महायानसूत्रालंकार · अध्याय 6
चतुर्विधं माहात्म्यं संदर्शयति । अभिभवमाहात्म्यं सकलं भवत्रयं गतिं च पञ्चविधामभिभूयगमनात् । यथोक्तं प्रज्ञापारमितायां, रूपं चेत्सुभूत[ते] भावो ऽभविष्यन्नाभावो नेदं महायानं सदेवमानुषासुरलोकमभिभूय निर्यास्यतीति विस्तरः । निर्वृतिमाहात्म्यमप्रतिष्ठनिर्वाणानुगतत्वात् । गुणवृद्धिमाहात्म्यं सत्त्वापरित्यागमाहात्म्यं चेति ।
॥ महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः ॥
षष्ठो ऽधिकारः
परमार्थलक्षणविभागे श्लोकः ।
न सन्न चासन्न तथा न चान्यथा न जायते व्येति न चा[ना]वहीयते ।
न वर्धते नापि विशुध्यते पुनर्विशुध्यते तत्परमार्थलक्षणम्
अद्वयार्थो हि परमार्थः । तमद्वयार्थं पञ्चभिराकारैः संदर्शयति । न सत्परिकल्पितपरतन्त्रलक्षणाभ्यां, न चासत्परिनिष्पन्नलक्षणेन । न तथा परिकल्पितपरतन्त्राभ्यां परिनिष्पन्नस्यैकत्वाभावात् । न चान्यथा ताभ्यमेवान्यत्वाभावात् । न जायते न च व्येत्यनभिसंस्कृतत्वाद्धर्मधातोः । न हीयते न च वर्धते संक्लेशव्यवदानपक्षयोर्निरोधोत्पादे तद्[था]वस्थत्वात् । न विशुध्यति प्रकृत्यसंक्लिष्टत्वात् न च न विशुध्यति आगन्तुकोपक्लेशविगमात् । इत्येतत्पञ्चविभमद्वयलक्षणं परमार्थलक्षणं वेदितव्यम् ।
आत्मदृष्टिविपर्यासप्रतिषेधे श्लोकः ।
न चात्मदृष्टिः स्वयमात्मलक्षणा न चापि दुःसंस्थितता विलक्षणा ।
द्वयान्न चान्यद् भ्रम एषत[तू]दितस्ततश्च मोक्षो भ्रममात्रसंक्षयः
न तावदात्मदृष्टिरेवात्मलक्षणा । नापि दुःसंस्थितता । तथा हि सा विलक्षणा आत्मलक्षणात्परिकल्पितात् । सा पुनः पञ्चोपादानस्कन्धाः क्लेशदौष्ठुल्यप्रभावितत्वात् । नाप्यतो द्वयादन्यदात्मलक्षणमुपपद्यते । तस्मान्नास्त्यात्मा । भ्रम एष तूत्पन्नो येयमात्मदृष्टिस्तस्मादेव चात्माभावोन्मोक्षो ऽपि भ्रममात्रसंक्षयो वेदितव्यः, न तु कश्चिन्मुक्तः ।
विपर्यासपरिभाषायां द्वौ श्लौकौ ।
कथं जनो विभ्रममात्रामाश्रितः परैति दुःखप्रकृतिं न संतताम् ।
अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः
प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयते ऽन्यकारितम् ।
तमः प्रकारः कतमो ऽयमीदृशो यतो ऽविपश्यन्सदसन्निरीक्षते
कथं नामायं लोको भ्रान्तिमात्रमात्मदर्शनं निःश्रित्य सततानुबद्धं दुःखस्वभावं संस्काराणां न पश्यति । अवेदको ज्ञानेन तस्या दुःखप्रकृतेः । वेदको ऽनुभवेन ( म्स_बग्छि 25 ) दुःखस्या[स्य] दुःखितो दुःखस्याप्रहीणत्वात् । न दुःखिउतो दुःखयुक्तस्यात्मनो ऽसत्वात् । धर्ममयो धर्ममात्रत्वात् पुद्गलनैरात्म्येन । न च धर्ममयो धर्मनैरात्म्येन । यदा च लोको भावानां प्रतीत्यसमुत्पादं प्रत्यक्षं पश्यति तं तं प्रत्ययं प्रतीत्य ते ते भावा भवन्तीति । तत्कथमेतां दृष्टिं श्रयते ऽन्यकारितं दर्शनादिकं न प्रतीत्यसमुत्पन्नमिति । कतमो ऽयमीदृशस्तमः प्रकारो लोकस्य यद्विद्यमानं प्रतीत्यसमुत्पादमविपश्यन्नविद्यमानमात्मानं निरीक्षते । शक्यं हि नाम तमसा विद्यमानमद्रष्टुं स्यान्न त्वविद्यमानं द्रष्ठुमिति ।
असत्यात्मनि शमजन्मयोगे श्लोकः ।
त चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोरिह ।
तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम्
न चास्ति संसारनिर्वाणयोः किंचिन्नानाकरणं परमार्थवृत्त्या नैरात्म्यस्य समतया । तथापि जन्मक्षयान्मोक्षप्राप्तिर्भवत्येव शुभकर्मकारिणां ये मोक्षमार्गं भावयन्ति । विपर्यासपरिभाषां कृत्वा-
तत्प्रतिपक्षपारमार्थिकज्ञानप्रवेशे चत्वारः श्लोकाः ।
संभृत्य संभारमनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्त्वः ।
धर्मेषु चिन्तासुविनिश्रि[श्चि]तत्वाज्जल्पान्वयामर्थगतिं परैति
अर्थान्स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे ।
प्रत्यक्षतामेति च धर्मधातुस्तस्माद्वियुक्तोद्वयलक्षणेन
नास्तीति चित्तात्परमेत्य बुद्ध्या चित्तस्य नास्तित्वमुपैति तस्मात् ।
द्वयस्य नास्तित्वमुपेत्य धीमान् संतिष्ठते ऽतद्गतिधर्मधातौ
अकल्पनाज्ञानबलेन धीमतः समानुयातेन समन्ततः सदा ।
तदाश्रयो गह्वरदोषसंचयो महागदेनेव विषं निरस्यते
एकेन संभृतसंभारत्वं धर्मचिन्तासुविनिश्रि[श्चि]तत्वं समाधि[धिं]निश्रित्यभावनान्मनोजल्पाच्च तेषां धर्माणामर्थप्रख्यानावगमात्तत्प्रवेशं दर्शयति । असंख्येयप्रभेदकालं पारमस्य ( म्स_बग्छि 26 ) परिपूरणमित्यनन्तपारम् । द्वितीयेन मनोजल्पमात्रानर्थान्विदित्वा तदाभासे चित्तमात्रे ऽवस्थानमियं बोधिसत्त्वस्य निर्वेधभागीयावस्था । ततः परेण धर्मधातोः प्रत्यक्षतो[ऽव?] गमने द्वयलक्षणेन वियुक्तो ग्राह्यग्राहकलक्षणेन । इयं दर्शनमार्गावस्था । तृतीयेन यथासौ धर्मधातुः प्रत्यक्षतामेति तद् दर्शयति । कथं चासौ धर्मधातुः प्रत्यक्षतामेति । चित्तादन्यदालम्बनं ग्राह्यं नास्तीत्यवगम्य बुद्ध्या तस्यापि चित्तमात्रस्य नास्तित्वावगमनं ग्राह्य[आ]भावे ग्राहकाभावात् । द्वये चास्य [द्वयस्यास्य?] नास्तित्वं विदित्वा धर्मधाताववस्थानमतद्गतिर्ग्राह्यग्राहकलक्षणाभ्यां रहितं एवं धर्मधातुः प्रत्यक्षतामेति । चतुर्थेन भावनामार्गावस्थायामाश्रयपरिवर्तनात् पारमार्थिकज्ञानप्रवेशं दर्शयति । सदा सर्वत्र समतानुगतेनाविकल्पज्ञानबलेन यत्र तत्समतानुगतं परतन्त्रे स्वभावे तदाश्रयस्य दूरानुप्रविष्टस्य दोषसंचस्य दौष्ठुल्यलक्षणस्य महागदेनेव विषस्य निरसनात् ।
परमार्थज्ञानमाहात्म्ये श्लोकः ।
मुनिविहितसुधर्मसुव्यवस्थो मतिमुपधाय समूलधर्मधातौ ।
स्मृतिम[ग]तिमवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0