । कर्मणा च साधारणकर्मकत्वात् । तेषु च त्रिषु कायेषु यथाक्रमं त्रिविधा नित्यता वेदितव्या येन नित्यकायास्तथागता उच्यन्ते । प्रकृत्या नित्यता स्वाभाविकस्य स्वभावेन नित्यत्वात् । अस्रंसनेन सांभोगिकस्य धर्मसंभोगाविच्छेदात् । प्रबन्धेन नैर्माणिकस्यान्तर्व्यये[र्धाय]पुनः पुनर्निर्माणदर्शनात् ।
बुद्धज्ञानविभागे दश श्लोकाः ।
आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम् ।
समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च

9.68

चतुर्विधं बुद्धानां ज्ञानमादर्शज्ञानं समताज्ञानं प्रत्यवेक्षाज्ञानं कृत्यानुष्ठानज्ञानं च । आदर्शज्ञानमचलं त्रीणी ज्ञानानि तदाश्रितानि चलानि ।
आदर्शज्ञानममापरिच्छिन्नं सदानुगम् ।
सर्वज्ञेयेष्वसंमूढं न च तेष्वामुखं सदा

9.69

आदर्शज्ञानममपरिच्छिन्नं देशतः सदानुगं कालतः । सएर्वज्ञेयेष्वसंमूढं सदावरणविगमात्, न च तेष्वामुखमनाकारत्वात् ।
सर्वज्ञाननिमित्तत्वान्महाज्ञानाकरोपमम् ।
संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच्च तत्

9.70

तेषां च समतादिज्ञानानां सर्वप्रकाराणां हेतुत्वात्सर्वज्ञानानामाकरोपम् । संभोगबुद्धत्वतज्ज्ञानप्रतिबिम्बोदयाच्च तदादर्शज्ञानामित्युच्यते ।
सत्त्वेषु समताज्ञानं भावनाशुद्धितो ऽमलं [मतम्] ।
अप्रतिष्ठस[श]माविष्टं समताज्ञानमिष्यते

9.71

यब्दोधिसत्त्वेनाभिसमयकालेषु [सत्त्वेषु] समताज्ञानं प्रतिलब्धं तद्भावनाशुद्धितो बोधिप्राप्तस्याप्रतिष्ठितनिर्वाणे निविष्टं समताज्ञानमिष्यते ।
महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम् ।
यथाधिमोक्षं सत्त्वानां बुद्धबिम्बनिदर्शकम्

9.72

महामैत्रीकरुणाभ्यां सर्वकालानुगं यथाधिमोक्षं च सत्त्वानां बुद्धबिम्बनिदर्शकम् । यतः केचित्सत्त्वास्तथागतं नीलवर्णं पश्यन्ति केचित्पीतवर्णमित्येवमादि ।
प्रत्यवेक्षणकं ज्ञाने [नं] ज्ञेयेष्वव्याहतं सदा ।
धारणीनां समाधीनां निधानोपममेव च

9.73

परिषन्मण्डले सर्वविभूतीनां निदर्शकम् ।
सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम्

9.74

प्रत्यवेक्षणकं ज्ञानं यथाश्लोकम् ।
कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु ।
चित्राप्रमेयाचिन्त्यैश्च सर्वसत्त्वार्थकारकम्

9.75

कृत्यानुष्ठानज्ञानं सर्वलोकधातुषु निर्माणैर्नानाप्रकारैरप्रमेयैरचिन्त्यैश्च सर्वसत्त्वार्थकम् ।
कृत्यनिष्पत्तिभिर्भेदैः संख्याक्षेत्रैश्च सर्वदा ।
अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच्च सर्वथा

9.76

तच्च बुद्धनिर्माणं सदा सर्वथा चाचिन्त्यं वेदितव्यं । कृत्यक्रियाभेदतः संख्यात [तः] क्षेत्रतश्च ।
धारणात्समचित्ताच्च सम्यग्धर्मप्रकाशनात् ।
कृत्यानुष्ठानतश्चैव चतुर्ज्ञानसमुद्भवः

9.77

तत्र धारणात् श्रुतानां धर्माणाम् । समचित्तता सर्वसत्त्वेष्वात्मपरसमतया । शेषं गतार्थम् ।
बुद्धानेकत्वापृथक्त्वेश्लोकः ।
गोत्रभेदादवैयर्थ्यात्साकल्यादप्यनादितः ।
अभेदान्नैकबुद्धत्वं बहुत्वं चामलाश्रये

9.78

एक एव बुद्ध इत्येतन्नेष्यते । किं कारणम् । गोत्रभेदात् । अनन्ता हि बुद्धगोत्राः सत्त्वाः । तत्रैक एवाभिसंबुद्धो नान्ये ऽभिसंमोत्स्यन्त इति कुत एतत् । पुण्यज्ञानसंभारवैयर्थ्यं च स्यादन्येषां बोधिसत्त्वानामनभिसंबोधान्न च युक्तं वैयर्थ्यम् । तस्मादवैयर्थ्यादपि नैक एव बुद्धः सत्त्वार्थक्रियासाकल्यं च न स्यात् । बुद्धस्य बुद्धत्वे कस्यचिदप्रतिष्ठापनादेतच्च न युक्तम् । न च कश्चिदादिबुद्धो ऽस्ति विना संभारेण बुद्धत्वायोगाद्विना चान्येन बुद्धेन संस्थाना [संभारा]योगादित्यनादित्वादप्येको बुद्धौ न युक्तः । बहुत्वमपि नेष्यते बुद्धानां धर्मकायस्याभेदादनास्रवे धातौ ।
बुद्धत्वोपायप्रवेशे चत्वारः श्लोकाः ।
याविद्यमानता सैव परमा विद्यमानता ।
सर्वथानुपलम्भश्च उपलम्भः परो मतः

9.79

या परिकल्पितेन स्वभावेनाविद्यमानता सैव परमा विद्यमानता परिनिष्पन्नेन स्वभावेन । यश्च सर्वथानुपलम्भः परिकल्पितस्य स्वभावस्य स एव परम उपलम्भः परिनिष्पन्न स्वभावस्य ।
भावना परमा चेष्टा भावनामविपश्यताम् ।
प्रतिलम्भः परश्चेष्टः प्रतिलम्भं न पश्यताम्

9.80

सैव परमा भावना यो भावनाया अनुपलम्भः । स एव परमः प्रतिलम्भो यः प्रतिलम्भानुपलम्भः ।
पश्यतां गुरुत्वं [तां] दीर्घं निमित्तं वीर्यमात्मनः ।
मानिनां बोधिसत्त्वानांदु [दू]रे बोधिर्निरूप्यते

9.81

ये च गुरुत्वं बुद्धत्वं पश्यन्ति अद्भुतधर्मयुक्तम् । दीर्घं च कालं पश्यन्ति तत्समुदागमाय । निमित्तं च पश्यन्ति चित्तालम्बनम् । आत्मनश्च वीर्यं वयमारब्धवीर्या बुद्धत्वं प्राप्स्याम इति ।
तेषामेवंमानिनां बोधिसत्त्वानामौपलम्भिकत्वात् दूरे बोधिर्निरूप्यते ।
पश्यताम्, कल्पनामात्रं सर्वमेतद्यथोदितं ।
अकल्पबोधिसत्त्वानां प्राप्ता बोधिर्निरूप्यते

9.82

कल्यनामात्रं त्वेतत्सर्वमिति पश्यतां तस्यापि कल्पनामात्रस्याविकल्पनादकल्पबोधिसत्त्वानामनुत्पत्तिकधर्मक्षान्तिलाभावस्थायामर्थतः प्राप्तैव बोधिरित्युच्यते ।
बुद्धानामन्योन्यनै[न्यै]ककार्यत्वे चत्वारः श्लोकाः ।
भिन्नाश्रया भिन्नजलाश्च नद्यः अल्पोदकाः कृत्यपृथक्त्वकार्याः ।
जलाश्रितप्राणितनूपभोग्या भवन्ति पातालमसंप्रविष्टाः

9.83

समुद्रविष्टाश्च भवन्ति सर्वा एकाश्रया एकमहाजलाश्च ।
मिश्रैककार्याश्च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम्

9.84

भिन्नाश्रया भिन्नमताश्च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः ।
परीत्तसत्त्वार्थसदोपभोग्या भवन्ति बुद्धत्वमसंप्रविष्टाः

9.85

बुद्धत्वविष्टाश्च भवन्ति सर्वे एकाश्रया एकमहावबोधाः ।
मिश्रैककार्याश्च महोपभोग्याः सदा महासत्त्वगणस्य ते हि

9.86

तत्र भिन्नाश्रया नद्यः स्वभाजनभेदात् । कृत्यपृथक्त्वकार्याः पृथक्त्वेन कृत्यकरणात् । तनूपभोग्या इत्यल्पानामुपभोग्याः । शेषं गतार्थम् ।
बुद्धत्वप्रोत्साहने श्लोकः ।
इतिनिरूपमशुक्लधर्मयोगाद् हितसुखहेतुतया च बुद्धभूमेः ।
शुभपरमसुखाक्षयकरत्वात् शुभमतिरर्हति बोधिचित्तमाप्तुम्

मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc