भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार · अध्याय 19

19.1

हीधृतिप्रभृतीनां गुणानां समासेन कर्म निर्दिष्टम् ।
॥ महायानसूत्रालंकारे बोधिपक्षाधिकारः [अष्टादशः] समाप्तः ॥
एकोनविंशत्यधिकारः
आश्चर्यविभागे त्रयः श्लोकाः ।
स्वदेहस्य परित्यागः संपत्तेश्चैव संवृत्तौ ।
दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः

19.2

वीर्यारम्भो ह्यनास्वादो ध्यानेषु सुख एव च ।
निष्कल्पना च प्रज्ञायामाश्चर्यं धीमतां ग[म]तं

19.3

तथागतकुले जन्मलाभो व्याकरणस्य च ।
अभिषेकस्य च प्राप्तिर्बोधेश्चाश्चर्यमिष्यते

19.4

अत्र द्वाभ्यां श्लोकाभ्यां प्रतिपत्त्याश्चर्यमुक्तं षट्पारमिता आरभ्य । दानेन हि स्वदेहपरित्याग आश्चर्यं शीलसंवरनिमित्तमुदारसंपत्तित्यागः । शेषं गतार्थं । तृतीयेन श्लोकेन फलाश्चर्यमुक्तं चत्वारि बोधिसत्त्वफलान्यारभ्य प्रथमायामष्टम्यां दशम्यां त्रीणि शैक्षाणि फलानि । बुद्धभूमौ चतुर्थमशैक्षमत्र फलं ।
अनाश्चर्यविभागे श्लोकः ।
वैराग्यं करुणां चैत्य भावनां परमामपि ।
तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता

19.5

तास्विति पारमितासु । वैराग्यमागम्य दाने प्रयोगो नाश्चर्यं । करुणामागम्य शीले क्षान्तौ च । परमां भावनामागम्याष्टम्यां भूमौ निरभिसंस्कारनिर्विकल्पो वीर्यादिप्रयोगो नाश्चर्यम् । आत्मपरसमचित्ततामागम्य सर्वास्वेव पारमितासु प्रयोगो नाश्चर्यमात्मार्थ इव परार्थे खेदाभावात् ।
समचित्ततायां त्रयः श्लोकाः ।
न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु ।
सत्त्वानां प्रगतः स्नेहो यथा सत्त्वेषु धीमतां

19.6

अर्थिष्वपक्षपातश्च शीलस्याखण्डना ध्रुवं ।
क्षान्तिः सर्वत्र सत्त्वार्थं[सर्वार्थं]वीर्यारम्भो महानपि

19.7

ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका ।
विज्ञेया बोधिसत्त्वानां तास्वेव समचित्तता

19.8

एकः श्लोकः सत्त्वेषु समचित्ततायां । द्वौ पारमितासु । न हि सत्त्वानामात्मादिषु स्नेहः समतया अनुगतो न चात्यन्तं । तथा ह्यात्मानमपि कदाचिन्मारयन्ति । बोधिसत्त्वानां तु सर्वसत्त्वेषु समतयात्यन्तं च पारमितासु पुनर्दाने समचित्तत्वमर्थिष्वपक्षपातात् । शीले ऽणुमात्रस्यापि नित्यमखण्डना । क्षान्तिः सर्वत्रेति देशकाले सत्वेष्वभेदना । वीर्ये सत्त्वार्थं[सर्वार्थं]वीर्यारम्भात्स्वपरार्थं समं प्रयोगात्सर्वकुशलार्थं च । शेषं गतार्थम् ।
उपकारित्वविभागे षोडश श्लोकाः ।
स्थापना भाजनत्वे च शीलेष्वेव च रोपणं ।
मर्षणा चापकारस्य अर्थे व्यापारगामिता

19.9

आवर्जना शासने ऽस्मिंश्छेदना संशयस्य च ।
सत्त्वेषु उपकारित्वं धीमतामेतदिष्यते

19.10

आभ्यां श्लोकाभ्यां षड्भिः पारमिताभिर्यथोपकारित्वं बोधिसत्त्वानां तत्परिदीपितं । दानेन हि सत्त्वानां भाजनत्वे स्थापयन्ति कुशलक्रियायाः । ध्यानेनावर्जयन्ति प्रभावविशेषयोगात् । शेषं गतार्थं । शेषैः श्लोकैः मात्रादिसाधर्म्येणोपकारित्वं दर्शितम् ।
समाशयेन सत्त्वानां धारयन्ति सदैव ये ।
जनयन्त्यार्यभूमौ च कुशलैर्वर्धयन्ति च

19.11

दुष्कृतात्परिरक्षन्ति श्रुतं व्युत्पादयन्ति च ।
पञ्चभिः कर्मभिः सत्त्वमातृकल्पा जिनात्मजाः

19.12

सत्त्वानां मातृभूताः सत्त्वमातृकल्पा । माता हि पुत्रस्य पञ्चविधमुपकारं करोति । गर्भेण धारयति । जनयति । आपाययति पोषयति संवर्धयति । अपायाद्रक्षते । अभिलापं च शिक्षयति । तत्साधर्म्येणैतानि पञ्चबोधिसत्त्वकर्माणि वेदितव्यानि । आर्यभूमिरार्यधर्मा वेदितव्याः ।
श्रद्धायाः सर्वसत्त्वेषु सर्वदा चावरोपणात् ।
अधिशीलदिशिक्षायां विमुक्तौ च नियोजनात्

19.13

बुद्धाध्येषणतश्चैषामावृतेश्च विवर्जनात् ।
पञ्चभिः कर्मभिः सत्त्वपितृकल्पा जिनात्मजाः

19.14

पिता हि पुत्राणां पञ्चविधमुपकारं करोति । बीजं तेषामवरोपयति । शिल्पं शिक्षयति । प्रतिरूपैर्दारैर्नियोजयति । सन्मित्रेषुपनिक्षिपति । अनृणं करोति यथा न ( म्स_बग्छि 156 ) पैतृकमृणं दाप्यते । तत्साधर्म्येण बोधिसत्त्वानामेतानि पञ्च कर्माणि वेदितव्यानि । श्रद्धा हि सत्त्वानामार्यात्मभावप्रतिलम्भस्य बीजं । शैक्षाः शिल्पं । विमुक्तिर्भार्या विमुक्तिप्रीतिसुखसंवेदना[त्?]बुद्धाः कल्याणमित्राणि । अवरणमृणस्थानम् ।
अनर्हदेशनां ये च सत्त्वानां गूहयन्ति हि ।
शिक्षाविपत्तिं निन्दन्ति शंसन्त्येव च संपदम्

19.15

अववादं च यच्छन्ति मारानावेदयन्ति हि ।
पञ्चभिः कर्मभिः सत्त्वबन्धुकल्पा जिनात्मजाः

19.16

बन्धवो हि बन्धूनां पञ्चविधमुपकारं कुर्वन्ति । गुह्यं गूहयन्ति । कुचेष्टितं विगर्हन्ति । सुचेष्टितं प्रशंसन्ति । करणीयेषु साहाय्यं गच्छन्ति । व्यसनस्थानेभ्यश्च निवारयन्ति । तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि । अनर्हेभ्यो गम्भीरधर्मेदेशनाविनिगूहनात् शिक्षाविपत्तिसंपत्त्योर्यथाक्रमं निन्दनात्प्रशंसनाच्च । अधिगमायाववादात् मारकर्मवेदनाच्च ।
संक्लेशे व्यवदाने च स्वयमश्रान्तबुद्धयः ।
यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम्

19.17

सुखे हिते चाभिन्ना[अखेदित्वादभिन्ना] ये सदा सुखहितैषिणः ।
पञ्चभिः कर्मभिः सत्त्वमित्रकल्पा जिनात्मजाः

19.18

तद्धि मित्रं यन्मित्रस्य हिते च सुखे चाविपर्यस्तं । सुखं चोपसंहरति हितं चाभेद्यं च भवति । हितसुखैषि च नित्यं । तथा बोधिसत्त्वाः सत्त्वानां पञ्चभिः कर्मभिर्मित्रकल्पा बेदितव्याः । लौकिकी हि संपत् सुखं । तया सुखानुभवात् । लोकोत्तरा हितं । क्लेशव्याधिप्रतिपक्षत्वात् ।
सर्वदोद्यमवन्तो ये सत्त्वानां परिपाचने ।
सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु

19.19

द्वयसंपत्तिदातारस्तदुपाये च कोविदाः ।
पञ्चभिः कर्मभिः सत्त्वदासकल्पा जिनात्मजाः

19.20

दासो हि पञ्चभिः कर्मभिः सम्यग् वर्तते । उत्थानसंपन्नो भवति । कृत्येषु अविसंवादको भवति । क्षमो भवति परिभाषणताडनादीनां । निपुणो भवति सर्वकार्यकरणात् । ( म्स_बग्छि 157 ) विचक्षणश्च भवति उपायज्ञः । तत्साधर्म्येणैतानि पञ्च कर्माणि बोधिसत्त्वानां वेदितव्यानि । द्वयसंपत्तिर्लौकिकी लोकोत्तरा च वेदितव्या ।
अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश्च ये मताः ।
सर्वयानापदेष्टारः सिद्धयोगानियोजकाः

19.21

सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः ।
पञ्चभिः कर्मभिः सत्त्वाचार्यकल्पा जिनात्मजाः

19.22

पञ्चविधेन कर्मणा[चार्यः?]शिष्याणामुपकारी भवति । स्वयं सुशिक्षितो भवति । सर्वं शिक्षयति । क्षिप्रं शिक्षयति । सुमुखो भवति सुरतजातीयः । निरामिषचित्तश्च भवति । तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि ।
सत्त्वकृत्यार्थमुद्युक्ताः संभारान्पुरयन्ति ये ।
संभृतान्मोचयन्त्याशु विपक्षं हापयन्ति च

19.23

लोकसंपत्तिभिश्चित्रैरलोकैर्योजयन्ति च ।
पञ्चभिः कर्मभिः सत्त्वोपाध्यायकल्पा जिनात्मजाः

19.24

उपाध्यायः पञ्चविधेन कर्मणा सार्धं विहारिणामुपकारी भवति । प्रव्राजयति उपसंपादयति । अनुशास्ति दोषपरिवर्जने । आमिषेण संगृह्णाति धर्मेण च । तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि ।
प्रतिकारविभागे द्वौ श्लोकौ ।
असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः ।
कृतज्ञतानुयोगाच्च प्रतिपत्तौ च योगतः

19.25

षट्सु पारमितास्वेव वर्तमाना हि देहिनः ।
भवन्ति बोधिसत्त्वानां तथा प्रत्युपकारिणः

19.26

तथेति यथा तेषां बोधिसत्त्वा उपकारिणः । तत्र भोगेष्वनासक्त्या दाने वर्तन्ते । शीलस्याखण्डनेन शीले । कृतज्ञतानुयोगात् क्षान्तौ । उपकारिबोधिसत्त्वस्य कृतज्ञतया ते हि क्षान्तिप्रिया इति । प्रतिपत्तियोगतो वीर्यध्यानप्रज्ञासु येन च प्रतिपद्यन्ते यत्र चेति कृत्वा ।
आशास्तिविभागे श्लोकः ।
वृद्धिं हानिं च काङ्क्षन्ति सत्त्वानां च प्रपाचनं ।
विशेषगमनं भूमौ बोधिं चानुत्तरां सदा

19.27

पञ्च स्थानानि बोधिसत्त्वाः सदैवाशंसन्ते । पारमितावृद्धिं । तद्विपक्षहानिं । सत्त्वपरिपाचनं । भूमिविशेषगमनं । अनुत्तरां च सम्यक्संबोधिम् ।
अबन्ध्यप्रयोगविभागे श्लोकः ।
त्रासहानौ समुत्पादे संशयच्छेदने ऽपि च ।
प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः

19.28

चतुर्विधे सत्त्वार्थे बोधिसत्त्वानामबन्ध्यः प्रयोगो वेदितव्यः । गम्भिरोदारधर्मत्रास[आ?]योगे । बोधिचित्तसमुत्पादे । उत्पादितबोधिचित्तानां संशयोपच्छेदने । पारमिताप्रतिपत्त्यववादे च ।
सम्यक्प्रयोगविभागे द्वौ श्लोकौ ।
दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे ।
शीलं क्षान्तिश्च सर्वत्र वीर्यं सर्वशुभोदये

19.29

विना[आ?]रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता ।
सम्यक्प्रयोगो धीराणां षट्सु पारमितासुहि

19.30

यथोक्तं रत्नकूटे । विपाको ऽप्रतिकाङिक्षणो दानेनेति विस्तरः ।
परिहाणिविशेषभागीयधर्मविभागे द्वौ श्लोकौ ।
भोगसक्तिः सच्छिद्रत्वं मानश्चैव सुखल्लिका ।
आस्वादनं विकल्पश्च धीराणां हानिहेतवः

19.31

स्थितानां बोधिसत्त्वानां प्रतिपक्षेषु तेषु च ।
ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात्

19.32

षणां पारमितानां विपक्षा हानभागीयाः । तत्प्रतिपक्षा विशेषभागीया वेदितव्याः ।
प्रतिरूपकभूतगुणविभागे द्वौ श्लोकौ । एकः पट्पादः ।
प्रवा[ता]रणापि कुहना सौमुख्यस्य च दर्शना ।
लोभत्वेन तथा वृत्तिः शान्तवाक्कायता तथा

19.33

सुवाक्करणसंपच्च प्रतिपत्तिविवर्जिता ।
एते हि बोधिसत्त्वानामभूतत्वाय देशिताः ।
विपर्ययात्प्रयुक्तानां तद्भूतत्वाय देशिताः

19.34

षणांपारमितानां प्रतिरूपकाः षड् बोधिसत्त्वगुणाः प्रवा[ता]रणादयो वेदितव्याः । शेषं गतार्थम् ।
विनयविभागे श्लोकः ।
ते दानाद्युपसंहारैः सत्त्वानां विनयन्ति हि ।
षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु

19.35

षट्प्रकारो विपक्षः । षणां पारमितानां मात्सर्यदौःशील्यक्रोधकौसीद्यविक्षेपदौष्प्रज्ञ्यानि यथांक्रमं । शेषं गतार्थम् ।
व्याकरणविभागे त्रयः श्लोकाः ।
धीमद्व्याकरणं द्वेधा कालपुद्गलभेदतः ।
बोधौ व्याकरणे चैव महाच्चान्यदुदाहृतं

19.36

नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः ।
एकीभावगमत्वाच्च सर्वबुद्धजिनात्मजैः

19.37

क्षेत्रेण नाम्ना कालेन कल्पनाम्ना च तत्पुनः ।
परिवारानुवृत्त्या च सद्धर्मस्य तदिष्यते

19.38

तत्र पुद्गलभेदेन व्याकरणं गोत्रस्थोत्पादितचित्तसंमुखासमक्षपुद्गलव्याकरणात् । कालभेदेन परिमितापरिमितकालव्याकरणात् । पुनर्बोधौ व्याकरणं भवति । व्याकरणे वा एवंनामा तथागत एवममुष्मिन्काले व्याकरिष्यतीति । अन्यत्पुनर्महाव्याकरणं यदष्टम्यां भूमावनुत्पत्तिकधर्मक्षान्तिलाभतः । अहं बुद्धो भविष्यामीति मानप्रहाणतः । सर्वनिमित्त[आ?]भोगप्रहाणतः । सर्वबुद्धबोधिसत्वै[त्व]श्च सार्धमेकीभावोपगमनतः । तदात्मसंतानभेदादर्शनात् । पुनः क्षेत्रादिभिर्व्याकरणमीदृशे बुद्धक्षेत्रे एवंनामा इयता कालेन बुद्धो भविष्यति । एवंनामके कल्पे ईदृशश्चास्य परिवारो भविष्यति । एतावदन्तरं कालमस्य सद्धर्मानुवृत्तिर्भविष्यतीति ।
नियतिपातविभागे श्लोकः षट्पादः ।
संपत्त्युत्पत्तिनैयम्यपातो ऽखेदे च धीमतां ।
भावनायाश्च सातत्ये समाधानाच्युतावपि ।
कृत्यसिद्धावनाभोगे क्षान्तिलाभे च सर्वथा

19.39

षट्पारमिताधिकारेण षड्विधो नियतिपात एष निर्दिष्टः । संपत्तिनियतिपातो नित्यमुदारभोगसंपत्तिलाभात् । उपपत्तिनियतिपातो नित्यं यथेष्टोपपत्तिपरिग्रहात् । अखेदनियतिपातो न्( म्स_बग्छि 160 ) इत्यं संसारदुःखैरखेदात् । भावनासातत्यनियतिपातो नित्यं भावनासातत्यात् । समाधानाच्युतौ कृत्यसिद्धौ च नियतिपातो नित्यं समाध्यपरिहाणितः सत्त्वकृत्यसाधनतश्च । अनाभोगानुत्पत्तिकधर्मक्षान्तिलाभे नियतिपातश्च नित्यमनाभोगनिर्विकल्पज्ञानविहारात् ।
अवश्यकरणीयविभागे श्लोकः षट्पादः ।
पूजा शिक्षासमादानं करुणा शुभभावना ।
अप्रमादस्तथारण्ये श्रुतार्थातृप्तिरेव च ।
सर्वभूमिषु धीराणामवश्यकरणीयता

19.40

षट्पारमिता अधिकृत्येयं षड्विधावश्यकरणीयता गतार्थः श्लोकः ।
सातत्यकरणीयविभागे द्वौ श्लोकौ ।
कामेष्वादीनवज्ञानं स्खलितेषु निरीक्षणा ।
दुःखाधिवासना चैव कुशलस्य च भावना

19.41

अनास्वादः सुखे चैव निमित्तानामकल्पना ।
सातत्यकरणीयं ही धीमतां सर्वभूमिषु

19.42

षट्पारमितापरिनिष्पादनार्थं षट् सातत्यकरणीयानि । गतार्थौ श्लोकौ । प्रधानवस्तुविभागे श्लोकः षट्पादः ।
धर्मदानं शीलशुद्धिर्नोत्पत्तिक्षान्तिरेव च ।
वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः ।
प्रज्ञा पारमितानां च प्रधानं धीमतां मतम्

19.43

षट्सु पारमितास्वेतत् षड्विधं प्रधानं । तत्र शीलविशुद्धिरार्यकान्तं शीलम् । अन्त्या सकरुणा स्थितिश्चतुर्थं ध्यानं करुणाप्रमाणयुक्तं । शेषं गतार्थम् ।
प्रज्ञप्तिव्यवस्थानविभागे चत्वारः श्लोकाः ।
विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः ।
ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु

19.44

पुनः सत्यव्यवस्थानं सप्तधा तथताश्रयात् ।
चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः

19.45

योनिशश्च मनस्कारः सम्यग्दृष्टिः फलान्विता ।
प्रमाणैर्विचयो ऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम्

19.46

आशयाद्देशनाच्चैव प्रयोगात्संभृतेरपि ।
समुदागमभेदाच्च त्रिविधं यानमिष्यते

19.47

चतुर्विधं प्रज्ञप्तिव्यवस्थानं । धर्मसत्ययुक्तियानप्रज्ञप्तिव्यवस्थानभेदात् । तत्र पञ्चविद्यास्थानव्यवस्थानं धर्मव्यवस्थानं वेदितव्यं सूत्रगेयादिभिराकारभेदैः । तदन्तर्भूतान्येव हि तदन्यानि विद्यास्थानानि महायाने बोधिसत्त्वेभ्यो देश्यन्ते । सत्यव्यवस्थानं तु सप्तविधां तथतामाश्रित्य प्रवृत्तितथतां लक्षणतथतां विज्ञप्तितथतां संनिवेशतथतां मिथ्याप्रतिपत्तितथतां [विशुद्धितथतां?]सम्यक्प्रतिपत्तितथतां च । युक्तिप्रज्ञप्तिव्यवस्थानं चतुर्विधम् । अपेक्षायुक्तिः । कार्यकारणयुक्तिः । उपपत्तिसाधनयुक्तिः । धर्मतायुक्तिश्च । यानप्रज्ञप्तिव्यवस्थानं त्रिविधं । श्रावकयानं । प्रत्येकबुद्धयानं । महायानं च । तत्रापेक्षायुक्तिस्त्रिष्वपि यानेषु योनिशोमनस्कारः । तमपेक्ष्य तेन प्रत्ययेन लोकोत्तरायाः सम्यग्दृष्टेरुत्पादात् । कार्यकारणयुक्तिः सम्यग्दृष्टिः सफला । उपपत्तिसाधनयुक्तिः प्रत्यक्षादिभिः प्रमाणैः परीक्षा । धर्मतायुक्तिरचिन्त्यं स्थानं । सिद्धा हि धर्मता न पुनश्चिन्त्या । कस्माद्- योनिशोमनस्कारात् सम्यग्दृष्टिर्भवति । ततो वा क्लेशप्रहाणं फलमित्येवमादि । यानत्रयव्यवस्थानं पञ्चभिराका रैर्वेदितव्यं । आशयतो देशनातः प्रयोगतः संभारतः समुदागमतश्च । तत्र हीनामाशयदेशनाप्रयोगसंभारसमुदागमाः श्रावकयानं मध्याः प्रत्येकबुद्धयानमुत्तमा महायानं । यथाशयं हि यथाभिप्रायं धर्मदेशनाभिभवति । यथा देशनं तथा प्रयोगः । यथाप्रयोगं संभारः । यथासंभारं च बोधिसमुदागम इति ।
पर्येषणाविभागे श्लोकः ।
आगन्तुकत्वपर्येषा अन्योन्यं नामवस्तुनोः ।
प्रज्ञप्तेर्द्विविधस्यात्र तन्मात्रत्वस्य वैषणा

19.48

चतुर्विधा पर्येषणा धर्माणां । नामपर्येषणा वस्तुपर्येषणा । स्वभावप्रज्ञप्तिपर्येषणा । विशेषप्रज्ञप्तिपर्येषणा च । तत्र नाम्नो वस्तुन्यागन्तुकत्वपर्येषणा नामपर्येषणा वेदितव्या । वस्तूनो नाम्न्यागन्तुकत्वपर्येषणा वस्तुपर्येषणा वेदितव्या । तदुभयाभिसंबन्धे स्वभावविशेषप्रज्ञप्त्योः प्रज्ञप्तिमात्रत्वपर्येषणा स्वभावविशेषप्रज्ञप्तिपर्येषणा वेदितव्या ।
यथाभूतपरिहार[ज्ञान]विभागे दश श्लोकाः ।
सर्वस्यानुपलम्भाच्च भूतज्ञानं चतुर्विधं ।
सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते

19.49

चतुर्विधं यथाभूतपरिज्ञानं धर्माणां नामपर्येषणागतं । वस्तुपर्येषणागतं । स्वभावप्रज्ञप्तिपर्येषणागतं । विशेषप्रज्ञप्तिपर्येषणागतं च । तच्च सर्वस्यास्य नामादिकस्यानुपलम्भाद्वेदितव्यं । उत्तरार्धेन यथाभूतपरिज्ञानस्य कर्मणां महात्म्यं दर्शयति ।
प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि ।
साश्रयाश्चित्तचैत्तास्तु बध्यन्ते ऽत्र सबीजकाः

19.50

तत्र प्रतिष्ठानिमित्तं भाजनलोकः । भोगनिमित्तं पञ्च रूपादयो विषयाः । बीजनिमित्तं यत्तेषां बीजमालयविज्ञानं । यत्र[अत्र]त्रिविधे निमित्ते साश्रयाश्चित्तचैत्ता वध्यन्ते । यच्च तेषां बीजमालयविज्ञानम् । आश्रयाः पुनश्चक्षुरादयो वेदितव्याः ।
पुरतः स्थापितं यच्च निमित्तं यत्स्थितं स्वयं ।
सर्वं विभावयन्धीमान् लभते बोधिमुत्तमाम्

19.51

तत्र पुरतः स्थापितं निमित्तं यच्छ्रुतचिन्ताभावनाप्रयोगेनालम्बनीकृतं परिकल्पितं । स्थितं स्वयमेव यत्प्रकृत्यालम्बनीभूतमयत्नपरिकल्पितं । तस्य विभावनाधि[वि]गमो ऽनालम्बनीभावः । अकल्पना तदुपायो निमित्तप्रतिपक्षः । तच्चोभयं क्रमाद्भवति । पूर्वं हि स्थापितस्य पश्चात् स्वयंस्थितस्य । तत्र चतुर्विपर्यासानुगतं पुद्गलनिमित्तं विभावयन्योगी श्रावकबोधिं प्रत्येकबोधिं वा लभते । सर्वधर्मनिमित्तं विभावयन् महाबोधिम् । एतेन यथा तत्त्वं परिज्ञाय मोक्षाय संवर्तते यथाभूतं परिज्ञानं । तत्परिदीपितम् ।
तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितं ।
दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम्

19.52

एतेन यथास्वभावत्रयपरिज्ञानात् परतन्त्रस्वभावक्षयाय संवर्तते । तत्परिदीपितं । तथतालम्बनत्वेन परिनिष्पन्नं स्वभावं परिज्ञाय । द्वयग्राहविवर्जितत्वेन कल्पितं । दौष्ठुल्यकायप्रत्यक्षत्वेन परतन्त्रं । तस्यैव क्षयाय संवर्तते दौष्ठुल्यकायस्यालयविज्ञानस्य तत्क्षयार्थं तत्क्षये ।
तथतालम्बनं ज्ञानमनानाकारभावितं ।
सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते

19.53

अनानाकारभावितं निमित्ततथतयोरनानात्वदर्शनात् । एतेन श्रावकानिमित्ताद्वोधिसत्त्वानिमित्तस्य विशेषः परिदीपितः । ते हि निमित्तानिमित्तयोर्नानात्वं पश्यन्तु । ( म्स_बग्छि 163 ) सर्वनिमित्तानाममनसिकारादनिमित्तस्य च धातोर्मनसिकारादनिमित्तं समापद्यन्ते । बोधिसत्त्वास्तु तथताव्यतिरेकेण निमित्तपश्यन्तो निमित्तमेवानिमित्तं पश्यन्त्यतस्तेषां तज्ज्ञानमनानाकारभावितं । सत्तार्थे च तथतायामसत्तार्थे च निमित्ते प्रत्यक्षं विकल्पविभु चोच्यते । विकल्पविभुत्वलाभाद्यथाविकल्पं सर्वार्थसमृद्धितः ।
तत्त्वं संच्छाद्य बालानामतत्त्वं ख्याति सर्वतः ।
तत्त्वं तु बोधिसत्त्वानां सर्वतः ख्यात्यपास्य तत्

19.54

एतेन यथा बालानां स्वरसेनातत्त्वमेव ख्याति निमित्तं न तत्त्वं तथता । एवं बोधिसत्त्वानां स्वरसेन तत्त्वमेव ख्याति नातत्वमित्युपदर्शितम् ।
अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः ।
आश्रयस्य परावृत्तिर्मोक्षो ऽसौ कामचारतः

19.55

असदर्थस्य निमित्तस्याख्यानता सदर्थस्य तथतायाः ख्यानता आश्रयपरावृत्तिर्वेदितव्या । तया हि तदख्यानं ख्यानं च । सैव च मोक्षो वेदितव्यः । किं कारणं । कामचारतः । तदा हि स्वतन्त्रो भवति स्वचित्तवशवर्ती प्रकृत्यैव निमित्तासमुदाचारात् ।
अन्योन्यं तुल्यजातीयः ख्यात्यर्थः सर्वतो महान् ।
अन्तरायकरस्तस्मात्परिज्ञायैनमुत्सृजेत्

19.56

इदं क्षेत्रपरिशोधनो[नौ]पाये[य]यथाभूतपरिज्ञानं । भाजनलोका[को ऽ]र्थो महानन्योन्यो वर्तमानस्तुल्यजातीयः ख्याति स एवायमिति । स चैवं ख्यानादन्तरायकरो भवति बुद्धक्षेत्रपरिशुद्धये । तस्मादन्तरायकरं परिज्ञायैनमुत्सृजेदेवं ख्यातं ।
अप्रमेयविभागे श्लोकः ।
परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने ।
सम्यक्त्वदेशनावस्तु अप्रमेयं हि धीमताम्

19.57

पञ्चविधं हि वस्तु बोधिसत्त्वानामप्रमेयं । परिपाच्यं वस्तु सत्त्वधातुरविशेषेण विशोध्यं लोकधातुर्भाजनलोकसंगृहीतः । प्राप्यं धर्मधातुः । परिपाचनयोग्यं विनेयधातुः । सम्यग्देशनावस्तु विनयोपायधातुः ।
देशनाफलविभागे द्वौ श्लोकौ ।
बोधिसत्त्व[चित्त]स्य चोत्पादो नोत्पादक्षान्तिरेव च ।
चक्षुश्च निर्मलं हीनमाश्रवक्षय एव च

19.58

सद्धर्मस्य स्थितिर्दीर्घा व्युत्पत्तिच्छित्तिभोगता ।
देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः

19.59

देशनायां प्रयुक्तस्य बोधिसत्त्वस्याष्टविधं देशनायाः फलं वेदितव्यं । श्रोतृषु केचिद्बोधिचित्तमुत्पादयन्ति । केचिदनुत्पत्तिकधर्मक्षान्तिं प्रतिलभन्ते । केचिद्विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पादयन्ति हीनयानसंगृहीतं । केच्चिदाश्रवक्षयं प्राप्नुवन्ति । सद्धर्मश्च चिरस्थितिको भवति परंपराधारणतया । अव्युत्पन्नानामर्थव्युत्पत्तिर्भवति । संशयितानां संशयच्छेदो भवति । विनिश्चितानां सद्धर्मसंभोगो भवति अनवद्यो प्रीतिरसः ।
महायानमहत्त्वविभागे द्वौ श्लोकौ ।
आलम्बनमहत्वं च प्रतिपत्तेर्द्वयोस्तथा ।
ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च

19.60

उदागममहत्त्वं च महत्त्वं बुद्धकर्मणः ।
एतन्महत्त्वयोगाद्धि महायानं निरुच्यते

19.61

सप्तविधमहत्त्वयोगान्महायानमित्युच्यते । आलम्बनमहत्त्वेनाप्रमाणविस्तीर्णसूत्रादिधर्मयोगात् । प्रतिपत्तिमहत्त्वेन द्वयोः प्रतिपत्तेः स्वार्थे परार्थे च । ज्ञानमहत्त्वतो द्वयोर्ज्ञानात्पुद्गलनैरात्म्यस्य धर्मनैरात्म्यस्य च प्रतिवेधकाले । वीर्यारम्भमहत्त्वेन त्रीणि कल्पासंख्येयानि सातत्यसत्कृत्यप्रयोगात् । उपायकौशल्यमहत्त्वेन संसारापरित्यागासंक्लेशतः । समुदागममहत्त्वेन बलवैशारद्यावेणिकबुद्धधर्मसमुदागमात् । बुद्धकर्ममहत्त्वेन च पुनः पुनरभिसंबोधिमहापरिनिर्वाणसंदर्शनतः ।
महायानसंग्रहविभागे द्वौ श्लोकौ ।
गोत्रं धर्माधिमुक्तिश्च चित्तस्योत्पादना तथा ।
दानादिप्रतिपत्तिश्च न्याया[मा]वक्रान्तिरेव च

19.62

सत्त्वानां परिपाकश्च क्षेत्रस्य च विशोधना ।
अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात्[दर्शना]

19.63

एतेन दशविधेन वस्तुन कृत्स्नं महायानं संगृहीतं । तत्र सत्वानां परिपाचनं भूमिप्रतिष्ठ[प्रविष्ट]स्य यावत्सप्तम्यां भूमौ वेदितव्यं । क्षेत्रपरिशोधनमप्रतिष्ठितनिर्वाणं चाविनिवर्तनीयायां भूमौ त्रिविधायां । श्रेष्ठा बोधिर्बुद्धभूमौ । तत्रैव चाभिसंबोधिमहापरिनिर्वाणसंदर्शना वेदितव्या । शेषं गतार्थम् ।
बोधिसत्त्वविभागे दश श्लोकाः ।
आधिमोक्षिक एकश्च शुद्धाध्याशयिको ऽपरः ।
निमित्ते चानिमित्ते च चार्यप्यनभिसंस्कृते ।
बोधिसत्त्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु

19.64

तत्र निमित्तचारी द्वितीयां भूमिमुपादाय यावत् षष्ठयां । अनिमित्तचारी सप्तम्याम् । अनभिसंस्कारचारी परेण । शेषं गतार्थम् ।
कामेष्वसक्तस्त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश्च ।
धर्मे ऽचलस्तत्त्वगभीरदृष्टिर्बोधौ स्पृहावान् खलु बोधिसत्त्वः

19.65

एतेन षट्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश्च बोधिसत्त्वलक्षणं परिदीपितम् ।
अनुग्रहेच्छो ऽनुपघातदृष्टिः परोपघातेष्वधिवासकश्च ।
धीरो ऽप्रमत्तश्च बहुश्रुतश्च परार्थयुक्तः खलु बोधिसत्त्वः

19.66

तत्र धीर आरब्धवीर्यो दुःखैरविषादात् । अप्रमत्तो ध्यानसुखेष्वसक्तः । शेषं गतार्थम् ।
आदीनवज्ञः स्वपरिग्रहेषु भोगेष्वसक्तो ह्यनिगूढवैरः ।
योगी निमित्ते कुशलो ऽकुदृष्टिरध्यात्मसंस्थः खलु बोधिसत्त्वः

19.67

तत्र भोगेष्वसक्तो यस्तान्विहाय प्रव्रजति । निमित्तकुशलः शमथादिनिमित्तत्रयकौशल्यात् । अध्यात्मसंस्थो महायानाविकम्पनात् । महायानं हि बोधिसत्त्वानामध्यात्मं । शेषं गतार्थम् ।
दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात्स्वसुखेष्वसक्तः ।
स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्त्वः

19.68

तत्र स्मृतिप्रधानो ध्यानवान् स्मृतिबलेन चित्तसमाधानात् । सुसमाहितात्मा निर्विकल्पज्ञानः । शेषं गतार्थम् ।
दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः ।
दुःखाद्विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्त्वः

19.69

तत्र दुःखाद्विमुक्तो ध्यानवान् कामधातुवैराग्याद् दुःखदुःखतामोक्षतः । दुःखाभ्युपेतः संसाराभ्युपगमात् । शेषं गतार्थम् ।
धर्मेरतो ऽधर्मरतः [धर्मे ऽरतो ऽधर्मरतः] प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः ।
धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्त्वः

19.70

अत्र धर्मे जुगुप्सी अक्षान्तिजुगुप्सनात् । धर्मे वशी समापत्तौ । धर्मप्रधानो महाबोधिपरमः । धर्म एवात्र धरम उक्तो वृत्तानुवृत्त्या । शेषं गतार्थम् ।
भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः ।
सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्त्वः

19.71

रत्र रक्षाप्रमत्तः क्षान्तिमान् स्वपरचित्तानुरक्षणात् । धर्माप्रमत्तो यथाभूतधर्मप्रज्ञानात् । शेषं गतार्थम् ।
विमानलज्जास्तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः ।
विशाल[विसार]लज्जस्तुनदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्त्वः

19.72

तत्र विमानलज्जो यो ऽर्थिनो न विमानयति । तनुदोषलज्जो ऽणुमात्रेष्ववद्येषु भयदर्शी तनुदृष्टिलज्जो धर्म नैरात्म्यप्रतिवेधी । शेषं गतार्थं । सर्वैरेभिः श्लोकैः पर्यायान्तरेण षट्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश्च बोधिसत्त्वलक्षणं परिदीपितम् ।
इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः ।
शमोप[समौप]देशेन महाफलेन अनुग्रहे वर्तति बोधिसत्त्वः

19.73

इहैव सत्त्वानामनुग्रहे वर्तते दानेन । अमुत्र शीलेनोपपत्तिविशेषं प्राप्य । संस्कारयोगेनेति वीर्ययोगेन । महाफलेनेति बुद्धत्वेन । शेषं गतार्थम् । एतेन षड्भिः पारमिताभिर्महाबोधिप्रणिधानेन च यथा सत्त्वानुग्रहे बोधिसत्त्वो वर्तते तत्परिदीपितम् ।
बोधिसत्त्वसामान्यनामविभागे अष्टौ श्लोकाः ।
बोधिसत्त्वो महासत्त्वो धीमांश्चैवोत्तमध्युतिः ।
जिनपुत्रो जिनाधारो विजेताथ जिनाङ्कुरः

19.74

विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः ।
कृपालुश्च महापुण्य ईश्वरो धार्मिकस्तथा

19.75

एतानि षोडश सर्वबोधिसत्त्वानामन्वर्थनामानि सामान्येन ।
सुतत्त्वबोधैः सुमहार्थबोधैः सर्वाव[र्थ]बोधैरपि नित्यबोधैः ।
उपायबोधैश्च विशेषणेन तेनोच्यते हेतुन बोधिसत्त्वः

19.76

पञ्चविधेन बोधविशेषेण बोधिसत्त्व इत्युच्यते । पुद्गलधर्म नैरात्म्यबोधेन । सर्वाकारसर्वार्थबोधेन अक्षयावबोधेन परिनिर्वाणसंदर्शने ऽपि । यथा विनेयं च विनयोपायबोधेन ।
आत्मानुबोधात्तनुदृष्टिबोधाद्विचित्रविज्ञप्तिविबोधतश्च ।
सर्वस्य चाभूतविकल्पबोधात्तेनोच्यते हेतुन बोधिसत्त्वः

19.77

अत्र पुनश्चतुर्विधबोधविशेषं दर्शयति चित्तमनोविज्ञानबोधतः । तेषां चाभूतपरिकल्पत्वावबोधतः । तत्र चित्तमालयविज्ञानं । मनस्तदालम्बनमात्मदृष्ट्यादिसंप्रयुक्तं । विज्ञानं षड्विज्ञानकायाः ।
अबोधबोधादनुबोधबोधादभावबोधात्प्रभवानुबोधात् ।
अबोधबोधप्रतिबोधतश्च तेनोच्यते हेतुन बोधिसत्त्वः

19.78

अत्र पुनः पञ्चविधं बोधविशेषं दर्शयति । अविद्याबोधात् । विद्याबोधात् । परिकल्पितादिस्वभावत्रयबोधाच्च । तत्राबोधत्वेन बोधप्रतिबोधात् परिनिष्पन्नस्वभावबोधो वेदितव्यः ।
अनर्थबोधात्परमार्थबोधात्सर्वाव[र्थ]बोधात्सकलार्थबोधात् ।
बोद्धव्यबोधाश्रयबोधबोधात्तेनोच्यते हेतुन बोधिसत्त्वः

19.79

अत्र पञ्चविधं बोधविशेषं दर्शयति । परतन्त्रलक्षणबोधात् । परिनिष्पन्नलक्षणबोधात् । [परिकल्पितलक्षणबोधात्?] सर्वज्ञेयसर्वाकारबोधात् । बोध्यबोधकबोधि[ध]त्रिमण्डलपरिशुद्धिबोधाच्च ।
निष्पन्नबोधात्पदबोधतश्च गर्भानुबोधात् क्रमदर्शनस्य ।
बोधाद्भृशं संशयहानिबोधात् तेनोच्यते हेतुन बोधिसत्त्वः

19.80

तत्र निष्पन्नबोधो बुद्धत्वं । पदबोधो येन तुषितभवने वसति । गर्भानुबोधो येन मातुः कुक्षिमवक्रामति । क्रमदर्शने बोधो येन गर्भान्निष्क्रमणं कामपरिभोगं प्रव्रज्यां दुष्करचर्यामभिसंबोधिं च दर्शयति । भृशं संशयहानिबोधो येन सर्वसंशयच्छेदाय सत्त्वानां धर्मचक्रं प्रवर्तयति ।
लाभी ह्यलाभी धीसंस्थितश्च बोद्धानुबोद्धा प्रतिदेशकश्च ।
निर्जल्पबुद्धिर्हतमानमानी ह्यपक्वसंपक्वमतिश्च धीमान्

मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc