महायानसूत्रालंकार · अध्याय 5
शिरसि महान्तं सत्त्वभारं विनिधाय बोधिसत्त्वः शिथिलं पराक्रममाणो न शोभते । शतगुणं हि स वीर्यं कर्तुमर्हति श्रावकवीर्यात् तथा हि स्वपरबन्धनैर्विविधैरत्यर्थं बद्धः क्लेशकर्मजन्मस्वभावैः ।
॥ महायानसूत्रालंकारे चित्तोत्पादाधिकारश्चतुर्थः ॥
पञ्चमो ऽधिकारः
प्रतिपत्तिलक्षणे श्लोकः ।
महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिरिष्यते ।
सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका
तत्र महाश्रया चित्तोत्पादाश्रयत्वात् । महारम्भा स्वपरार्थारम्भात् । महाफलोदया महाबोधिफलत्वात् । अत एव यथाक्रमं महादाना सर्वसत्त्वोपादानात् । महाधिवासना सर्वदुःखाधिवासनात् । महार्थसंपादनकृत्यकारिका विपुलसत्त्वार्थसंपादनात् ।
स्वपरार्थनिर्विशेषत्वे श्लोकः ।
परत्रलब्ध्वात्मसमानचित्ततां स्वतो ऽधि वा श्रेष्ठतरेष्टतां परे ।
तथात्मनो ऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता
परत्रात्मसमानचित्ततां लब्ध्वाधिमुक्तितो वा सांकेतिकचित्तोत्पादलाभे ज्ञानतो वा पारमार्थिकचित्तोत्पादलाभे । आत्मतो वा पुनः परत्र विशिष्टतरामिष्टतां लब्ध्वा तेनैव च कारणेनात्मनः परार्थे विशिष्टसंज्ञिनो बोधिसत्त्वस्य कः स्वार्थः परार्थो वा । निर्विशेषं हि तस्योभयमित्यर्थः ।
परार्थविशेषणे श्लोकः ।
परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणारिपौ ।
यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते
यथा स्वात्मनः परार्थो विशिष्यते तत्साधयति परार्थमात्मनो ऽत्यर्थं संतापनात् ।
परार्थप्रतिपत्तिविभागे द्वौ श्लोकौ ।
निकृष्टमध्योत्तमधर्मतास्थिते सुदेशनावर्जनतावतारणा ।
विनीतिरर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः
गुणैर्विशिष्टैः समुदागमस्तथा कुलोदयो व्याकरणाभिषिक्तता ।
तथागतज्ञानमनुत्तरं पदं परार्थ एष त्र्यधिको दशात्मकः
त्रिविधे सत्त्वनिकाये हीनमध्यविशिष्टगोत्रस्थेः त्रयोदशविधो बोधिसत्त्वस्य परार्थः । सुदेशनानुशासन्यादेशनाप्रतिहार्याभ्याम् । आवर्जना ऋद्धिप्रातिहायेर्ण । अवतारणा शासनाभ्युपगमनात् । विनीतिरर्थे ऽवतीर्णानां संशयच्छेदनम् । परिपाचना कुशले । अववादश्चित्तस्थितिः प्रज्ञाविमुक्तिः, अभिज्ञादिभिर्विशेषकैर्गुणैः समुदागमः । तथागतकुले जन्म, अष्टभ्यां भूमौ व्याकरणं दशम्यामभिषेकश्च । सह तथागतज्ञानेनेत्येष त्रिषु गोत्रस्थेषु यथायोगं त्रयोदशविधः परार्थो बोधिसत्त्वस्य ।
परार्थप्रतिपत्तिसंपत्तौ श्लोकः ।
जनानुरूपाविपरीतदेशना निरुन्नता चाप्यममा विचक्षणा ।
क्षमा च दान्ता च सुदूरगाक्षया जिनात्मजानां प्रतिपत्तिरुत्तमा
यथासौ परार्थपतिपत्तिः संपन्ना भवति तथा संदर्शयति । कथं चासौ संपन्ना भवति । यदि गोत्रस्थजनानुरूपाविपरीता च देशना भवति । अनुन्नता चावर्जना । अममा चावतारणा । न ऋद्धया मन्यते न चावतारितान्सत्त्वान्ममायति । विचक्षणा चार्थे विनीतिप्रतिपत्तिर्भवति । क्षमा च शुभे परिपाचनाप्रतिपत्तिः । दान्ता चाववादादिप्रतिपत्तिः । न ह्यदान्तो ऽववादादिषु परेषां समर्थः । सुदूरगा च कुलोदयादिप्रतिपत्तिः । न ह्यदूरगतया प्रतिपत्त्या कुलोदयादयः परेषां कर्तुं शक्याः । सर्वा चैषा, परार्थप्रतिपत्तिर्बोधिसत्त्वानामक्षया भवत्यभ्युपगतसत्त्वाक्षयत्वादतो ऽपि संपन्ना वेदितव्या ।
प्रतिपत्तिविशेषणे द्वौ श्लोकौ ।
महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः ।
प्रतिस्वमाधिप्रशमे शमप्रियः सदा तु सर्वाधिग[श]मे कृपात्मकः
जनो विमूढः स्वसुखार्थमुद्यतः सदा तदप्राप्य परैति दुःखताम् ।
सदा तु धीरो हि परार्थमुद्यतो द्वयार्थमाधाय परैति निर्वृतिम्
तत्र कामानां महाभयत्वं बहुकायिकचैतसिकदुःखदुर्गतिगमनहेतुत्वात् । चलं विपर्याससुखं रूपारूप्यभवप्रियाणामनित्यत्वात्परमार्थदुःखत्वाच्च संस्कारदुःखतया । आधयः क्लेशा वेदितव्या दुःखाधानात् । विमूढो जनः सदा स्वसुखार्थं प्रतिपन्नः सुखं नाप्नोति दुःखमेवाप्नोति । बोधिसत्त्वस्तु परार्थं प्रतिपन्नः स्वपरार्थं संपाद्य निर्वृतिसुखं प्राप्नोत्ययमस्यापरः प्रतिपत्तिविशेषः ।
गोचरपरिणामने श्लोकः ।
यथा यथा ह्यक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः ।
तथा तथा युक्तसमानतापदैर्हिताया सत्त्वेष्वभिसंस्करोति तत्
येन येन प्रकारेण चक्षुरादीन्द्रियगोचरे विचित्रे बोधिसत्त्वः प्रवर्तते । ईर्यापथव्यापारचारे वर्तमानस्तेन तेन प्रकारेण संबद्धसादृश्यवचनैर्हितार्थं सत्त्वेषु तत्सर्वमभिसंस्करोति । यथा गोचरपरिशुद्धिसूत्रे विस्तरेण निर्दिष्टम् ।
सत्त्वेष्वक्षान्तिप्रतिषेधे श्लोकः ।
सदास्वतन्त्रीकृतदोषचेतने जने न संदोषमुपैति बुद्धिमान् ।
अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः
सदा क्लेशैरस्वतन्त्रीकृतचेतने जने न संदोषमुपैति बोधिसत्त्वः । किं कारणम् । अकामकारेणैषां विप्रतिपत्तयो भवन्तीति विदित्वा करुणावृद्धिगमनात् ।
प्रतिपत्तिमाहात्म्ये श्लोकः ।
भवगतिसकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिरेव ।
विविधगुणगणैर्विवर्धमाना जगदुपगु[गृ?]ह्य सदा कृपाशयेन
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0