भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार · अध्याय 4

4.1

स्वपरहितफलस्य बोधिवृक्षस्य प्रशस्तमूलत्वमनेन बोधिसत्त्वगोत्रं संदर्शितम् ।
॥ महायानसूत्रालंकारे गोत्राधिकारस्तृतीयः ॥
चतुर्थो ऽधिकारः
चित्तोत्पादलक्षणे श्लोकः ।
महोत्साहा महारम्भा महार्थाथ महोदया ।
चेतना बोधिसत्त्वानां द्वयार्था चित्तसंभवः

4.2

महोत्साहा संनाहवीर्येण गम्भीरदुष्करदीर्घकालप्रतिपक्षोत्स[त्त्यु]त्सहनात् । महारम्भा यथासंनाहप्रयोगवीर्येण । महार्था आत्मपरहिताधिकारात् । महोदया महाबोधिसमुदागमत्वात् । सो ऽयं त्रिविधो गुणः परिदीपितः, पुरुषकारगुणो द्वाभ्यां पदाभ्यामर्थक्रियागुणः फलपरिग्रहगुणश्च द्वाभ्याम् । द्वयार्था महाबोधिसत्त्वार्थक्रियालम्बनत्वात् । इति त्रिगुणा द्वयालम्बना च चतेना चित्तोत्पाद इत्युच्यते ।
चित्तोत्पादप्रभेदे श्लोकः ।
चित्तोत्पादो ऽधिमोक्षो ऽसौ शुद्धाध्याशयिको ऽपरः ।
वैपाक्यो भूमिषु मतस्तथावरणवर्जितः

4.3

चतुर्विधो बोधिसत्त्वानां चित्तोत्पादः । आधिमोक्षिको ऽधिमुक्तिचर्याभूमौ । शुद्धाध्याशयिकः सप्तसु भूमिषु । वैपाकिको ऽष्टम्यादिषु । अनावरणिको बुद्धभूमौ ।
चित्तोत्पादविनिश्चये चत्त्वारः श्लोकाः ।
करुणामूल इष्टो ऽसौ सदासत्त्वहिताशयः ।
धर्माधिमोक्षस्तज्ज्ञानपर्येष्ट्यालम्बनस्तथा

4.4

उत्तरच्छन्दयानो ऽसौ प्रतिष्ठाशीलसंवृतिः ।
उत्थापना विपक्षस्य परिपन्थो ऽधिवासना

4.5

शुभवृद्ध्यनुसंसो ऽसौ पुण्यज्ञानमयः स हि ।
सदापारमितायोगनिर्याणश्च स कथ्यते

4.6

भूमिपर्यवसानो ऽसौ प्रतिस्वं तत्प्रयोगतः ।
विज्ञेयो बोधिसत्त्वानां चित्तोत्पादविनिश्चयः

4.7

तथायं विनिश्चयः । किंमूल एष चतुविर्धो बोधिसत्त्वानां चित्तोत्पादः किमाशयः किमधिमोक्षः किमालम्बनः किंयानः किंप्रतिष्ठः किमादीनवः किमनुशंसः किंनिर्याणः ( म्स_बग्छि 16 ) किंपर्यवसान इति । आह । करुणामूलः । सदासत्त्वहिताशयः । महायानधर्माधिमोक्षः । तज्ज्ञानपर्येष्ट्याकारेण तज्ज्ञानालम्बनात् [नः] । उत्तरोत्तरच्छन्दयानः । बोधिसत्त्वशीलसंवरप्रतिष्ठः । परिपन्थ आदीनवः । कः पुनस्तत्परिपन्थो विपक्षस्यान्ययानचित्तस्योत्थापनाधिवासना वा । पुण्यज्ञानमयकुशलधर्मवृद्ध्यनुशंसः । सदापारमिताभ्यासनिर्याणः । भूमिपर्यवसानश्च प्रतिस्वं भूमिप्रयोगात् । यस्यां भूमौ यः प्रयुक्तस्तस्य तद्भूमिपर्यवसानः ।
समादानसांकेतिकचित्तोत्पादे श्लोकः ।
मित्रबलाद् हेतुबलान्मूलबलाच्छ्रू तबलाच्छुभाभ्यासात् ।
अदृढदृढोदय उक्तश्चित्तोत्पादः पराख्यानात्

4.8

यो हि पराख्यानाच्चित्तोत्पादः परविज्ञापनात्स उच्यते समादानसांकेतिकः । स पुनर्मित्रबलाद्वा भवति कल्याणमित्रानुरोधात् । हेतुबलाद्वा गोत्रसामर्थ्यात् । कुशलमूलद्वातीत[तद्गोत्र]पुष्टितः । श्रुतबलाद्वा तत्र तत्र धर्मपर्याये भाष्यमाणे बहूनां बोधिचित्तोत्पादात् । शुभाभ्यासाद्वा दृष्ट इव धर्मे सततश्रवणोद्ग्रहणधारणादिभिः । स पुनर्मित्रबलाददृढोदयो वेदितव्यः । हेत्वादिबलाद् दृढोदयः ।
पारमार्थिकचित्तोत्पादे सप्त श्लोकाः ।
सूपासितसंबुद्धे सुसंभूतज्ञानपुण्यसंभारे ।
धर्मेषु निर्विकल्पज्ञानप्रसवात्परमतास्य

4.9

धर्मेषु च सत्त्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे ।
समचित्तोपा[त्तोप]लम्भात्प्रामोद्यविशिष्टता तस्य

4.10

जन्मौदार्यं तस्मिन्नुत्साहः शुद्धिराशयस्यापि ।
कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम्

4.11

धर्माधिमुक्तिबीजात्पारमिताश्रेष्ठमातृतो जातः ।
ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री

4.12

औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् ।
उत्साहो बोद्धव्यो दुष्करदीर्घाधिकाखेदात्

4.13

आसन्नबोधिबोधात्तदुपायज्ञानलाभतश्चापि ।
आशयशुद्धिर्ज्ञेया कौशल्यं त्वन्यभूमिगतम्

4.14

निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण ।
तत्कल्पनताज्ञानादविकल्पनया च तस्यैव

4.15

प्रथमेन श्लोकेनोपदेशप्रतिपत्त्यधिगमविशेषैः पारमार्थिकत्वं चित्तोत्पादस्य दर्शयति । स च पारमार्थिकश्चित्तोत्पादः प्रमुदितायां भूमाविति [प्रमुदिताभूमिः] । प्रामोद्यविशिष्टतायास्तत्र कारणं दर्शयति । तत्र धर्मेषु समचित्तता धर्मनैरात्म्यप्रतिबोधात् । सत्त्वेषु समचित्तता आत्मपरसमतोपगमात् । सत्त्वकृत्येषु समचित्तता आत्मन इव तेषां दुःखक्षयाकाङ्क्षणात् । बुद्धत्वे समचित्तता तद्धर्मधातोरात्मन्यभेदप्रतिबोधात् । तस्मिन्नेव च पारमार्थिकचित्तोत्पादे षडर्था वेदितव्याः । जन्म औदार्यमुत्साह आशयशुद्धिः परिशिष्टकौशल्यं निर्याणं च । तत्र जन्म बीजमातृगर्भधात्रीविशेषाद्वेदितव्यम् । औदार्यं दशमहाप्रणिधानाभिनिर्हारात् । उत्साहो दीर्घकालिकदुष्कराखेदात् । आशयशुद्धिरासन्नबोधिज्ञानात्तदुपायज्ञानलाभाच्च । परिशिष्टकौशल्यमन्यासु भूमिषु कौशल्यम् । निर्याणं यथाव्यवस्थानभूमिमनसिकारेण । कथं मनसिकारेण, तस्य भूमिव्यवस्थानस्य कल्पनाज्ञानात्कल्पनामात्रमेतदिति । तस्यैव च कल्पनाज्ञानस्याविकल्पनात् ।
औपम्यमाहात्म्ये षट् श्लोकाः ।
पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश्चान्यः ।
शुक्लनवचन्द्रसदृशो बह्निप्रख्यो ऽपरोच्छ्रायः [ज्ञेयः]

4.16

भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः ।
सागरसदृशो ज्ञेयो वज्रप्रख्यो ऽचलेन्द्रनिभः

4.17

भैषज्यराजसदृशो महासुहृत्संनिभो ऽपरो ज्ञेयः ।
चिन्तामणिप्रकाशो दिनकरसदृशो ऽपरो ज्ञेयः

4.18

गन्धर्वमधुरघोषवदन्यो राजोपमो ऽपरो ज्ञेयः ।
कोष्ठागारप्रख्यो महापथसमस्तथैवान्यः

4.19

यानसमो विज्ञेयो गन्धर्वसमश्च वेतसग[चेतसः]प्रभवः ।
आनन्दशब्दसदृशो महानदीश्रोत[स्त्रोतः]सदृशश्च

4.20

मेघसदृशश्च कथितश्चित्तोत्पादो जिनात्मजानां हि ।
तस्मात्तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम्

4.21

प्रथमचित्तोत्पादो बोधिसत्त्वानां पृथिवीसमः सर्वबुद्धधर्मतत्संभारप्रसवरस्य प्रतिष्ठाभूतत्वात् । आशयसहगतश्चित्तोत्पादः कल्याणसुवर्णसदृशो हितसुखाध्याशयस्य विकाराभजनात् । प्रयोगसहगतः शुक्लपक्षनवचन्द्रोपमः कुशलधर्मवृद्धिगमनात् । अध्याशयसहगतो बह्निसदृश इन्धनाकरविशेषेणेवाग्निस्तस्योत्तरोत्तरविशेषाधिगमनात् । विशेषाधिगमाशयो ह्यध्याशयः । दानपारमितासहगतो महानिधनोपम आमिषसंभोगेनाप्रमेयसत्त्वसंतर्पणादक्षयत्वाच्च । शीलपारमितासहगतो रत्नाकरोपमः सर्वगुणरत्नानां ततः प्रसवात् । क्षान्तिपारमितासहगतः सागरोपमः सर्वानिष्टोपरिपातैरक्षोभ्यत्वात् । वीर्यपारमितासहगतो वज्रोपमो दृढत्वादभेद्यतया । ध्यानपारमितासहगतः पर्वतराजोपमो निष्कम्पत्वादविक्षेपतः । प्रज्ञापारमितासहगतो भैषज्यराजोपमः सर्वक्लेशज्ञेयावरणव्याधिप्रशमनात् । अप्रमाणसहगतो महासुहृत्संनिभः सर्वावस्थं सत्वानुपेक्षकत्वात् । अभिज्ञासहगतश्चिन्तामणिसदृशो यथाधिमोक्षं तत्फलसमृद्धेः । संग्रहवस्तुसहगतो दिनकरसदृशो विनेयसस्यपरिपाचनात् । प्रतिसंवित्सहगतो गन्धर्वमधुरघोषोपमो विनेयावर्जकधर्मदेशकत्वात् । प्रतिशरणसहगतो महाराजोपमो ऽविप्रणाशहेतुत्वात् । पुण्यज्ञानसंभारसहगतः कोष्ठागारोपमो बहुपुण्यज्ञानसंभारकोषस्थानत्वात् । बोधिपक्षसहगतो महाराजपथोपमः सर्वार्यपुद्गलयातानुयतत्वात् । शमथविपश्यनासहगतो यानोपमः सुखवहनात् । धारणा-प्रतिभानसहगतो गन्धर्वोपमः उदकधारणाक्षयोद्भेदसाधर्म्येण श्रुताश्रुतधर्मार्थधारणाक्षयोद्भेदतः । धर्मोद्दानसहगत आनन्दशब्दसदृशो मोक्षकामानां विनेयानां प्रियश्रावणात् । एकायनमार्गसहगतो नदीश्रो[स्रो]तः समः स्वरसवाहित्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभे एकायनत्वं तद्भूमिगतानां बोधिसत्त्वानामभिन्नकार्यक्रियात्वात् । उपायकौशल्यसहगतो मेघोपमः सर्वसत्त्वार्थक्रियातदधीनत्वात्तुषितभवनवासादिसंदर्शनतः । यथा मेघात्सर्वभाजनलोकसंपत्त्यः । एष च द्वाविंशत्युपमश्चित्तोत्पाद आर्याक्षयमतिसूत्रे ऽक्षगतानुसारेणानुगन्तव्यः ।
चित्तानुत्पादपरिभाषायां श्लोकः ।
परार्थचित्तात्तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् ।
महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत्सुखम्

4.22

तेन चित्तोत्पादेन वर्जिताः सत्त्वाश्चतुर्विधं सुखं न लभन्ते यद्बोधिसत्त्वानां परार्थचिन्तनात्सुखम् । ( म्स_बग्छि 19 ) यच्च परार्थोपायलाभात् । यच्च महाभिसंध्यर्थसंदर्शनात् गम्भीरमहायानस्वतो[सूत्रा]भिप्रायिकार्थविबोधतः । यच्च परमतत्त्वस्य धर्मनैरात्म्यस्य संदर्शनात्सुखम् ।
चित्तोत्पादप्रशंसायां दुर्गतिपरिखेदनिर्भयतामुपादाय श्लोकः ।
सहोदयाच्चित्तवरस्य धीमतः सुसंवृतं चित्तमनन्तदुष्कृतात् ।
सुखेन दुःखेन च मोदते सदा शुभी कृपालुश्च विवर्धन[यन्] द्वयम्

4.23

तस्य चित्तवरस्य सहोदयाब्दोधिसत्त्वस्य सुसंवृतं चित्तं भवत्यनन्तसत्त्वाधिष्ठानाद् दुष्कृतादतो ऽस्य दुर्गतितो भयं न भवति । स च द्वयं वर्धयन् शुभं च कर्म-कृपां च नित्यं च शुभी भवति कृपालुश्च तेन सदा मोदते । सुखेनापि शुभित्वात् । दुःखेनापि परार्थक्रियानिमित्तेन कृपालुत्वात् । अतो ऽस्य बहुकर्त्तव्यतापरिखेदादपि भयं न भवति ।
अकरणसंवरलाभे श्लोकः ।
यदानपेक्षः स्वशरीरजीविते परार्थमभ्येति परं परिश्रमम् ।
परोपघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवर्त्स्यति

4.24

अस्य पिण्डार्थो यस्य पर एव प्रियतरो नात्मा परार्थं स्वशरीरजीविते निरपेक्षत्वात् । स कथमात्मार्थं परोपघातेन दुष्कृते कर्मणि प्रवर्त्स्यतीति ।
चित्ताव्यावृत्तौ श्लोकौ ।
मायोपमान्वीक्ष्य स सर्वधर्मानुद्यानयात्रामिव चोपपत्तीः ।
क्लेशाच्च दुःखाच्च बिभेति नासौ संपत्तिकाले ऽथ विपत्तिकाले

4.25

स्वका गुणाः सत्त्वहिताच्च मोदः संचिन्त्यजन्मर्द्धिविकुर्वितं च ।
विभूषणं भोजनमग्रभूमिः क्रीडारतिर्नित्यकृपात्मकानाम्

4.26

मायोपमसर्वधर्मेक्षणात्स बोधिसत्त्वः संपत्तिकाले क्लेशेभ्यो न विभेति । उद्यानयात्रोपमोपपत्तीक्षणात् विपत्तिकाले दुःखान्न बिभेति । तस्य कुतो भयाब्दोधिचित्तं व्यावर्तिष्यते । अपि च स्वगुणा मण्डनं बोधिसत्त्वानाम् । परहितात्प्रीतिर्भोजनम् । संचिन्त्योपपत्तिरुद्यानभूमिः । ऋद्धिविकुर्वितं क्रीडारतिर्बोधिसत्त्वानामेवास्ति । नाबोधिसत्त्वानाम् । तेषां कथं चित्तं व्यावर्तिष्यते ।
दुःखत्रासप्रतिषेधे श्लोकः ।
परार्थमुद्योगवतः कृपात्मनो ह्यवीचिरप्येति यतो ऽस्य रम्यताम् ।
कुतः पुनस्त्रस्यति तादृशो भवन् पराश्रयैर्दुःखसमुद्भवैर्भवे

4.27

अपि च यस्य परार्थमुद्योगवतः करुणात्मकत्वादवीचिरपि रम्यः स कथं परार्थनिमित्तैर्दुःखोत्पादैर्भवे पुनस्त्रासमापत्स्यते । यतो ऽस्य दुःखात्त्रासः स्याच्चित्तस्य व्यावृत्तिर्भवति ।
सत्त्वोपेक्षाप्रतिषेधे श्लोकः ।
महाकृपाचार्यसदोषितात्मनः परस्य दुःखैरुपतप्तचेतसः ।
परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतो ऽतिलज्जना

4.28

यस्य महाकरुणाचार्येण नित्योषितः आत्मा परदुःखैश्च दुःखितं चेतस्तस्योत्पन्ने परार्थं करणीये यदि परैः कल्याणमित्रैः समादापना कर्तव्या भवति अतिलज्जना ।
कौशीद्यपरिभाषायां श्लोकः ।
शिरसि विनिहितोच्चसत्त्वभारः शिथिलगतिर्नहि शोभते ऽग्रसत्त्वः ।
स्वपरविविधबन्धनातिबद्धः शतगुणमुत्सहमर्हति प्रकर्त्तुम्

मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc