महायानसूत्रालंकार · अध्याय 3
अत्र शरणगमनस्थां महार्थतां स्वपरार्थप्रतिपत्तिभ्यां दर्शयति । स्वार्थप्रतिपत्तिः पुनर्बहुप्रकाराप्रमेयगुणवृद्ध्या । अप्रमेयत्वं तर्कसंख्याकालाप्रमेयतया वेदितव्यम् । न हि सा गुणवृद्धिस्तर्केण प्रमेया न संख्यया न कालेनात्यन्तिकत्वात् । परार्थप्रतिपत्तिराशयतश्च करुणास्फुरणेन प्रयोगतश्च महायानधर्मप्रथनेन । महायानं हि महार्यदृशां धर्मः ।
॥ महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः ॥
तृतीयो ऽधिकारः
गोत्रप्रभेदसंग्रहश्लोकः
सत्त्वाग्रत्वं स्वभावश्च लिङ्गं गोत्रप्रभेदता ।
आदीनवो ऽनुशंसश्च द्विधौपम्यं चतुर्विधा
अनेन गोत्रस्यास्तित्वमग्रत्वं स्वभावो लिङ्गं भेद आदीनप्रवो ऽनुशंसो द्विधौपम्यं चेत्येष प्रभेदः संगृहीतः । एते च प्रभेदाः प्रत्येकं चतुर्विधाः ।
अनेन गोत्रास्तित्वविभागे श्लोकः ।
धातूनामधिमुक्तेश्च प्रतिपत्तेश्च भेदतः ।
फलभेदोपलब्धेश्च गोत्रास्तित्वं निरूप्यते
नानाधातुकत्वात्सत्त्वानामपरिमाणो धातुप्रभेदो यथोक्तमक्षराशिसूत्रे । तस्मादेवंजातीयको ऽपि धातुभेदः प्रत्येतव्यः इति । अस्ति यानत्रये गोत्रभेदः । अधिमुक्तिभेदो ऽपि सत्त्वानामुपलभ्यते । प्रथमत एव कस्यचित् क्वचिदेव याने ऽधिमुक्तिर्भवति । सो ऽन्तरेण गोत्रभेदं न स्यात् । उत्पादितायामपि च प्रत्ययवशेनाधिमुक्तौ प्रतिपत्तिभेद उपलभ्यते कश्चिन्निर्बोढा भवति कश्चिन्नेति सो ऽन्तरेण गोत्रप्रभेदं न स्यात् । फलभेदश्चोपलभ्यते हीनमध्यविशिष्टा बोधयः । सो ऽन्तरेण गोत्रभेदं न स्यात् बीजानुरूपत्वात् फलस्य ।
अग्रत्वविभागे श्लोकः ।
उदग्रत्वे ऽथ सर्वत्वे महार्थत्वे ऽक्षयाय च ।
शुभस्य तन्निमित्तत्वात् गोत्रग्रत्वं विधीयते
अत्र गोत्रस्य चतुर्विधेन निमित्तत्वेनाग्रत्वं दर्शयति । तद्धि गोत्रं कुशलमूलानामुदग्रत्वे निमित्तं, सर्वत्वे, महार्थत्वे, अक्षयत्वे च । न हि श्रावकाणां तथोदग्राणि कुशलमूलानि, न च सर्वाणि सन्ति, बलवैशारद्याद्यभावात् । न च महार्थान्यपरार्थत्वात् । न चाक्षयाण्यनुपधिशेषनिर्वाणावसानत्वात् ।
लक्षणविभागे श्लोकः ।
प्रकृत्या परिपुष्टं च आश्रयश्चाश्रितं च तत् ।
सदसच्चैव विज्ञेयं गुणोत्तारणतार्थतः
एतेन चतुर्विधं गोत्रं दर्शयति । प्रकृतिस्थं समुदानीतमाश्रयस्वभावमाश्रितस्वभावं च तदेव यथाक्रमम् । तत्पुनर्हेतुभावेन सत् फलभावेनासत् गुणोत्तारणार्थेन गोत्रं वेदितव्यं गुणा उत्तरन्त्यस्मादुद्भवन्तीति कृत्वा ।
लिङ्गविभागे श्लोकः ।
कारुण्यमधिमुक्तिश्च क्षान्तिश्चादिप्रयोगतः ।
समाचारः शुभस्यापि गोत्रलिङ्गं निरूप्यते
चतुर्विधं लिङ्गं बोधिसत्त्वगोत्रे । आदिप्रयोगत एव कारुण्यं सत्त्वेषु । अधिमुक्तिर्महायानधर्मे । क्षान्तिर्दुष्करचर्यायां सहिष्णुतार्थेन । समाचारश्च पारमितामयस्य कुशलस्येति ।
प्रभेदविभागे श्लोकः ।
नियतानियतं गोत्रमहार्यं हार्यमेव च ।
प्रत्ययैर्गोत्रभेदो ऽयं समासेन चतुर्विधः
समासेन चतुर्विधं गोत्रं नियतानियतं तदेव यथाक्रमं प्रत्ययैरहार्यं हार्यं चेति ।
आदीनवविभागे श्लोकः ।
क्लेशाभ्यासः कुमित्रत्वं विघातः परतन्त्रता ।
गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः
बोधिसत्त्वगोत्रे समासेन चतुर्विध आदीनवो येन गोत्रस्थो ऽगुणेषु प्रवर्तते । क्लेशबाहुल्यम्, अकल्याणमित्रता, उपकरणविघातः, पारतन्त्र्यं च ।
अनुशंसविभागे श्लोकः ।
चिरादपायगमनमाशुमोक्षश्च तत्र च ।
तनुदुःखोपसंवित्तिः सोद्वेगा सत्त्वपाचना
चतुर्विधो बोधिसत्त्वस्य गोत्रे ऽनुशंसः । चिरेणापायान् गच्छति । क्षिप्रं च तेभ्यो मुच्यते । मृदुकं च दुःखं तेषूपपन्नः प्रतिसंवेदयते । संविग्नचेतास्तदुपपन्नांश्च सत्त्वान्करुणायमानः परिपाचयति ।
महासुवर्णगोत्रौपम्ये श्लोकः ।
सुवर्णगोत्रवत् ज्ञेयममेयशुभताश्रयः ।
ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः
महासुवर्णगोत्रं हि चतुर्विधस्य सुवर्णस्याश्रयो भवति । प्रभूतस्य, प्रभास्वरस्य, निर्मलस्य, कर्मण्यस्य च । तत्साधर्म्येण बोधिसत्त्वगोत्रमप्रमेयकुशलमूलाश्रयः । ज्ञानाश्रयः । क्लेशनैर्मल्याप्राप्त्याश्रयः । अभिज्ञादिप्रभावाश्रयश्च । तस्मान्महासुवर्णगोत्रोपमं वेदितव्यम् ।
महारत्नगोत्रौपम्ये श्लोकः ।
सुरत्नगोत्रवज्ज्ञेयं महाबोधिनिमित्ततः ।
महाज्ञानसमाध्यार्यमहासत्त्वार्थनिश्रयात्
महारत्नगोत्रं हि चतुर्विधरत्नाश्रयो भवति । जात्यस्य वर्णसंपन्नस्य संस्थानसंपन्नस्य प्रमाणसंपन्नस्य च । तदुपमं बोधिसत्त्वगोत्रं वेदितव्यम्, महाबोधिनिमित्तत्वात्, महाज्ञाननिमित्तत्वात्, आर्यसमाधिनिमित्तत्वात्, चित्तस्य हि संस्थितिः समाधिः, महासत्त्वपरिपाकनिमित्तत्वाच्च बहुसत्त्वपरिपाचनात् ।
अगोत्रस्थविभागे श्लोकः ।
ऐकान्तिको दुश्चरिते ऽस्ति कश्चित् कश्चित् समुद्घातितशुक्लधर्मा ।
अमोक्षभागीयशुभो ऽस्ति कश्चिन् निहीनशुक्लो ऽस्त्यपि हेतुहीनः
अपरिनिर्वाणधर्मक एतस्मिन्नगोत्रस्थो ऽभिप्रेतः । स च समासतो द्विविधः । तत्कालापरिनिर्वाणधर्मा अत्यन्तं च । तत्कालापरिनिर्वाणधर्मा चतुर्विधः । दुश्चरितैकान्तिकः, समुच्छिन्नकुशलमूलः, अमोक्षभागीयकुशलमूलः, हीनकुशलमूलश्चापरिपूर्णसंभारः । अत्यन्तापरिनिर्वाणधर्मा तु हेतुहिनो यस्य परिनिर्वाणगोत्रमेव नास्ति ।
प्रकृतिपरिपुष्टगोत्रमाहात्म्ये श्लोकः ।
गाम्भीर्यौदार्यवादे परहितकरणायोदिते दीर्घधर्मे
अज्ञात्वैवाधिमुक्तिर्भवति सुविपुला संप्रपत्तिक्षमा च ।
संपत्तिश्चावसाने द्वयगतपरमा यद्भवत्येव तेषां
तज्ज्ञेयं बोधिसत्त्वप्रकृतिगुणवतस्तत्प्रपुष्टाच्च गोत्रात्
यद्गाभी[म्भी]र्योदार्यवादिनि परहितक्रियार्थमुक्ते विस्तीर्णे महायानधर्मे गाम्भीर्यौदार्यार्थमज्ञात्वैवाधिमुक्तिर्विपुला भवति, प्रतिपत्तौ चोत्साहः [चाखेदः] संपत्तिश्चावसाने महाबोधिर्द्वयगतायाः ( म्स_बग्छि 14 ) संपत्तेः परमा, तत्प्रकृत्या गुणवतः परिपुष्टस्य च बोधिसत्त्वगोत्रस्य माहात्म्यं वेदितव्यम् । द्वयगता इति द्वये लौकिकाः श्रावकाश्च । परमेति विशिष्टा ।
फलतो गोत्रविशेषणे श्लोकः ।
सुविपुलगुणबोधिवृक्षवृद्ध्यै घनसुखदुःखशमोपलब्धये च ।
स्वपरहितसुखक्रिया फलत्वाद् भवति समुदग्र[समूलमुदग्र]गोत्रमेतत्
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0