भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार · अध्याय 2

2.1

प्रकृतिप्रदुष्ट इति प्रकृतिसावद्यः । तस्मादुपेक्षैव वरम् । कस्मात् । सा ह्यदोषा । प्रतिघातस्तु सदोषः ।
। महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः ॥
द्वितीयो ऽधिकारः
शरणगमनविशेषसंग्रहश्लोकः ।
रत्नानि यो हि शरणप्रगतो ऽत्र याने ज्ञेयः स एव परमः शरण[णं] गतानाम् ।
सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदैश्चतुर्विधमयार्थविशेषणेन

2.2

स एव परमः शरणं गतानामिति । केन कारणेन । चतुर्विधस्वभावार्थविशेषणेन । चतुर्विधो ऽर्थः सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदतो वेदितव्यः । सर्वत्रगार्थः । अभ्युपगमार्थः । अधिगमार्थः । अभिभवार्थः । ते पुनरुत्तरत्र निर्देक्ष्यन्ते ।
तथाप्यत्र शरणप्रगतानां बहुदुष्करकार्यत्वात् केचिन्नोत्सहन्ते । श्लोकः ।
यस्मादादौ दुष्कर एष व्यवसायो दुःसाधो ऽसौ नैकसहस्रैरपि कल्पैः ।
सिद्धो यस्मात्सत्त्वहिताधानमहार्थस्तस्मादग्रे यान इहाग्रशरणार्थः

2.3

एतेन तस्य शरणगमनव्यवसायस्य प्रणिधानप्रतिपत्तिविशेषाभ्यां यशोहेतुत्वं दर्शयति । फलप्राप्तिविशेषेण महार्थत्वम् ।
पूर्वाधिकृते सर्वत्रगार्थे श्लोकः ।
सर्वान् सत्त्वांस्तारयितुं यः प्रतिपन्नो
याने ज्ञाने सर्वगते कौशल्ययुक्तः ।
यो निर्वाणे संसरणे ऽप्येकरसो ऽसौ [संसृतिशान्त्येकरसो ऽसौ]
ज्ञेयो धीमानेष हि सर्वत्रग एवम्

2.4

एतेन चतुर्विधं सर्वत्रगार्थं...........................
असांकेतिकं धर्मताअप्रातिलम्भिकं चेति प्रभेदलक्षणा प्रवृत्तिरौदारिकसूक्ष्मप्रभेदेन ।
शरणप्रतिपत्तिविशेषणे श्लोकः ।
शरणगतिमिमां गतो महार्थां गुणगणवृद्धिमुपैति सो ऽप्रमेयाम् ।
स्फुरति जगदिदं कृपाशयेन प्रथयति चाप्रतिमं महा[र्य]धर्मम्

मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc