महायानसूत्रालंकार · अध्याय 18
एतेन यथोक्तानां पूजासेवाप्रमाणानामनुक्रमं गुणं च समासेन संदर्शयति । महोपधिभिर्ध्रुवं सत्क्रिया[यया] चात्यर्थं पूजनान्महदुपधिध्रुवसत्क्रियाभिपूजी वेदितव्यः । सत्क्रिया पुनः सम्यक्प्रतिपत्तिर्वेदितव्या । एवं [लाभ?]सत्कारप्रतिपत्तिपूजी भवति । बहुगुणं मित्रं तदन्यैर्गुणैः । हितमनुकम्पकत्वेन वेदितव्यं । एति सर्वसिद्धिमिति स्वपरार्थसिद्धिं प्राप्नोतीति ।
॥ महायानसूत्रालंकारे पूजासेवाप्रमाणाधिकारः [सप्तदशः] समाप्तः ॥
अष्टादशो ऽधिकारः
लज्जाविभागे षोडशः श्लोकाः ।
लज्जा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन ।
हीनानवद्यविषया सत्त्वानां पाचिका धीरे
एतेन स्वभावसहायालम्बनकर्मसंपदा चतुर्विधं लक्षणं बोधिसत्त्वलज्जायाः संदर्शितं । हीनानवद्यविषया । श्रावकप्रत्येकबुद्धानां [यानं?] तद्वि[द्धि]हीनं च महायानादनवद्यं च । तेन च बोधिसत्त्वो लज्जते । कथं सत्त्वानां पाचिका । तस्यामेव लज्जा[यां] परप्रस्थापनात् ।
षण्णां पारमितानां विपक्षे वृद्ध्या बोधिसत्त्वानां ।
प्रतिपक्षे हानितश्चाप्यतीव संपद्यते लज्जा ।
इयं बोधिसत्त्वानां बृद्ध्या परिहानितश्च लज्जा [?] पारमिताविषक्षवृद्ध्या तत्प्रतिपक्षपरिहाण्या चात्यर्थं लज्जोत्पादनात् ।
षण्णां पारमितानां निषेवणालस्यतो भवति लज्जा ।
क्वेशानुकूलधर्मप्रयोगतश्चैव धीराणां
इयमप्रयोग[प्रयोग?]लज्जा पारमिताभावनायामप्रयोगेन । क्लेशानुकूलेषु धर्मेष्विन्द्रियागुप्तद्वारत्वादिषु च प्रयोगेन लज्जोत्पादनात् ।
असमाहितस्वभावा मृदुमध्या हीनभूमिका लज्जा ।
हीनाशया समाना हीना हि तदन्यथा त्वधिका
इयं मृद्वधिमात्रा लज्जा । पूर्वनिर्देशानुसारेणास्य श्लोकस्यार्थो ऽनुगन्तव्यः । अतः परं चतुर्भिस्त्रिभिश्च श्लोकैर्यथाक्रमं लज्जाविपक्षे लज्जायां च दोषगुणभेदं दर्शयति ।
लज्जारहितो धीमान् क्लेशानधिवासयत्ययोनिशतः ।
प्रतिघोपेक्षामानः सत्त्वानुपहन्ति शीलं च
इत्यत्र आत्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधाय चेति संदर्शितम् । अयोनिशत इत्ययोनिशो मनस्कारेण । कथमुपेक्षया सत्त्वानुपहन्ति । सत्त्वार्थप्रमादतः ।
कौकृत्यात्सविलेखो भवति स संमानहानिमाप्नोति ।
श्राद्धात्मा[मा]नुषसंघाच्छास्रा चोपेक्ष्यते तस्मात्
सहधार्मि कैर्जिनसुतैर्विनिन्द्यते लोकतो ऽयशो लभते ।
दृष्टे धर्मे
इत्यनेन दृष्टधार्मिकमवद्यं प्रसवतीति दर्शितं । यथाक्रममात्मपरदेवताशास्तृभिरपवदनात् । विज्ञैः सब्रह्मचारिभिर्धर्मतया विगर्हणात् । दिग्विदिक्षु च पापकावर्णनिश्चरणात् ।
ऽन्यत्र क्षणरहितो जायते भूयः
इत्यनेन सांपरायिकमवद्यं प्रसवतीति संदर्शितमक्षणेषूपपत्तेः ।
प्राप्ताप्राप्तविहानिं शुक्लैर्धर्मैः समाप्नुते तेन ।
इत्यनेन दृष्टधर्मसांपरायिकमवद्यं प्रसवतीति संदर्शितं । प्राप्तकुशलधर्मपरिहाणितः । अप्राप्तपरिहाणितश्च यथाक्रमम् ।
दुःखं विहरति तस्मान्मनसो ऽप्यस्वस्थतामेति
इत्यनेन तज्जं चैतसिकं दुःखं दौर्मनस्यं प्रतिसंवेदयत इति संदर्शितम् ।
एते सर्वे दोषा हीमत्सु भवन्ति नो जिनसुतेषु ।
इत्यत उपादाय लज्जागुणो वेदितव्यः । यदेते च दोषा न भवन्ति ।
देवेषु च मनुजेषु च नित्यं संजायते च बुधः
इत्येतदस्य विपाकफलं भवति ।
संभारांश्च स बोधेः क्षिप्रं पूरयति लज्जया धीमान् ।
इत्येतदधिपतिफलं ।
सत्त्वानां पाचनया न खिद्यते चैव जिनपुत्रः
इत्येतत्पुरुषकारफलम् ।
स विपक्षप्रतिपक्षै रहितो ऽरहितश्च जायते सततं ।
इत्येते विसंयोगनिष्पन्दफले । यदुत विपक्षरहितत्वं प्रतिपक्षारहितत्वं च ।
इत्येतमानुशंसं हीमानाप्नोति जिनपुत्रः
इति यथोक्तदोषाभावं गुणयोगं च प्राप्नोतीति संदर्शितम् ।
दोषमलिनो हि बालो हीविरहात्सुवसनैः सुगुप्तो ऽपि ।
निर्वसनो ऽपि जिनसुतो ह्रीवसनो मुक्तदोषमलः
एतेन वस्रविशेषणं ह्रियः । तदन्यवस्रप्रावृतस्यापि ह्रीरहितस्य दोषमलिनत्वात् । नग्नस्यापि न ह्रीमतो निर्मलत्वात् । आकाशमिव न लिप्तो ह्रीयुक्तो जिनसुतो भवति धर्मैः । धर्मैरिति लोकधर्मैः ।
हीभूषितश्च शोभति संपर्कगतो जिनसुतानाम्
एतेन श्लोकेन ह्रिय आकाशभूषणसमतां दर्शयति ।
मातुरिव वत्सलत्वं ह्रियो विनेयेषु बोधिसत्वानां ।
त्रातव्यसत्त्वोपेक्षाया लज्जनात् ।
आरक्षा चापि ह्रीः संसरतां सर्वदोषेभ्यः
हस्त्यश्वकायादिभूतत्वात् । एभिर्वस्त्रादिदृष्टान्तैर्विहारे क्लेशप्रतिपक्षतां चारे लोकधर्मप्रतिपक्षतां । सहधार्मिकसंवासानुकूलतां । सत्त्वापरिपाकानुकूलताम् । अक्लिष्टसंसारानुकूलतां च ह्रियो दर्शयति ।
सर्वेषु नाधिवासा सर्वेष्वधिवासनाप्रवृत्तिश्च ।
सर्वेषु च प्रवृत्तिर्ह्रीविहितं हीमतो लिङ्गम्
एतेन चतुर्विधं ह्रीकृतं लिङ्गं हीमतो दर्शयति । यदुत सर्वदोषेष्वनधिवासना चाप्रवृत्तिश्च । सर्वगुणेष्वधिवासना च प्रवृत्तिश्च ।
ह्रीभावना प्रधाना स्वचित्ततो धर्मतो ऽधिमोक्षाच्च ।
आशयतो ऽपि विभुत्वादकल्पनादैक्यतश्चापि
इत्यस्य निर्देशो यथापूर्वं ।
धृतिविभागे सप्त श्लोकाः ।
धृतिश्च बोधिसत्त्वानां लक्षणेन प्रभेदतः ।
दृढत्वेन स सर्वेभ्यस्तदन्येभ्यो विशिष्यते
वीर्यं समाधिः प्रज्ञा च सत्त्वं धैर्यं धृतिर्मता ।
निर्भीतो बोधिसत्त्वो हि त्रयाद्यस्मात्प्रवर्तते
एतेन धृतिलक्षणं सपर्यायं ससाधनं चोक्तं । वीर्यादिकं लक्षणं सत्त्वादिकं पर्यायः । शेषं साधनं । कतमस्मात्त्रयान्निर्भीतः प्रवर्तत इत्याह ।
लीनत्वाच्च चलत्वाच्च मोहाच्चोत्पद्यते भयं ।
कृत्येषु तस्माद्विज्ञेया धृतिसंज्ञा निजे त्रये
सर्वकार्येषु हि लीनचित्ततया वा भयमुत्पद्यते तदनुत्साहतः । चलचित्ततया वा चित्तानवस्थानतः । संमोहतो वा तदुपायज्ञानतः । तत्प्रतिपक्षाश्च यथाक्रमं वीर्यादयः । तस्मान्निजवीर्यादित्रये धृतिसंज्ञा वेदितव्या निज इत्यप्रतिसंख्यानकरणीये ।
प्रकृत्या प्रणिधाने च निरपेक्षत्व एव च ।
सत्त्वविप्रतिपत्तौ च गम्भीर्यौदार्यसंश्रवे
विनेयदुर्विनयत्वे कायाचिन्त्ये जिनस्य च ।
दुष्करेषु विचित्रेषु संसारात्याग एव च
निःसंक्लेशे च तत्रैव धृतिर्धीरस्य जायते ।
असमा च तदन्येभ्यः सो ऽग्रे धृतिमतां यतः[मतः]
एभिस्त्रिभिः श्लौकैर्धृतिप्रभेदः दर्शयति । यथाक्रमं गोत्रतः । चित्तोत्पादतः । स्वार्थतः । सत्वार्थतः [परार्थतः । तत्वार्थतः ।] प्रभावतः । सत्वपरिपाचनतः । परमबोधितश्च । तत्र निरपेक्षत्वं स्वार्थप्रयुक्तस्य कायजीवितनिरपेक्षत्वाद्वेदितव्यं । पुनर्दुष्करचर्यातः । संचिन्त्यभवोपपत्तितः । तदसंक्लेशतो ऽपि प्रभेदः ।
कुमित्रदुःखगम्भीरश्रवाद्वीरो न कम्पते ।
शलभैः पक्षवातैश्च समुद्रैश्च सुमेरुवत्
एतेन बोधिसत्त्वधृतेर्दृढत्वं दर्शयति । उपमात्रयं त्रयेणाकम्पने[नं] यथाक्रमं वेदितव्यम् ।
अखेदविभागे द्वौ श्लौकौ ।
अखेदो बोधिसत्वानामसमस्त्रिषु वस्तुषु ।
श्रुतातृप्तिमहावीर्यदुःखे ह्रीधृतिनिश्रितः
तीव्रच्छन्दो महाबोधावखेदो धीमतां मतः ।
अनिष्पन्नश्च निष्पन्नः सुनिष्पन्नश्च भूमिषु
आभ्यां वस्तुतो निश्रयतः स्वभावतः प्रभेदतश्चाखेदो निर्दिष्टः । त्रिषु वस्तुषु । श्रुतातृप्तौ । दीर्घकालवीर्यारम्भे । संसारदुःखे च । ह्रियं धृतिं च निश्रित्य । ताभ्यां हि खेदोत्पत्तितो लज्जयते न चोत्पादयति । तीव्रच्छन्दो महाबोधाविति स्वभावः । छन्दे हि व्यावृत्ते खिन्नो भवति । अनिष्पन्नो ऽधिमुक्तिचर्याभूमौ । निष्पन्नः सप्तभूमिषु । सुनिष्पन्नः परेण इत्येष प्रभेदः ।
शास्त्रज्ञतायां द्वौ श्लोकौ ।
वस्तुना चाधिकारेण कर्मणा च विशिष्यते ।
लक्षणेनाक्षयत्वेन फलस्योदागमेन च
शास्त्रज्ञता हि धीराणां समाधिमुखधारणी ।
गृहीता सत्त्वपाकाय सद्धर्मस्य च धारणे
तत्र शास्त्रज्ञतायाः पञ्च विद्यास्थानानि वस्तु । अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च । स्वपरार्थक्रिया अधिकारः । कर्म प्रथमवस्तुनि ( म्स_बग्छि 132 ) स्वयं प्रतिपत्तिः परेभ्यश्च तत्समाख्यानं । द्वितीये तद्दोषपरिज्ञानं परवादिनिग्रहश्च । तृतीये स्वयं सुनिरूक्ताभिधानं परसंप्रत्ययश्च । चतुर्थे परेषां व्याधिशमनं । पञ्चमे परेभ्यस्तत्संविभागः । लक्षणं शास्त्रज्ञताया एतान्येव पञ्च वस्तूनि श्रुतानि भवन्ति । धृतानि । वचसा परिजितानि । मनसा अन्वीक्षितानि । दृष्ट्या सुप्रतिविद्धानि । श्रुत्वा यथाक्रमं तदुद्ग्रहणातः । स्वाध्यायतः । प्रसन्नेन मनसार्थचित्तनतो यथायोगं तद्दोषगुणावगमात् स्वाख्यातदुराख्यातावधारणतश्च । अक्षयत्वं निरुपधिशेषनिर्वाणे ऽप्यक्षयात् । फलसमुदागमः सर्वधर्मसर्वाकारज्ञता । सा पुनरेषा शास्रज्ञता बोधिसत्त्वानां समाधिमुखैर्धारणीमुखैश्च संगृहीता । सत्त्वपरिपाकाय च भवति । समाधिमुखैस्तत्कृत्यानुष्ठानात् । सद्धर्मपारणाय च धारणीभिस्तद्धारणात् ।
लोकज्ञतायां चत्वारः श्लोकाः ।
कायेन वचसा चैव सत्यज्ञानेन चासमा ।
लोकज्ञता हि धीराणां तदन्येभ्यो विशिष्यते
कथं कायेनेत्याह । कृतस्मितमुखा नित्यं । कथं वाचेत्याह । धीराः पूर्वाभिभाषिणः ।
सा पुनः किमर्थमित्याह । सत्त्वानां भाजनत्वाय ।
कस्मिन्नर्थे भाजनत्वाय । सद्धर्मप्रतिपत्तये
कथं सत्यज्ञानेनेत्याह ।
सत्यद्वयाद्यतश्चेष्टो लोकानामुदयो ऽसकृत् ।
द्वयादस्तंगमस्तस्मात् तज्ज्ञो लोकज्ञ उच्यते
द्वाभ्यां सत्याभ्यां लोकस्योदयः पुनः पुनः संसारो यश्चोदयो येन चेति कृत्वा । द्वाभ्यामस्तंगमो निरोधमार्गसत्याभ्यां । यश्चास्तंगमो येन चेति कृत्वा । तस्मात्तज्ज्ञो लोकज्ञ उच्यते । लोकस्योदयास्तंगामिन्या प्रज्ञया समन्वागतत्वात् ।
शमाय प्राप्तये तेषां धीमान् सत्येषु युज्यते ।
सत्यज्ञानद्यतो धीमान् लोकज्ञो हि निरुच्यते
अनेन लोकज्ञतायाः कर्म निर्दिष्टं । तत्र शमाय दुःखसमुदयसत्ययोः प्राप्तये निरोधमार्गसत्ययोः ।
प्रतिसरणविभागे त्रयः श्लोकाः
आर्षश्च देशनाधर्मो अर्थो ऽभिप्रायिको ऽस्य च ।
प्रामाणिकश्च नीतार्थो निर्जल्पा प्राप्तिरस्य च
इदं प्रतिसरणानां लक्षणं । तत्र प्रामाणिको ऽर्थो यः प्रमाणभूतेन नीतो विभक्तः शास्त्रा वा तत्प्रमाणीकृतेन वा । निर्जल्पा प्राप्तिरधिगमज्ञानं लोकोत्तरं । तस्यानभिलाप्यत्वात् । शेषं गतार्थम् ।
प्रतिक्षेप्तुर्यथोक्तस्य मिथ्यासंतीरितस्य च ।
साभिलाष[प]स्य च प्राप्तेः प्रतिषेधो ऽत्र देशितः
प्रथमे प्रतिसरणे आर्षधर्मप्रतिक्षेप्तुः पुद्नलस्य प्रतिषेधो देशितः । द्वितीये यथारुतार्थस्य व्यञ्जनस्य नाभिप्रायिकार्थेन । तृतीये मिथ्या चिन्तितार्थस्य विपरीतं नीयमानस्य । चतुर्थे साभिलाष[प]स्य ज्ञानस्य[आ]प्रत्यात्मवेदनीयस्य ।
अधिमुक्तेर्विचाराच्च यथावत्परतः श्रवात् ।
निर्जल्पादपि च ज्ञानादप्रणाशो हि धीमतां
अयं प्रतिसरणानुशंसः । प्रथमेन प्रतिसरणेनार्षधर्माधिमुक्तितो न प्रणश्यति । द्वितीयेन स्वयमाभिप्रायिकार्थविचारणात् । तृतीयेन परतस्तदविपरीतार्थनयश्रवात् । चतुर्थेन लोकोत्तरज्ञानात् ।
प्रतिसंविद्विभागे चत्वारः श्लोकाः ।
असमा बोधिसत्त्वानां चतस्रः प्रतिसंविदः ।
पर्याये लक्षणे वाक्ये ज्ञाने ज्ञानाच्च ता मताः
प्रथमा पर्याये ज्ञानमेकैकस्यार्थस्य यावन्तो नामपर्यायाः । द्वितीया लक्षणे यस्यार्थस्य तन्नाम । तृतीया वाक्ये प्रत्येकं जनपदेषु या भाषाः । चतुर्था ज्ञाने स्वयं यत्प्रतिभानम् । इदं प्रतिसंविदांलक्षणम् ।
देशनायां प्रयुक्तस्य यस्य येन च देशना ।
धर्मार्थयोर्द्वयोर्वाचा ज्ञानेनैव च देशना
धर्मस्योद्देशनिर्देशात्सर्वथा प्रापणाद् द्वयोः ।
परिज्ञाना[हाना]च्च चोद्यानां प्रतिसंविच्चतुष्टयम्
इति चतुष्ट्वे कारणं । देशनायां हि प्रयुक्तस्य यस्य च देशना येन च । तत्र ज्ञानेन प्रयोजनं । कस्य पुनर्देशना । धर्मस्यार्थस्य । केन देशना वचनेन ज्ञानेन च । तत्र धर्मार्थयोर्देशना । धर्मस्योद्देशनिर्देशात् । वाक्येन देशना तयोरेव द्वयोः सर्वथा प्रापणात् ।
ज्ञानेन देशना चोद्यानां परिहरणात् । अतो यच्च येन च देश्यते तज्ज्ञानात् चतस्रः प्रतिसंविदो व्यवस्थापिताः ।
प्रत्यात्मं समतामेत्य योत्तरत्र प्रवेदना ।
सर्वसंशयनाशाय प्रतिसंविन्निरुच्यते
एतेन प्रतिसंविदां निर्वचनं कर्म च दर्शितं । प्रत्यात्मं लोकोत्तरेण ज्ञानेन सर्वधर्मसमतां तथतामवेत्य उत्तरकालं तत्पृष्ठलब्धेन ज्ञानेन प्रवेदना पर्यायादीनां प्रतिसंविदिति निर्वचनं । सर्वसंशयनाशाय परेषामिति कर्म ।
संभारविभागे चत्वारः श्लोकाः ।
संभारो बोधिसत्त्वानां पुण्यज्ञानमयो ऽसमः ।
संसारे ऽभ्युदयायैकः अन्यो ऽसंक्लिष्टसंसृतौ
यश्च संभारो यदर्थं च तत्संदर्शितम् । द्विविधः संभारः । तत्र पुण्यसंभारः संसारे ऽभ्युदयाय संवर्तते । ज्ञानसंभारो ऽसंक्लिष्टसंसरणाय ।
दानं शीलं च पुण्यस्य प्रज्ञा ज्ञानस्य संभृतिः ।
त्रयं चान्यद्द्व्यस्यापि पञ्चापि ज्ञानसंभृतिः
एतेन पारमिताभिस्तदुभयसंभारसंग्रहं दर्शयति । क्षान्तिवीर्यध्यानबलेन ह्युभयं क्रियते । तस्माद्द्वयसंभारस्रयं भवति । पुनः प्रज्ञायां परिणामनात्सर्वाः पञ्च पारमिता ज्ञानसंभारो वेदितव्यः ।
संतत्या भावनामेत्य भूयो भूयः शुभस्य हि ।
आहारो यः स संभारो वी[धी]रे सर्वार्थसाधकः
एतत्संभारनिर्वचनं कर्म च । समिति संतत्या । भा इति भावनामागम्य । र इति भूयो भूय आहारः । सर्वार्थसाधक इति कर्म । स्वपरार्थयोः साधनात् ।
प्रवेशायानिमित्ताय अनाभोगाय संभृतिः ।
अभिषेकाय निष्ठायै धीराणामुपचीयते
अयं संभारप्रभेदः । तत्राधिमुक्तिचर्याभूमौ संभारो भूमिप्रवेशाय । षट्सु भूमिष्वनिमित्ताय सप्तमीभूमिसंगृहीताय । तस्यां निमित्त-[आ] समुदाचारात् । सप्तम्यां भूमावनाभोगाय तदन्यभूमिद्वयसंगृहीताया । तयोः संभारा[रो ऽ]भिषेकाय दशमीभूमिसंगृहीताय । तस्यां संभारो निष्ठागमनाय बुद्धभूमिसंगृहीताय ।
स्मृत्युपस्थानविभागे त्रयः श्लोकाः ।
चतुर्दशभिराकारैः स्मृत्युपस्थानभावना ।
धीमतामसमत्वात्सा तदन्येभ्यो विशिष्यते
कतमैश्चतुर्दशभिः ।
निश्रयात्प्रतिपक्षाच्च अवतारात्तथैव च ।
आलम्बनमनस्कारप्राप्तितश्च विशिष्यते
आनुकूल्यानुवृत्तिभ्यां परिज्ञोत्पत्तितो ऽपरा ।
मात्रया परमत्वेन भावनासमुदागमात्
इत्येभिश्चतुर्दशभिराकारैर्बोधिसत्वानां स्मृत्युपस्थानभावना विशिष्यते । कथमाश्रयतो महायाने श्रुतचिन्ताभावनामयीं प्रज्ञामाश्रित्य । कथं प्रतिपक्षतः चतुर्विपर्यासप्रतिपक्षाणामप्यशुचिदुःखानित्यानात्मसंज्ञानां प्रतिपक्षत्वात्कायादिधर्म नैरात्म्यप्रवेशतः । कथमवतारतः । चतुर्भिः स्मृत्युपस्थानैर्यथाक्रमं दुःखसमुदयनिरोधमार्गसत्यावतारात्स्वयं परेषां चावतारणात् । यथोक्तं मध्यान्तविभागे । कथमालम्बनतः सर्वसत्त्वकायाद्यालम्बनात् । कथं मनस्कारतः कायाद्यनुपलम्भात् । कथं प्राप्तितः कायादीनां न विसंयोगाय नाविसंयोगाय । कथमानुकूल्यतः पारमितानुकूल्येन तद्विपक्षप्रतिपक्षत्वात् । कथमनुवृत्तितः लौकिकानां श्रावकप्रत्येकबुद्धानां चानुवृत्त्या तदुपसंहितस्मृत्युपस्थानभावनात्तेभ्यस्तदुपदेशार्थं । कथं परिज्ञातः कायस्य मायोपमत्वपरिज्ञया तथैवाभूतरूपसंप्रख्यानात् । वेदनायाः स्वप्नोपमत्वपरिज्ञया तथैव मिथ्यानुभवात् । चित्तस्य प्रकृतिप्रभास्वरत्वपरिज्ञया आकाशवत् । धर्माणामागन्तुकत्वपरिज्ञया आकाशागन्तुरजोधूमाभ्रनीहारोपक्लेशवत् । कथमुत्पत्तितः संचित्यभवोपपत्तौ चक्रवर्त्यादिभूतस्य विशिष्टकायवेदनादिसंपत्तौ तदसंक्लेशतः । कथं मात्रातः मृद्वा अपि स्मृत्युपस्थानभावनायास्तदन्येभ्यो ऽधिमात्रत्वात् । प्रकृतितीक्ष्णेन्द्रियतया । कथं परमत्वेन परिनिष्पन्नानामनाभोगमिश्रोपमिश्रभावनात् । कथं भावनातः ( म्स_बग्छि 136 ) अत्यन्तं तद्भावनात् निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् । कथं समुदागमतः । दशसु भूमिषु बुद्धत्वे च समुदागमात् ।
सम्यक्प्रहाणविभागे पञ्च श्लोकाः ।
सम्यक्प्रहाणं धीराणामसमं सर्वदेहिभिः ।
स्मृत्युपस्थानदोष[आ]णां प्रतिपक्षेण भाव्यते
यावत्यः स्मृत्युपस्थानभावना उक्ताः तद्विपक्षाणां दोषाणां प्रतिपक्षेण सम्यक्प्रहाणभावनेति समस्तं सम्यक्प्रहाणलक्षणम् । प्रभेदेन पुनः ।
संसारस्योपभोगे च त्यागे निवरणस्य च ।
मनस्कारस्य च त्यागे प्रवेशे चैव भूमिषु
अनिमित्तविहारे च लब्धौ व्याकरणस्य च ।
सत्त्वानां परिपाके च अभिषेके च धीमतां
क्षेत्रस्य च विशुद्ध्यर्थं निष्ठागमन एव च ।
भाव्यते बोधिसत्त्वानां विपक्षप्रतिपक्षतः
अयं सम्यक्प्रहाणभावनाप्रभेदः । संसारस्यासंक्लिष्टपरिभोगे संपत्तिषु । पञ्चनिवारणत्यागे । श्रावकप्रत्येकबुद्धमनस्कारत्यागे । भूमिप्रवेशे । अनिमित्तविहारे सप्तम्यां भूमौ । व्याकरणलाभे अष्टम्यां । सत्त्वानां परिपाचने । नवम्यां । अभिषेके च दशम्यां । क्षेत्रविशुद्ध्यर्थं त्रये ऽपि । निष्ठागमने च बुद्धभूमौ । ये च विपक्षास्तेषां प्रतिपक्षेण सम्यक्प्रहाणभावना वेदितव्या । अयमस्याः प्रभेदः ।
छन्दं निश्रित्य योगस्य भावना सनिमित्तिका ।
सर्वसम्यक्प्रहाणेषु प्रतिपक्षो निरुच्यते
एतेन छन्दं जनयति । व्यायच्छते वीर्यमारभते । चित्तं प्रगृण्हाति । सम्यक् प्रदधातीति । एषां पदानामर्थनिर्देशः । छन्दं हि निश्रित्य शमथविपश्यनाख्यं योगं भावयतीति व्यायच्छते । सा च भावना शमथप्रग्रहोपेक्षानिमित्तैः सह भाव्यते । तस्मात्सा सनिमित्तिका । कथं च पुनर्भाव्यते । यच्छमथप्रग्रहोपक्लेशयोर्लयौद्धत्ययोः प्रतिपक्षेण वीर्यमारभते । कथमारभते । चित्तं प्रगृण्हाति प्रदधाति च । [तत्र प्रगृण्हातीतिप्रज्ञया । प्रदधातीति?] शमथे [न?] समप्राप्ते चो[प्तश्चो]पेक्षायां प्रदधाति । एषा योगभावना यथोक्तप्रभेदेषु सर्वसम्यक्प्रहाणेषु प्रतिपक्ष उच्यते ।
ऋद्धिपादविभागे पञ्च श्लोकाः ।
ऋद्धिपादाश्च चत्वारो धीराणामग्रलक्षणाः ।
सर्वार्थसिद्धौ जायन्ते आत्मनश्च परस्य च
सर्वार्थसिद्धिर्लौकिकी लोकोत्तरा च वेदितव्या । शेषं गतार्थम् ।
निश्रयाच्च प्रभेदाच्च उपायादभिनिर्हृतेः ।
व्यवस्था ऋद्धिपादानां धीमतां सर्वथेष्यते
अस्योद्देशस्य शेषो निर्देशः ।
ध्यानपारमिमाश्रित्य प्रभेदो हि चतुर्विधः ।
उपायश्चाभिनिर्हारः षड्विधश्च विधीयते
ध्यानपारमितानिश्रयः प्रभेदश्चतुर्विधश्छन्दवीर्यचित्तमीमांसासमाधिभेदात् । उपायश्चतुर्विध एव । अभिनिर्हारः षड्विधः । चतुर्विध उपायः कतमः ।
व्यावसायिक एकश्च द्वितियो ऽनुग्रहात्मकः ।
नैबन्धिकस्तृतीयश्च चतुर्थः प्रातिपक्षिकः
अष्टानां प्रहाणसंस्काराणां छन्दो व्यायामः श्रद्धा व्यावसायिकः उपायः । श्रद्दधानस्यार्थिनो व्यायामात् । प्रश्रब्धिरनुग्राहकः । स्मृतिः संप्रजन्यं चौपनिबन्धकः । एकेन चित्तस्यालम्बनाविसारात् । द्वितीयेन विसारप्रज्ञानात् । चेतना चोपेक्षा च प्रातिपक्षिक उपायः । लयौद्धत्योपक्लेशयोः क्लेशानां च प्रतिपक्षत्वात् । षड्विधो ऽभिनिर्हारः कतमः ।
दर्शनस्याववादस्य स्थितिविक्रीडितस्य च ।
प्रणिधेर्वशितायाश्च धर्मप्राप्तेश्च निर्हृतिः
तत्र दर्शनं चक्षुः पञ्चविधं मांसचक्षुः दीव्यं चक्षुः आर्यं प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुश्च । अववादः षडभिज्ञा यथाक्रमं । ताभिरुपसंक्रम्य भाषां चित्तं चागतिं च गतिं च विदित्वा निःसरणायाववदनात् । स्थितिविक्रिडितं यस्मात् बोधिसत्त्वानां बहुविधं निर्माणादिभिः समाधिविक्रीडितं । प्रणिधिर्येन प्रणिधिज्ञानेन प्रणिधानबलिका बोधिसत्त्वाः प्रणिधानवैशेषिकतया विक्रीडन्ति । येषां न सुकरं संख्या कर्तुं कायस्य वा प्रभाया वा स्वरस्य वेति विस्तरेण यथा दशभूमिके सूत्रे । वशिता यथा तत्रैव दश वशिता निर्दिष्टाः । धर्मप्राप्तिर्बलवैशारद्यावेणिकबुद्धधर्माणां प्राप्तिः । इत्येष दर्शनादीनामभिनिर्हारः षड्विधः ।
इन्द्रियविभागे श्लोकः ।
बोधिश्चर्या श्रुतं चात्र[ग्रं]शमथो ऽथ विपश्यना ।
श्रद्धादीनां पदं ज्ञेयमर्थसिद्ध्यधिकारतः
श्रद्धेन्द्रियस्य बोधिः पदमालम्बनमित्यर्थः । वीर्येन्द्रियस्य बोधिसत्त्वचर्या । स्मृतीन्द्रियस्य महायानसंगृहीतं श्रुतं । समाधीन्द्रियस्य शमथः । प्रज्ञेन्द्रियस्य विपश्यना पदं । तदर्थाधिकारेणैव चैतानि श्रद्धादीनि आधिपत्यार्थेनेन्द्रियाण्युच्यन्ते ।
बलविभागे श्लोकः ।
भूमिप्रवेशसंक्लिष्टाश्चेष्टाः श्रद्धादयः पुनः ।
विपक्षदुर्बलत्वेन त एव बलसंज्ञिताः
गतार्थः श्लोकः ।
बोध्यङ्गविभागे सप्त श्लोकाः ।
भूमिविष्टस्य बोध्यङ्गव्यवस्थानं विधीयते ।
धर्माणां सर्वसत्त्वानां समतावगमात्पुनः
एतेन यस्यामवस्थायां यस्यावबोधात् बोध्यङ्गानि व्यवस्थाप्यन्ते तदुपदिष्टं । भूमिप्रविष्टावस्थायां सर्वधर्माणां सर्वसत्त्वानां च समतावबोधाद्यथाक्रमं धर्मनैरात्म्येनात्मपरसमतया च । अतः परं चक्रादिसप्तरत्नसाधर्म्यं बोध्यङ्गानां दर्शयति ।
स्मृतिश्चरति सर्वत्र ज्ञेयाजितविनिर्जये ।
अजितज्ञेयविनिर्जयाय । यथा चक्रवर्तिनश्चक्ररत्नमजितदेशविनिर्जयाय ।
सर्वकल्पनिमित्तानां भङ्गाय विचयो ऽस्य च
यथा हस्तिरत्नं प्रत्यर्थिकभङ्गाय ।
आशु चाशेषबोधाय वीर्यमस्य प्रवर्तते ।
क्षिप्राभिज्ञतोत्पादनात् । यथाश्वरत्नमाशु समुद्रपर्यन्तमहापृथिवीगमनाय ।
धर्मालोकविवृद्ध्या च प्रीत्या आपूर्यते ध्रुवम्
आरब्धवीर्यस्य बोधिसत्त्वस्य धर्मालोका विवर्धन्ते । ततः प्रीतिः सर्वं कार्यं[यं] सदा प्रीणयति । यथा मणिरत्नमालोकविशेषेण चक्रवर्तिनं प्रीणयति ।
सर्वावरणनिर्मोक्षात् प्रश्रब्ध्या सुखमेति च ।
सर्वदौष्ठुल्यसमुत्पाद[ट]नात् । यथा स्त्रीरत्नेन चक्रवर्ती सुखमनुभवति ।
चिन्तितार्थसमृद्धिश्च समाधेरूपजायते
यथा चक्रवर्तिनो गृहपतिरत्नात् ।
उपेक्षया यथाकामं सर्वत्र विहरत्यसौ ।
प[पृ]ष्ठलब्धाविकल्पेन विकल्पेन[विहारेण]सदोत्तमः
उपेक्षोच्यते निर्विकल्पं ज्ञानं तया बोधिसत्त्वः सर्वत्र यथाकामं विहरति । तत्पृष्ठलब्धेन च विहारेणान्यस्योपगमात् । अन्यस्यापगमात् । निर्विकल्पेन विहारेण तत्र निर्व्यापारतया वासकल्पनात् । यथा चक्रवर्तिनः परिणायकरत्नं चतुरङ्गबलकायमुपनेतव्यं चोपप्रणयति[गमयति] । अपनेतव्यं चापनयति । तत्र च गत्वा वासं कल्पयति यत्राखिन्नः चतुरङ्गो बालकायः परैति ।
एवंगुणो बोधिसत्त्वश्चक्रवर्तीव वर्तते ।
सप्तरत्नोपमैर्नित्यं बोध्यङ्गैः परिवारितः
इति सप्तरत्नोपमत्वं बोध्यङ्गानां निगमयति ।
निश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकं ।
चतुर्थमनुशंसाङ्गमक्लेशाङ्गं त्रयात्मकम्
एतेन यब्दोध्यङ्गं यथाङ्गं तदभिद्योतितं । स्मृतिर्निश्रयाङ्गं सर्वेषां तन्निश्रयेण प्रवृत्तेः । धर्मप्रविचयः स्वभावाङ्गं बोधेस्तत्स्वभावत्वात् । वीर्यं निर्याणाङ्गं तेनाप्राप्यनिष्ठा यामधिष्ठानात् [विच्छेदात्] । प्रीतिरनुशंसाङ्गं चित्तसुखत्वात् । प्रश्रब्धिसमाध्युपेक्षा असंक्लेशाङ्गं । येन यन्निश्रित्य यो ऽसंक्लेश इति त्रिविधमसंक्लेशाङ्गं वेदितव्यम् ।
मार्गाङ्गविभागे द्वौ श्लोकौ ।
यथाबोधानुवृत्तिश्च तदूर्ध्वमुपजायते ।
यथाबोधव्यवस्थानं प्रवेशश्च व्यवस्थितौ
कर्मत्रयविशुद्धिश्च प्रतिपक्षश्च भावना ।
ज्ञेयावृत्तेश्च मार्गस्य वैशेषिकगुणस्य च
बोध्यङ्गकालादूर्ध्वं यथाभूतावबोधानुवृत्तिः सम्यग्दृष्टिः । तस्यैवावबोधस्य व्यवस्थानं परिच्छेदः सम्यक्संकल्पः । तद्व्यवस्थाने च सूत्रादिके भगवता कृते स एव प्रवेशस्तेन तदर्थावबोधात् । कर्मत्रयविशुद्धिः सम्यग्वाक्कर्मान्ताजीवाः । वाक्कायोभयकर्मसंग्रहात् । प्रतिपक्षस्य भावना सम्यग्व्यायामादयो यथाक्रमं ज्ञेयावरणस्य मार्गावरणस्य च वैशेषिकगुणावरणस्य च सम्यग्व्यायामेन दीर्घं हि कालम् अखिद्यमानो ज्ञेयावरणस्य प्रतिपक्षं भावयति । ( म्स_बग्छि 140 ) सम्यक्स्मृत्या शमथप्रग्रहोपेक्षानिमित्तेषु लयोद्धत्याभावान्मार्गसंमुखीभावायावरणस्य प्रतिपक्षं भावयति । सम्यक्समाधिना वैशेषिकगुणाभिनिर्हारायावरणस्य प्रतिपक्षं भावयत्येवमष्टौ मार्गाङ्गानि व्यवस्थाप्यन्ते ।
शमथविपश्यनाविभागे त्रयः श्लोकाः ।
चित्तस्य चित्ते स्थानाच्च धर्मप्रविचयादपि ।
सम्यक्स्थितिमुपाश्रित्य शमथो ऽथ विपश्यना
सम्यक्समाधिं निश्रित्य चित्ते चित्तस्यावस्थानात् । धर्माणां च प्रविचयाद्यथाक्रमं शमथो विपश्यना च वेदितव्या । न तु विना सम्यक्समाधिनेत्येतच्छमथविपश्यनालक्षणभू ।
सर्वत्रगा च सैकांशा नैकांशोपनिषन्मता ।
सा च शमथविपश्यना सर्वत्रगा यं यं गुणमाकाङ्क्षति तत्र तत्र तद्भावनात् । यथोक्तं सूत्रे । आकाङ्क्षेद्भिक्षुरहो वताहं विविक्तं कामैरिति विस्तरेण यावत् तेन भिक्षुणा इमावेव द्वौ धर्मौ भावयितव्यौ । यदुत शमथश्च विपश्यना चेत्येवमादि । एकांशा शमथविपश्यना यदा शमथं भावयति । विपश्यनां वा । उभयांशा यदा युगपदुभयं भावयति । उपनिषत्संमता शमथविपश्यना बोधिसत्त्वानामधिमुक्तिचर्याभूमौ ।
प्रतिवेधे च निर्याणे अनिमित्ते ह्यसंस्कृते
परिशुद्धौ विशुद्धौ च शमथो ऽथ विपश्यना ।
सर्वभूमिगता धीरे स योगः सर्वसाधकः
इत्युपनिषन्मतेत्येवमादिना शमथविपश्यनायाः प्रभेदः कर्म च निर्दिष्टं । योग उपायो वेदितव्यः । तत्र प्रतिवेधः प्रथमभूमिप्रवेशः । निर्याणं यावत् षष्ठी भूमिः । ताभिः सनिमित्तप्रयोगनिर्याणात् । अनिमित्तं सप्तमी भूमिः । असंस्कृतमन्यद्भूमित्रयमनभिसंस्कारवाहित्वात् । संस्कारो हि संस्कृतं तदत्र नास्तीत्यसंस्कृतं । तदेव च भूमित्रयं निश्रित्य बुद्धक्षेत्रं च परिशोधयितव्यं । बुद्धत्वं च प्राप्तव्यं । तदेतद्यथाक्रमं परिशुद्धिर्विशुद्धिश्च ।
उपायकौशल्यविभागे द्वौ श्लोकौ ।
पूरये बुद्धधर्माणां सत्त्वानां परिपाचने ।
क्षिप्रप्राप्तौ क्रियाशुद्धौ वर्त्माच्छेदे च कौशलं
उपाये बोधिसत्त्वानामसमं सर्वभूमिषु ।
यत्कौशल्यं समाश्रित्य सर्वार्थान्साधयन्ति ते
अनेनोपायकौशल्यस्य प्रभेदः कर्म च दर्शितं । तत्र बुद्धधर्मपरिपूरये निर्विकल्पं ज्ञानमुपायः । सत्त्वपरिपाचने चत्वारि संग्रहवस्तूनि । क्षिप्राभिसंबोधे सर्वं पापं प्रतिदेशयामि यावद् भवतु मे ज्ञानं संबोधायेति प्रतिदेशनानुमोदनाध्येषणा परिणामना । क्रियाशुद्धौ समाधिधारणीमुखानि । तैः सर्वार्थक्रियासाधनात् । वर्त्मानुपच्छेदे अप्रतिष्ठितनिर्वाणे । अस्मिन् पञ्चविध उपाये सर्वभूमिषु बोधिसत्त्वानामसमं तदन्यैः कौशलमित्ययं प्रभेदः । सर्वस्वपरार्थसाधनं कर्म ।
धारणीविभागे त्रयः श्लोकाः ।
विपाकेन श्रुताभ्यासात् धारण्यपि समाधिना ।
परीत्ता महती सा च महती त्रिविधा पुनः
अप्रविष्टविप्रविष्टानां धीमतां मृदुमध्यमा ।
अशुद्धभूमिकानां हि महती शुद्धभूमिका
धारणी[णीं]तां समाश्रित्य बोधिसत्वा पुनः पुनः ।
प्रकाशयन्ति सद्धर्मं नित्यं संधारयन्ति च
अत्रापि प्रभेदः कर्म च धारण्याः संदर्शितं । तत्र त्रिविधा धारणी । पूर्वकर्मविपाकेन । श्रुताभ्यासेन । दृष्टधर्मबाहुश्रुत्येन ग्रहणधारणसामर्थ्यविशेषणात् । समाधिसंनिश्रयेण च । सा पुनर्विपाकश्रुताभ्यासाभ्यां परीत्ता वेदितव्या । समाधिना महती । सापि महती पुनस्त्रिविधा । अभूमिप्रविष्टानां मृद्वी भूमिप्रविष्टानाम् अशुद्धभूमिकानां मध्या सप्तसु भूमिषु । परिशुद्धभूमिका त्वधिमात्रा शेषासु भूमिषु इत्ययं प्रभेदो धारण्याः । सद्धर्मस्य प्रकाशनं धारणं च कर्म ।
प्रणिधानविभागे त्रयः श्लोकाः ।
चेतना छन्दसहिता ज्ञानेन प्रेरिता च तत् ।
प्रणिधानं हि धीराणामसमं सर्वभूमिषु
हेतुभूतं च विज्ञेयं चित्तात्सद्यः फलं च तत् ।
आयत्यामर्थसिद्ध्यर्थं चित्तमात्रात्समृद्धितः
चित्रं महद्विशुद्धं च उत्तरोत्तरभूमिषु ।
आबोधेर्बोधिसत्त्वानां स्वपरार्थप्रसाधकं
अत्र प्रणिधानं स्वभावतो निदानतो भूमितः प्रभेदतः कर्मतश्च परिदीपितं । चेतना छन्दसंप्रयुक्ता स्वभावः । ज्ञानं निदानं । सर्वभूमिष्विति भूमिः । तच्च प्रणिधानं हेतुभूतं ( म्स_बग्छि 142 ) चित्तादेव सद्यः फलत्वात् । आयत्यां वा[चा]भिप्रेतार्थसिद्ध्यर्थं चित्तात्पुनः सद्यःफलं चित्तमात्रात् यथाभिप्रेतार्थसमृद्धिता[तो] । वेदितव्या[व्यं] । येन प्रणिधानेन बलिका बोधिसत्त्वा विक्रीडन्ति । यस्य न सुकरा संख्या कर्तुं कायस्य वेति विस्तरः । चित्रमधिमुक्तिचर्याभूमावेवं चैवं च स्यामिति । महद्भुमिप्रविष्टस्य दश महाप्रणिधानानि । विशुद्धमुत्तरोत्तरासु भूमिषु विशुद्धिविशेषादाबोधेरित्येष प्रभेदतः । स्वपरार्थप्रसाधनं कर्म ।
समाधित्रयविभागे त्रयः श्लोकाः ।
नैरात्म्यं द्विविधं ज्ञेयो ह्यात्मग्राहस्य चाश्रयः ।
तस्य चोपशमो नित्यं समाधित्रयगोचरः
त्रयाणां समाधीनां त्रिविधो गोचरो ज्ञेयः । पुद्गलधर्मनैरात्म्यं शून्यतासमाधेः । तदुभयात्मग्राहस्याश्रयः पञ्चोपादानस्कन्धा अप्रणिहितसमाधेः । तस्याश्रयस्यात्यन्तोपशम आनिमित्तसमाधिः । स एव ।
समाधिस्त्रिविधो ज्ञेयो ग्राह्यग्राहकभावतः ।
त्रिविधश्च ग्राह्यस्य गोचरस्य ग्राहका ये समाधयः । ते शून्यतादिसमाधयः इति ग्राह्यग्राहकभावेन त्रयः समाधयो ज्ञातव्याः । ते पुनर्यथाक्रमं ।
निर्विकल्पो ऽपि विमुखो रतियुक्तश्च सर्वदा
शून्यतासमाधिर्निर्विकल्पः । पुद्गलधर्मात्मनोरविकल्पनात् । अप्रणिहितो विमुखस्तस्मादात्मग्राहाश्रयात् । आनिमित्तो रतिसंप्रयुक्तः सर्वकालं तस्मिंस्तदाश्रयोपशमे ।
परिज्ञायै प्रहाणाय पुनः साक्षात्क्रियाय च ।
शून्यतादिसमाधीनां त्रिधार्थः परिकीर्तितः
पुद्गलधर्म नैएरात्म्ययोः परिज्ञार्थं शून्यता । तदात्मग्राहाश्रयस्य प्रहाणार्थमप्रणिहितः । तदुपशमस्य साक्षात्क्रियार्थमानिमित्तः समाधिः ।
धर्मोद्दानविभागे श्लोकौ ।
समाध्युपनिषत्त्वेन धर्मोद्दानचतुष्टयं ।
देशितं बोधिसत्त्वेभ्यः सत्त्वानां हितकाम्यया
तत्र सर्वसंस्कारा अनित्याः सर्वसंस्कारा दुःखाः इत्यप्रणिहितस्य समाधेरूपनिषद्भावेन देशितं । सर्वधर्मा अनात्मान इति शून्यतायाः । शान्तं निर्वाणमिति आनिमित्तस्य समाधेः । कः पुनरनित्यार्थो यावच्छान्तार्थः इत्याह ।
असदर्थो ऽविकल्पार्थः परिकल्पार्थ एव च ।
विकल्पोपशमार्थश्च धीमतां तच्चतुष्टयम्
बोधिसत्त्वानामसदर्थो ऽनित्यार्थः । यन्नित्यं नास्ति तदनित्यं तेषां यत्परिकल्पितलक्षणम् । अभूतविकल्पार्थो दुःखार्थो यत्परतन्त्रलक्षणं । परिकल्पमात्रार्थो ऽनात्मार्थः । एवशब्देनावधारणं परिकल्पित आत्मा नास्ति परिकल्पमात्रं त्वस्तीति परिकल्पितलक्षणस्याभावार्थो ऽनात्मार्थ इत्युक्तं भवति । विकल्पोपशमार्थः शान्तार्थः परिनिष्पन्नलक्षणं निर्वाणं । क्षणभङ्गार्थो ऽप्यनित्यार्थो वेदितव्यः परतन्त्रलक्षणस्य । अतस्तत्प्रसाधनार्थं क्षणिकत्वविभागे दश श्लोकाः ।
अयोगाद्धेतुतोत्पत्तेर्विरोधात्स्वयमस्थितेः ।
अभावाल्लक्षणैकान्त्यादनुवृत्तेर्निरोधतः
परिणामोपलब्धेश्च तद्धेतुत्वफलत्वतः ।
उपात्तत्वाधिपत्वा[त्या]च्च शुद्धसत्त्वानुवृत्तितः
तत्र क्षणिकं सर्वं संस्कृतमिति पश्चाद्वचनदियं प्रतिज्ञा वेदितव्या । तत्पुनः कथं सिध्यति । क्षणिकत्वमन्तरेण संस्काराणां प्रवृत्तेरयोगात् । प्रबन्धेन हि वृत्तिः प्रवृत्तिः । सा चान्तरेण प्रतिक्षणमुत्पादनिरोधौ न युज्यते । अथ कालान्तरं स्थित्वा पूर्वोत्तरनिरोधोत्पादतः प्रबन्धेनेष्यते वृत्तिः । तदनन्तरं प्रवृत्तिर्न स्यात् प्रबन्धाभावात् । नैव चोत्पन्नस्य विना प्रबन्धेन कालान्तरं भावो युज्यते । किं कारणं हेतुत उत्पत्तिः । हेतुतो हि सर्वं संस्कृतमुत्पद्यते भवतीत्यर्थः । तद्यदि भूत्वा पुनरुत्तरकालं भवति तस्यावश्यं हेतुना भवितव्यं । विना हेतुना आदित इवा[एवा]भावात् । न च तत्तेनैव हेतुना भवितुमर्हति तस्योपयु[भु]क्तहेतुकत्वात् । न चान्यो हेतुरुपलम्भते । तस्मात्प्रतिक्षणमवश्यं पूर्वहेतुकमन्यद्भवतीति वेदितव्यं । एवं विना प्रबन्धेनोत्पन्नस्य कालान्तरं भावो न युज्यते ।
अथाप्येवमिष्येत नोत्पन्नं पुनरुत्पद्यते यदर्थं हेतुना भवितव्यं स्यादुत्पन्नं तु कालान्तरेण पश्चान्निरुध्यते नोत्पन्नमात्रमेवेति । तत्पश्चात्केन निरुध्यते । यद्युत्पादहेतुनैव तदयुक्तं । किं कारणम् । उत्पादनिरोधयोर्विरोधात् । न हि विरोधयोस्तुल्यो हेतुरुपलभ्यते । तद्यथा छायातपयोः शीतोष्णयोश्च । कालान्तरनिरोधस्यैव च विरोधात् । केन विरोधात् । आगमेन च । यदुक्तं भगवता । मायोपमास्ते भिक्षो संस्कारा आपायिकास्तावत्कालिका इत्वरप्रत्युपस्थायिन इति । मनस्कारेण च योगिनां । ते हि संस्काराणामुदयव्ययौ मनसिकुर्वन्तः प्रतिक्षणं तेषां निरोधं पश्यन्ति । अन्यथा हि तेषामपि निर्विद्विरागविमुक्तयो न स्युर्यथान्येषां मरणकालादिषु निरोधं पश्यतां । यदि चोत्पन्नः संस्कारः कालान्तरं तिष्ठेत् स स्वयमेव वा तिष्ठेत्स्वयमेव स्थातुं समर्थः । स्थितिकारणेन ( म्स_बग्छि 144 ) वा केनचित् । स्वयं तावदवस्थानमयुक्तं । किं कारणं । पश्चात्स्वयमस्थितेः । केन वा सो ऽन्ते पुनः स्थातुं न समर्थः । स्थितिकारणेनापि न युक्तं तस्याभावात् । न हि तत्किंचिदुपलभ्यते । अथापि स्याद्विनापि स्थितिकारणेन विनाशकारणाभावात् अवतिष्ठते । लब्धे तु विनाशकारणे पश्चाद्विनश्यति अग्निमेव श्यामतेति । तदयुक्तं, तस्याभावात् । न हि विनाशकारणं पश्चादपि किंचिदस्ति । अग्निनापि श्यामता विनस्यतीति सुप्रसिद्धं [न प्रसिद्धं,] । विसदृशोत्पत्तौ तु तस्य सामर्थ्यं प्रसिद्धं । तथा हि तत्संबन्धात् श्यामतायाः संततिर्विसदृशी गृह्यते न तु सर्वथैवाप्रवृत्तिः । अपामपि क्वाथ्यमानानामग्निसम्बन्धादल्पतरतमोत्पत्तितो ऽतिमान्द्यादन्ते पुनरनुत्पत्तिर्गृह्यते । न तु सकृदेवाग्निसंबन्धात्तदभावः । नैव चोत्पन्नस्य कस्यचिद्[त] स्थानं युज्यते । लक्षणैकान्त्यात् । ऐकान्तिकं ह्येतत्संस्कृतलक्षणमुक्तं भगवता यदुत संस्कृतस्यानित्यता । तद्यदि नोत्पन्नमात्रं विनश्येत् । कंचित्कालमस्यानित्यता न स्यादिति अनैकान्तिकमनित्यतालक्षणं प्रसह्य[ज्य]ते । अथापि स्यात्प्रतिक्षणमपूर्वोत्पत्तौ तदेवेदमिति प्रत्यभिज्ञानं न स्यादिति । तद्भवत्येव सादृश्यस्य अनुवृत्तेर्मायाकार प[फ]लकवत् । सादृश्यात्तद्बुद्धिर्न तद्भावादिति । कथं गम्यते । निरोधतः । न हि तथैवावस्थितस्यान्ते निरोधः स्यादादिक्षणनिर्विशिष्टत्वात् । तस्मान्न तत्तदेवेत्यवधार्यते अन्ते परिणामोपलब्धेश्च । परिणामो हि नामान्यथात्वं । तद्यदि नादित एवारब्धं भवेदाध्यात्मिकबाह्यानां भावानामन्ते परिणामो नोपलभ्येत । तस्मादादित एवान्यथात्वमारब्धं यत्क्रमेणाभिवर्धमानमन्ते व्यक्तिमापद्यते क्षीरस्येव दद्यवस्थायां । यावत्तु तदन्यथात्वं सूक्ष्मत्वान्न परिच्छिद्यते । तावत्सादृश्यानुवृत्तेस्तदेवेदमिमि [ति]ज्ञायत इति सिद्धं । ततश्च प्रतिक्षणमन्यथात्वात् । क्षणिकत्वं प्रसिद्धं । कुतश्च प्रसिद्धं । तद्धेतुत्वफलत्वतः । क्षणिकहेतुत्वात् । क्षणिकफलत्वाच्चेत्यर्थः ।
क्षणिकं हि चित्तं प्रसिद्धं तस्य चान्ये संस्काराश्चक्षुरूपादयो हेतुतः । तस्मात्ते ऽपि क्षणिका इति सिद्धं । न त्वक्षणिकात् क्षणिकं भवितुमर्हति यथा नित्यादनित्यमिति । चित्तस्य खल्वपि सर्वे संस्काराः फलं । कथमिदं गम्यते । उपात्तत्वादाधिपत्याच्छुद्धसत्त्वानुवृत्तितश्च । चित्तेन हि सर्वे संस्काराश्चक्षुरादयः साधिष्ठाना उपात्ताः सहसंमुर्छनाः तदनुग्रहानुवृत्तितः । तस्मात्ते चित्तस्य फलं । चित्तस्य चाधिपत्यं संस्कारेषु । यथोक्तं भगवता । चित्तेनायं लोको नीयते चित्तेन परिकृष्यते चित्तस्योत्पन्नस्योत्पन्नस्य वशे वर्तते इति । तथा विज्ञानप्रत्ययं नाम रूपमित्युक्तं । तस्माच्चित्तस्य फलं । शुद्धचित्तानुवृत्तितश्च । शुद्धं हि योगिनां चित्तं संस्कारा अनुवर्तन्ते । यथोक्तं । ध्यायी भिक्षुः ऋद्धिमांश्चित्तवशे प्राप्त इमं दारुस्कन्धं सचेत् सुवर्णमधिमुच्यते तदप्यस्य तथैव ( म्स_बग्छि 145 ) स्यादिति । तस्मादपि चित्तफलं संस्काराः । सत्त्वानुवृत्तितश्च । तथा हि पापकारिषु सत्त्वेषु बाह्या भावा हीना भवन्ति । पुण्यकारिषु च प्रणीताः । अतस्तच्चित्तानुवर्तनात् चित्तफलत्वं संस्काराणां सिद्धं । ततश्च तेषां क्षणिकत्वं । न हि क्षणिकस्याक्षणिकं फलं युज्यते तदनुविधायित्वात् । एवं तावदविशेषेण संस्काराणां क्षणिकत्वं द्वाभ्यां श्लोकाभ्यां साधितम् ।
आध्यात्मिकानां पुनः साधनार्थं पञ्च श्लोका वेदितव्याः ।
आद्यस्तरतमेनापि चयेनाश्रयभावतः ।
विकारपरिपाकाभ्यां तथा हीनविशिष्टतः
भास्वराभास्वरत्वेन देशान्तरगमेन च ।
सबीजाबीजभावेन प्रतिबिम्बेन चोदयः
चतुर्दशविधोत्पत्तौ हेतुमानविशेषतः ।
चयाया[पा]र्थादयोगाच्च आश्रयत्व असंभवात्
स्थितस्यसंभवादन्ते आद्यनाशाविकारतः ।
तथा हीनविशिष्टत्वे भास्वराभास्वरे ऽपि च
गत्यभावात्स्थितायोगाच्चरमत्व असंभवात् ।
अनुवृत्तेश्च चित्तस्य क्षणिकं सर्वसंस्कृतम्
आद्यस्तरतमेनापि यावत्क्षणिकं सर्वसंस्कृतमिति । कथमेषामेभिः क्षणिकत्वं सिध्यति । आध्यात्मिकानां हि संस्काराणां चतुर्दशविध उत्पादः । आद्य उत्पादो यावत्प्रथमत आत्मभावाभिनिर्वृत्तिः । तरतमेन यः प्रथमजन्मक्षणादूर्ध्वं । चयेन य आहारस्वप्नब्रह्मचर्यासमापत्त्युपचयेन । आश्रयभावतः यश्चक्षुर्विज्ञानादीनां चक्षुरादीभिराश्रयैः । विकारेण यो रागादिभिर्वर्णादिविपरिणामतः । परिपाकेन यो गर्भबालकुमारयुवमध्यमवृद्धावस्थासु । हीनत्वेन विशिष्टत्वेन च यो दुर्गतौ [सुगतौ?] चोत्पद्यमानानां यथाक्रमं । भास्वरत्वेन यो निर्मितकामेषु परनिर्मितकामेषु रूपारूप्येषु चोपपन्नानां चित्तमात्राधीनत्वात् । अभास्वरत्वेन यस्तदन्यत्रोपपन्नानां । देशान्तरगमनेन यो ऽन्यदेशोत्पादनिरोधे ऽन्यदेशोत्पादः । सबीजत्वेन यो ऽहर्तश्चरमान् स्कन्धान्वर्जयित्वा । अबीजत्वेन यस्तेषामेवार्हतश्चरमेषां । प्रतिबिम्बत्वेन यो अष्टविमोक्षध्यायिनां समाधिवशेन प्रतिबिम्बानां[ख्यानां] संस्काराणामुत्पादः । एतस्यां चतुर्दशविधायामुत्पत्तावाध्यात्मिकानां संस्काराणां क्षणिकत्वं हेतुमानविशेषादिभिः कारणैर्वेदितव्यम् । आद्योत्पादे तावत् हेतुत्वविशेषात् । यदि हि तस्य हेतुत्वेन विशेषो न स्यात् तदुत्तरायाः संस्कारप्रवृत्तेरुत्तरोत्तरविशेषो ( म्स_बग्छि 146 ) नोपलभ्येत हेत्वविशेषात् । विशेषे च सति तदुत्तरेभ्यस्तस्यान्यत्वात् क्षणिकत्वसिद्धिः । तरतमोत्पादे मानविशेषात् । मानं प्रमाणमित्यर्थः । न हि प्रतिक्षणं विनान्यत्वेन परिमाणविशेषो भवेत् । उपचयोत्पादे चयापार्थ्यात् । उपस्तम्भो हि चयः । तस्यापार्थ्यं स्यादन्तरेण क्षणिकत्वं तथैवावस्थितत्वात् । अयोगाच्चोपचयस्यैव । न हि प्रतिक्षणं विना पुष्टतरोत्पत्त्या युज्येतोपचयः । आश्रयभावेनोत्पत्तावाश्रितत्वासंभवात् । न हि तिष्ठत्याश्रये च तदाश्रितस्यानवस्थानं युज्यते । याने तिष्ठति तदारूढानवस्थानवदन्यथा ह्याश्रयत्वं न संभवेत् । विकारोत्पत्तौ परिपाकोत्पत्तौ च स्थितस्यासंभवात् । आद्यनाशाविकारतः । न हि तथास्थितस्यैव रागादिभिर्विकारः संभवति । न चावस्थान्तरेषु परिपाक आदावविनाशे सत्यन्ते विकाराभावात् । तथा हीनविशिष्टोत्पत्तौ क्षणिकत्वं वेदितव्यं यथा विकारपरिपाकोत्पत्तौ । न हि तथास्थितेष्वेव संस्कारेषु कर्मवासना वृत्तिं लभते यतो दुर्गतौ वा स्यादुत्पत्तिः सुगतौ वा । क्रमेण हि संततिपरिणामविशेषात् वृत्तिलाभो युज्यते । भास्वराभास्वरे ऽपि चोत्पादे तथैव क्षणिकत्वं युज्यते । भास्वरे तावत् तथास्थितस्यासंभवात् चित्ताधीनवृत्तितायाः । अभास्वरे ऽपि चादौ विनाशमन्तरेणान्ते विकारायोगात् ।
देशान्तरगमनेनोत्पत्तौ गत्यभावात् । न हि संस्काराणां देशान्तरसंक्रान्तिलक्षणा गतिर्नाम काचित् क्रिया युज्यते । सा ह्युत्पन्ना वा संस्कारं देशान्तरं गमयेदनुत्पन्ना वा । यद्युत्पन्ना तेन गतिकाले न कंचिद्गत इति स्थितस्यैव गमनं नोपपद्यते । अथानुत्पन्ना तेनासत्यां गतौ गत इति न युज्यते । सा च क्रिया यदि तद्देशस्थ एव संस्कारे कारित्रं करोति न युज्यते । स्थितस्यान्यदेशाप्राप्तेः । अथान्यदेशस्थे न युज्यते । विना क्रिययान्यदेशाप्राप्तेः । न च क्रिया तत्र वा अन्यत्र वा देशे स्थिता संस्कारादन्योपलभ्यते । तस्मान्नास्ति संस्काराणां देशान्तरसंतत्युत्पादादन्या गतिः । तदभावाच्च सिद्धं क्षणिकत्वं । देशान्तरनिरन्तरोत्पत्तिलक्षणा गतिर्विभवद्भिः कारणैर्वेदितव्या । अस्ति चित्तवशेन यथा चङ्क्रमणाद्यवस्थासु । अस्ति पूर्वकर्मावेधेन यथान्तराभवः । अस्त्यभिधात[अस्त्याक्षिप्त]वशेन यथा क्षिप्तस्येषोः । अस्ति संबन्धवशेन यथा याननदीप्लवारूढानां । अस्ति नोदनवशेन यथा वायुप्रेरितानां तृणादीनाम् । अस्ति स्वभाववशेन यथा वायोस्तिर्यग्गमनमग्नेरूर्ध्वं ज्वलनमपां निम्ने स्यन्दनं । अस्त्यनुभावेन यथा मन्त्रौषधानुभावेन । केषांचिदयस्कान्तानुभावेनायसां । ऋद्ध्यनुभावेन ऋद्धिमतां । सबीजाबीजभावेनोत्पत्तौ क्षणिकत्वं वेदितव्यं स्थितायोगाच्चरमासंभवाच्च । न हि प्रतिक्षणं हेतुभावमन्तरेण तथास्थितस्यान्यस्मिन्काले पुनर्बीजभावो युज्यते । निर्बीजत्वं वा चरमे क्षणे । न च शक्यं ( म्स_बग्छि 147 ) पूर्वं सबीजत्वं चरमे क्षणे निर्बीजत्वमभ्युपगन्तुं । तदभावे चरमत्वासंभवात् । तथा हि चरमत्वमेव न संभवति । प्रतिबिम्बोत्पत्तौ क्षणिकत्वं चित्तानुवृत्तितो वेदितव्यं । प्रतिक्षणं चित्तवशेन तदुत्पादात् । एकान्तात्[एवं तावत्]साधितमाध्यात्मिकं सर्वसंस्कृतं क्षणिकमिति ।
बाह्यस्येदानीं क्षणिकत्वं त्रिभिः श्लोकैः साधयति ।
भूतानां षडिवधार्थस्य क्षणिकत्वं विधीयते ।
शोषवृद्धेः प्रकृत्या च चलत्वाद् वृद्धिहानितः
तत्संभवात्पृथिव्याश्च परिणामचतुष्टयात् ।
वर्णगन्धरसस्पर्शतुल्यत्वाच्च तथैव तत्
इन्धनाधीनवृत्तित्वात्तारतम्योपलब्धितः ।
चित्तानुवृत्तेः पृच्छातः क्षणिकं बाह्यमप्यतः
किं पुनस्तद्बाह्यं । चत्वारि महाभूतानि । षडिवधश्चार्थः । वर्णगन्धरसस्पर्शशब्दा धर्मायतनिकं च रूपम् । अतो भूतानां षडिवधार्थस्य च क्षणिकत्वं विधीयते । कथं विधीयते । अपां तावच्छोषवृद्धेः । उत्ससरस्तटागादिष्वपां क्रमेण वृद्धिः शोषश्चोपलभ्यते । तच्चोभयमन्तरेण प्रतिक्षणं परिणामं न स्यात्पश्चाद्विशेषकारणाभावात् । वायोः प्रकृत्या चलत्वाद् वृद्धिहानितश्च । न ह्यवस्थितस्य चलत्वं स्यात्तत्स्वाभावादिति[गत्यभावादिति] प्रसाधितमेतत् । न च वृद्धिहासौ तथैवावस्थितत्वात् । पृथिव्यास्तत्संभवात् परिणामचतुष्टयाच्च । तच्छब्देनापश्च गृह्यन्ते वायुश्च । अद्भ्यो हि वायुसहिताभ्यः पृथिवी संभूता विवर्तकाले । तस्मात्तत्फलत्वात् सापि क्षणिका वेदितव्या । चतुर्विधश्च परिणामः पृथिव्या उपलभ्यते । कर्मकृतः सत्त्वानां कर्मविशेषात् । उपक्रमकृतः प्रहादिभिः । भूतकृतो ऽग्न्यादिभिः । कालकृतः कालान्तरपरिणामतः[वासतः] । स चान्तरेण प्रतिक्षणमन्योत्पत्तिं न युज्यते विनाशकारणाभावात् । वर्णगन्धरसस्पर्शानां पृथिव्यादिभिस्तुल्यकारणत्वात् तथैव क्षणिकत्वं वेदितव्यं । तेजसः पुनः क्षणिकत्वमिन्धनाधीनवृत्तित्वात् ।
न हि तेजस्युत्पन्ने तेजः सहोत्पन्नमिन्धनं तथैवावतिष्ठते । न च दग्धेन्धनं तेजः स्थातुं समर्थं । मा भूदन्ते ऽप्यनिन्धनस्यावस्थानमिति । श्लोकबन्धानुरोधाद्वर्णादीनां पूर्वमभिधानं पश्चात्तेजसः । शब्दः पुनर्यो ऽपि कालान्तरमुपलभ्यते घण्टादीनां तस्यापि क्षणिकत्वं वेदितव्यं तारतम्योपलब्धेः । न ह्यसति क्षणिकत्वे प्रतिक्षणमन्दतरतमोपलब्धिः स्यात् । धर्मायतनिकस्यापि रूपस्य क्षणिकत्वं प्रसिद्धमेव चित्तानुवृत्तेर्यथा पूर्वमुक्तं । तस्माद्वाह्यमपि क्षणिकं प्रसिद्धं । पृच्छ्रयते खल्वपि सर्वसंस्काराणां क्षणिकत्वं सिध्यति ( म्स_बग्छि 148 ) कथं कृत्वा । इदं तावदयमक्षणिकवादी प्रष्टव्यः । कस्माद्भवाननित्यत्वमिच्छति न [?] संस्काराणां क्षणिकत्वं नेच्छतीति । यद्येवं वदेत् प्रतिक्षणमन्य[नित्य]त्वस्याग्रहणादिति स इदं स्याद्वचनीयः । प्रसिद्धक्षणिकभावेष्वपि प्रदीपादिषु निश्चलावस्थायां तदग्रहणादक्षणिकत्वं कस्मान्नेष्यते । यद्येवं वदेत् पूर्ववत्पश्चादग्रहणादिति । स इदं स्याद्वचनीयः । संस्काराणामपि कस्मादेवं नेष्यते । यद्येवं वदेत् विलक्षणत्वात् प्रदीपादितदन्यसंस्काराणामिति । स इदं स्याद्वचनीयः । द्विविधं हि वैलक्षण्यं स्वभाववैलक्षण्यं वृत्तिवैलक्षण्यं च । तद्यदि तावत् स्वभाववैलक्षण्यमभिप्रेतमत एव दृष्टान्तत्वं युज्यते । न हि तत्स्वभाव एव तस्य दृष्टान्तो भवति यथा प्रदीपः प्रदीपस्य गौर्वा गोरिति । अथ वृत्तिवैलक्षण्यमत एव दृष्टान्तत्वं प्रदीपादीनां प्रसिद्धत्वात् । क्षणिकत्वानुवृत्तेः पुनः स इदं प्रष्टव्यः । कच्चिदिच्छसि याने तिष्ठति यानारूढो गच्छेदिति । यदि नो हीति वदेत् । स इदं स्याद्वचनीयः । चक्षुरादिषु तिष्ठत्सु तदाश्रितं विज्ञानं प्रबन्धेन गच्छतीति न युज्यते । यद्येवं वदेत् ननु च दृष्टं वर्तिसंनिश्रिते प्रदीपे प्रबन्धेन गच्छति वर्त्या अवस्थानमिति । स इदं स्याद्वचनीयः । न दृष्टं तत्प्रबन्धेन वर्त्याः प्रतिक्षणं विकारोत्पत्तेरिति । यद्येवं वदेत् सति क्षणिकत्त्वे संस्काराणां कस्मात्प्रदीपादिव क्षणिअकत्वं न सिद्धमिति । स इदं स्याद्वचनीयः विपर्यासवस्तुत्वात् । सदृशसंततिप्रबन्धवृत्त्या हि क्षणिकत्वमेषां न प्रज्ञायते । यतः सत्यप्यपरापरत्वे तदेवेदमिति विपर्यासो जायते । इतरथा हि अनित्यनित्यविपर्यासो न स्यात्तदभावे संक्लेशो न स्यात् कुतः पुनर्व्यवदानमित्येवं पर्यनुयोगतो ऽपि क्षणिकत्वं सर्वसंस्काराणां प्रसिद्धं ।
पुद्गलनैरात्म्यप्रसाधनार्थं नैरात्म्यविभागे द्वादश श्लोकाः ।
प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु ।
नोपलम्भाद्विपर्यासात् संक्लेशात् क्लिष्टहेतुतः
एकत्वान्यत्वतोवाच्यस्तस्माद्दोषद्वयादसौ ।
स्कन्धात्मत्वप्रसङ्गाच्च तद्द्रव्यत्वप्रसङ्गतः
द्रव्यसन् यद्यवाच्यश्च वचनीयं प्रयोजनं ।
एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः
लक्षणाल्लोकदृष्टाच्च शास्त्रतो ऽपि न युज्यते ।
इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि
द्वये सति च विज्ञानसंभवात्प्रत्ययो न सः ।
नैरर्थक्यादतो द्रष्टा यावन्मोक्ता न युज्यते
स्वामित्वे सति चानित्यमनिष्टं न प्रवर्तयेत् ।
तत्कर्मलक्षणं साध्यं संबोधो बाध्यते त्रिधा
दर्शनादौ च तद्यत्नः स्वयंभूर्न त्रयादपि ।
तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकं
अकर्तृत्वादनित्यत्वात्सकृन्नित्यप्रवृत्तितः ।
दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते
तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः ।
तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते
सर्वधर्मा अनात्मानः परमार्थेन शून्यता ।
आत्मोपलम्भे दोषश्च देशितो यत एव च
संक्लेशव्यवदाने च अवस्थाच्छेदभिन्नके ।
वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः
आत्मदृष्टिरनुत्पाद्या अभ्यासो ऽनादिकालिकः ।
अयत्नमोक्षः सर्वेषां न मोक्षः पुद्गलो ऽस्ति वा
पुद्गल किमस्तीति वक्तव्यो नास्तीति वक्तव्यः । आह ।
प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु ।
यतश्च प्रज्ञप्तितो ऽस्तीति वक्तव्यो द्रव्यतो नास्तीति वक्तव्यः । एवमनेकांशवादपरिग्रहे नैवास्तित्वे दोषावकाशो न नास्तित्वे । स पुनर्द्रव्यतो नास्तीति कथं वेदितव्यः । नोपलम्भात् । न हि स द्रव्यत उपलभ्यते रूपादिवत् । उपलब्धिर्हि नाम बुद्ध्या प्रतिपत्तिः । न च पुद्गलं बुद्ध्या न प्रतिपद्यन्ते पुद्गलवादिनः । उक्तं च भगवता । दृष्ट एव धर्मे आत्मानमुपलभते प्रज्ञापयतीति कथं नोपलब्धो भवति । न स एवमुपलभ्यमानो द्रव्यत उपलब्धो भवति । किं कारणं । विपर्यासात् तथा ह्यनात्मन्यात्मेति विपर्यास उक्तो भगवता । तस्माद्य एवं पुद्गलग्राहो विपर्यासः सः । कथमिदं गम्यते । संक्लेशात् । सत्कायदृष्टिक्लेशलक्षणो ह्येष संक्लेशो यदुत अहं ममेति । न च [चा] विपर्यासः संक्लेशो भवितुमर्हति । न[स] चैष संक्लेश इति कथं वेदितव्यं । क्लिष्टहेतुतः । तथाहि तद्धेतुकाः क्लिष्टा रागादय उत्पद्यन्ते । यत्र पुनर्वस्तुनि रूपादिसंज्ञकेप्रज्ञप्तिः पुद्गल इति तस्मात्किमेकत्वेन पुद्गलो वक्तव्य आहोस्विदन्येत्वेन । आह ।
एकत्वान्यत्वतो ऽवाच्यस्तस्मादसौ ।
किं कारणं । दोषद्वयात् । कतमस्माद्दोषद्वयात् ।
स्कन्धात्मत्वप्रसङ्गाच्च तद्द्रव्यत्वप्रसङ्गतः ।
एकत्वे हि स्कन्धानामात्मत्वं प्रसज्यते पुद्गलस्य च द्रव्यसत्त्वं । अथान्यत्वे पुद्गलस्य द्रव्यसत्त्वं । एवं हि पुद्गलस्य प्रज्ञप्तितो ऽस्तित्वादवक्तव्यत्वं युक्तं । तेनाव्याकृतवस्तुसिद्धिः । ये पुनः शास्तुः शासनमतिक्रम्य पुद्गलस्य द्रव्यतो ऽस्तित्वमिच्छन्ति त इदं स्युर्वचनीयाः ।
द्रव्यसन्यद्यवाच्यश्च वचनीयं प्रयोजनं ।
किं कारणं ।
एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः ।
अथ दृष्टान्तमात्रात् पुद्गलस्यावक्तव्यत्वमिच्छेयुः । यथाग्निरिन्धनान्नान्यो नानन्यो वक्तव्य इति । त इदं स्युर्वचनीयाः ।
लक्षणाल्लोकदृष्टाच्च शास्त्रतो ऽपि न युज्यते ।
इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि ।
एकत्वेनान्यत्वेन च अग्निर्हि नाम तेजोधातुरिन्धनं शेषाणि भूतानि । तेषां च भिन्नं लक्षणमित्यन्य एवाग्निरिन्धनात् । लोके च विनाप्यग्निना दृष्टमिन्धनं काष्ठादि विनापि चेन्धनेनाग्निरिति सिद्धमन्यत्वं । शास्त्रे च भगवता न क्वचिदग्नीन्धनयोरवाच्यत्वमुक्तमित्ययुक्तमेतत् । विन पुनरिन्धनेनाग्निरस्तीति कथमिदं विज्ञायते । उपलब्धेस्तथा हि वायुना विक्षिप्तं दूरमपि ज्वलत्परैति । अथापि स्याद्वानुस्तत्रेन्धनमिति अत एवाग्नीन्धनयोरन्यत्वमिति सिद्धिः । कुतः । द्वयेन हि उपलब्धेरिति प्रकृतं । द्वयं हि तत्रोपलभ्यते अर्चिर्वायुश्चेन्धनत्वेन । अस्त्येव पुद्गलो य एष द्रष्टा यावद्विज्ञाता कर्ता भोक्ता ज्ञाता मोक्ता च । न स द्रष्टा युज्यते । नापि यावन्मोक्ता । स हि दर्शानादिसंज्ञकानां विज्ञानानां प्रत्ययभावेन वा कर्ता भवेत् स्वामित्वेन वा । तत्र तावत् ।
द्वयं प्रतीत्य विज्ञानसंभवात्प्रत्ययो न सः ।
किं कारणं । नैरर्थक्यात् । न हि तस्य तत्र किंचित्सामर्थ्यं दृष्टं ।
स्वामित्वे सति वानित्यमनिष्टं न प्रवर्तयेत् ॥
स हि विज्ञानप्रवृत्तौ स्वामीभवन्ननि[भवन्नि]ष्टं विज्ञानमनित्यं न प्रवर्तयेत् । अनिष्टं च । नैव तस्मादुभयथाप्यसंभवात् । असौ द्रष्टा यावन्मोक्ता न युज्यते । अपि खलु यदि द्रव्यतः पुद्गलो ऽस्ति ।
तत्कर्मलक्षणं साध्यं
यदि द्रव्यतो ऽस्तितस्य कर्माप्युपलभ्यते । यथा चक्षुरादीनां दर्शनादिलक्षणं च रूपप्रसादादि । न चैवं पुद्गलस्य । तस्मान्न सो ऽस्ति द्रव्यतः । तस्मिंश्च द्रव्यत इष्यमाणे बुद्धस्य भगवतः ।
संबोधो बाध्यते त्रिधा ।
गम्भीराभिसंबोधः । असाधारणाभिसंबोधः । लोकोत्तराभिसंबोधश्च । न हि पुद्गलाभिसंबोधे किंचिद्गम्भीरमभिसंबुद्धं भवति । न तीर्थ्यासाधारणं । न लोकानुचित्तं । तथा ह्येष ग्राहः सर्वलोकगम्यः । तीर्थ्याभिनिविष्टः । दिर्घसंसारोचित्तश्च । अपि खलु पुद्गलो द्रष्टा भवन् यावद्विज्ञाता दर्शनादिषु सप्रयत्नो वा भवेन्निष्प्रयत्नो वा । सप्रयत्नस्य वा पुनरसौ प्रयत्नः स्वयंभूर्वा भवेदाकस्मिकः । तत्प्रत्ययो [वा?]
दर्शनादौ च तद्यत्नः स्वयंभूर्न त्रयादपि ।
तस्मादेव च दोषत्रयाद्वक्ष्यमाणात्
तद्यत्नप्रत्ययत्वं च
नेति वर्तते । निष्प्रयत्नस्य वा पुनः सतः सिद्धं भवति ।
निर्यत्नं दर्शनादिकम् ।
इत्यसति व्यापारे पुद्गलस्य दर्शनादौ कथमसौ द्रष्टा भवति । यावद्विज्ञाता । दोषत्रयादित्युक्तं कतमस्माद्दोषत्रयात् ।
अकर्तृत्वादनित्यत्वात्सकृन्नित्यप्रवृत्तितः ।
दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥
यदि दर्शनादिषु प्रयत्न आकस्मिको यतो दर्शनादीनि । न तर्हि तेषां पुद्गलः कर्तेति कथमसौ द्रष्टा भवति यावद्विज्ञाता सति वाकस्मिकत्वे निरपेक्षत्वात् न कदाचित्प्रयत्नो न स्यादनित्यो न स्यात् । नित्ये च प्रयत्ने दर्शनादीनां युगपच्च नित्यं च प्रवृत्तिः स्यादिति दोषः । तस्मान्न युज्यते दर्शनादिषु प्रयत्नस्य स्वयंभूत्वं ।
तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः ।
तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते ॥
अथ पुद्गलप्रत्ययः प्रयत्नः स्यात् । तस्य तथा स्थितस्य प्रत्ययत्वं न युज्यते । प्रागभावात् । सति हि तत्प्रत्ययत्वे न कदाचित्पुद्गलो नास्तीति । किमर्थं प्राक् प्रयत्नो न स्याद्यदा नोत्पन्नः । विनष्टस्यापि प्रत्ययत्वं न युज्यते पुद्गलस्यानित्यत्वप्रसङ्गात् । ( म्स_बग्छि 152 ) तृतीयश्च कश्चित्पक्षो नास्ति यन्न स्थितो न विनष्टः स्यादिति । तत्प्रत्ययो ऽपि प्रयत्नो न युज्यते । एवं तावद्युक्तिमाश्रित्य द्रव्यतः पुद्गलो नोपलभ्यते ।
सर्वे धर्मा अनात्मानः परमार्थेन शून्यता ।
आत्मोपलम्भे दोषश्च देशितो यत एव च ॥
धर्मोद्दानेषु हि भगवता सर्वे धर्मा अनात्मान इति देशितं परमार्थशून्यतायामस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान्प्रतिसंदधाति । अन्यत्र धर्मसंकेतादिति देशितं । पञ्चकेषु पञ्चादीनवा आत्मोपलम्भ इति देशिता । आत्मदृष्टिर्भवति जीवदृष्टिः निर्विशेषो भवति तीर्थिकैः । उन्मार्गप्रतिपन्नो भवति । शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते नाधिमुच्यते । आर्यधर्मा अस्य न व्यवदायन्ते । एवमागमतो ऽपि न युज्यते । पुद्गलो ऽपि हि भगवता तत्र तत्र देशितः । परिज्ञातावी भारहारः श्रद्धानुसार्यादिपुद्गलव्यवस्थानत इत्यसति द्रव्यतो ऽस्तित्वे कस्माद्देशितः ।
संक्लेशे व्यवदाने च अवस्थाच्छेदभिन्नके ।
वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥
अवस्थाभिन्ने हि संक्लेशव्यवदाने छेदभिन्ने च । पुद्गलप्रज्ञप्तिमन्तरेण तद्वृत्तिभेदः संतानभेदश्च देशयितुं न शक्यः । तत्र परिज्ञासूत्रे परिज्ञेया धर्माः संक्लेशः परिज्ञा व्यवदानं । भारहारसूत्रे । भारो भारादानं च संक्लेशः । भारनिक्षेपणं व्यवदानं । तयोर्वृत्तिभेदः संतानभेदश्चान्तरेण परिज्ञाताविभारहारपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं । बोधिपक्षाश्च धर्मा बहुधावस्थाः प्रयोगदर्शनभावनानिष्ठामार्ग विशेषभेदतः । तेषां वृत्तिभेदः संतानभेदश्चान्तरेण श्रद्धानुसार्यादिपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं । येनासति द्रव्यतो ऽस्तित्वे पुद्गलो देशित इत्ययमत्र नयो वेदितव्यः । इतरथा हि पुद्गलदेशना निष्प्रयोजना प्राप्नोति । न हि तावदसावात्मदृष्ट्युत्पादनार्थं युज्यते यस्मात्
आत्मदृष्टिरनूत्पाद्या
पूर्वमेवोत्पन्नत्वात् । नापि तदभ्यासार्थं यस्मादात्मदृष्टेर्
अभ्यासो ऽनादिकालिकः ।
यदि चात्मदर्शनेन मोक्ष इत्यसौ देश्येत । एवं सति स्यात्
अयत्नमोक्षः सर्वेषां
तथा हि सर्वेषां न दृष्टसत्यानामात्मदर्शनं विद्यते । नैव वा मोक्षो ऽस्तीति प्राप्नोति । न हि पूर्वमात्मानमनात्मतो गृहीत्वा सत्याभिसमयकाले कश्चिदात्मतो गृह्णाति । ( म्स_बग्छि 153 ) यथा दुःखं दुःखतः पूर्वमगृहीत्वा पश्चाद्गृह्णातीति यथापूर्वं तथा पश्चादपि मोक्षो न स्यात् । सति चात्मन्यवश्यमहंकारममकाराभ्यामात्मतृष्णया चान्यैश्च तन्निदानैः क्लेशैर्भवितव्यमिति अतो ऽपि मोक्षो न स्यात् । न वा पुद्गलो ऽस्तीति अभ्युपगन्तव्यं । तस्मिन्हि सति नियतमेते दोषाः प्रसज्यन्ते ।
एवमेभिर्गुणैर्नित्यं बोधिसत्त्वाः समन्विताः ।
आत्मार्थं च न रिञ्चन्ति परार्थं साधयन्ति च
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0