भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार · अध्याय 20

20.1

अत्रैकादशविधेनातीतादिना बोधेन बोधिसत्त्वः परिदीपितः । तत्र लाभी अलाभी धीसंस्थितश्चातीतानागतप्रत्युत्पन्नैर्बोधैर्यथाक्रमं । बोद्धा स्वयंबोधात् । अनुबोद्धा परतो बोधादेतेनाध्यात्मिकबाह्यं बोधं दर्शयति । प्रतिदेशको निर्जल्पबुद्धिरित्यौदारिकसूक्ष्मं । मानी हतमानीति हीनप्रणीतम् । अपक्वसंपक्वमतिश्चेति दूरान्तिकं बोधं दर्शयति ।
॥ महायानसूत्रालंकारे गुणाधिकारः [एकोनविंशतितमः?] समाप्तः ॥
विंशतितमएकविंशतितमश्चाधिकारः
लिङ्गविभागे द्वौ श्लोकौ ।
अनुकम्पा प्रियाख्यानं धीरता मुक्तहस्तता ।
गम्भीरसंधिनिर्मोक्षो लिङ्गान्येतानि धीमतां

20.2

परिग्रहे ऽधिमुक्त्याप्तावखेदे द्वयसंग्रहे ।
आशयाच्च प्रयोगाच्च विज्ञेयं लिङ्गपञ्चकं

20.3

तत्रप्रथमेन श्लोकेन पञ्च बोधिसत्त्वलिङ्गानि दर्शयति । द्वितीयेन तेषां कर्म समास संग्रहं च । तत्रानुकम्पा बोधिचित्तेन सत्त्वपरिग्रहार्थं प्रियाख्यानं सत्त्वानां बुद्धशासनाधिमुक्तिलाभार्थं धीरता दुष्करचर्यादिभिरखेदार्थं मुक्तहस्तता गम्भीरसंधिनिर्मोक्षणं च द्वयेन संग्रहार्थमामिषेण धर्मेण च यथाक्रमम् । एषां पञ्चानां लिङ्गानाम् अनुकम्पा आशयतो वेदितव्या । शेषाणि प्रयोगतः ।
गृहिप्रव्रजितपक्षविभागे त्रयः श्लोकाः ।
बोधिसत्त्वा हि सततं भवन्तश्चक्रवर्तिनः ।
प्रकुर्वन्ति हि सत्त्वार्थं गृहिणः सर्वजन्मसु

20.4

आदानलब्धा प्रव्रज्या धर्मतोपगता परा ।
निदर्शिका च प्रव्रज्या धीमतां सर्वभूमिषु

20.5

अप्रमेयैर्गुणैर्युक्तः पक्षः प्रव्रजितस्य तु ।
गृहिणो बोधिसत्त्वाद्धि यतिस्तस्माद्विशिष्यते

20.6

एकेन श्लोकेन यादृशे गृहिपक्षे स्थितो बोधिसत्त्वः सत्त्वार्थं करोति तत्परिदीपितं । द्वितीयेन यादृशे प्रव्रजितपक्षे । तत्र त्रिविधा प्रव्रज्या वेदितव्या । समादानलब्धा । धर्मतालब्धा । निदर्शिका च निर्माणैः । तृतीयेन गृहिपक्षात् प्रव्रजितपक्षस्य विशेषः परिदीपितः ।
अध्याशयविभागे श्लोकः षट्पादः ।
परत्रेष्टफलेच्छा च शुभवृत्ताविहैव च ।
निर्वाणेच्छा च धीराणां सत्त्वेष्वाशय इष्यते ।
अशुद्धश्च विशुद्धश्च सुविशुद्धः सर्वभूमिषु

20.7

एतेन समासतः पञ्चविधो ऽध्याशयः परिदीपितः । सुखाध्याशयः । परत्रेष्टफलेच्छाहिताध्याशयः इहैव कुशलप्रवृत्तीच्छा निर्वाणेच्छा तदुभयाध्याशय एवेति नान्यो वेदितव्यः । अशुद्धादिकास्त्रयो ऽध्याशया अप्रविष्टानां । भूमिप्रविष्टानां । अविनिवर्तनीयभूमिप्राप्तानां च यथाक्रमं वेदितव्याः ।
परिग्रहविभागे श्लोकः ।
प्रणिधानात्समाच्चित्तादाधिपत्यात्परिग्रहः ।
गणस्य कर्षणत्वाच्च धीमतां सर्वभूमिषु

20.8

चतुर्विधः सत्त्वपरिग्रहो बोधिसत्त्वानां प्रणिधानपरिग्रहो वेदितव्यो बोधिचित्तेन सर्वसत्त्वपरिग्रहणात् । समचित्ततापरिग्रह आत्मपरसमतालाभादभिसमयकाले । आधिपत्यपरिग्रहः स्वामिभूतस्य येषामसौ स्वामी । गणपरिकर्षणपरिग्रहश्च शिष्यगणोपादनात् ।
उपपत्तिविभागे श्लोकः ।
कर्मणश्चाधिपत्येन प्रणिधानस्य चापरा ।
समाधेश्च विभुत्वस्य चोत्पत्तिर्धीमतां मता

20.9

चतुर्विधा बोधिसत्त्वानामुपपत्तिः कर्माधिपत्येन याधिमुक्तिचर्याभूमिस्थितानां कर्मवशेनाभिप्रेतस्थानोपपत्तिः प्रणिधानवशेन या भूमिप्रविष्टानां सर्वसत्त्वपरिपाचनार्थं तिर्यगादिहीनस्थानोपपत्तिः । समाध्याधिपत्येन या ध्यानानि व्यावर्त्य कामधातावुपपत्तिः । विभुत्वाधिपत्येन या निर्माणैस्तुषितभवनाद्युपपत्तिसंदर्शनात् ।
विहारभूमिविभागे त्रिंशत् [उदान] श्लोकाः ।
लक्षणात्पुद्लाच्छिक्षास्कन्धनिष्पत्तिलिङ्गतः ।
निरुक्तेः प्राप्तितश्चैव विहारो भूमिरेव च

20.10

लक्षणविभागमारभ्य पञ्च श्लोकाः ।
शून्यता परमात्मस्य कर्म[आ?]नाशे व्यवस्थितिः ।
विहृत्य ससुखैर्ध्यानैर्जन्म कामे ततः परम्

20.11

ततश्च बोधिपक्षाणां संसारे परिणामना ।
विना च चित्तसंक्लेशं सत्त्वानां परिपाचना

20.12

उपपत्तौ च संचित्य संक्लेशस्यानुरक्षणा ।
एकायनपथश्लिष्टानिमित्तैकान्तिकः पथः

20.13

अनिमित्ते ऽप्यनाभोगः क्षेत्रस्य च विशोधना ।
सत्त्वपाकस्य निष्पत्तिर्जायते च ततः परम्

20.14

समाधिधारणीनां च बोधेश्चैव विशुद्धता ।
एतस्माच्च व्यवस्थानाद्विज्ञेयं भूमिलक्षणम्

20.15

एकादश विहारा एकादश भूमयः । तेपां लक्षणं । प्रथमायां भूमौ परमशून्यताभिसमयो लक्षणं पुद्गलधर्म नैरात्म्याभिसमयात् । द्वितीयायां कर्मणामविप्रणाशव्यवस्थानं कुशलाकुशलकर्मपथतत्फलवैचित्र्यज्ञानात् । तृतीयायां सातिशयसुखैर्बोधिसत्त्वध्यानैर्विहृत्यापरिहीनस्यैव तेभ्यः कामधातावुपपत्तिः । चतुर्थ्या बोधिपक्षबहुलविहारिणो ऽपि बोधिपक्षाणां संसारे परिणामना । पञ्चभ्यां चतुरार्यसत्यबहुलविहारितयाविनात्मनश्चित्तसंक्लेशेन सत्त्वानां परिपाचनायां नानाशास्त्रशिल्पप्रणयनात् । षष्ठ्यां प्रतीत्यसमुत्पादबहुलविहारितया संचित्यभवोपपत्तौ तत्र संक्लेशस्यानुरक्षणा । सप्तम्यां मिश्रोपमिश्रत्वेनैकायनपथस्याष्टमस्य विहारस्य श्लिष्ट आनिमित्तिकैकान्तिको मार्गः । अष्टभ्यामनिमित्ते ऽप्यनाभोगो निरभिसंस्कारानिमित्तविहारित्वाद् बुद्धक्षेत्रपरिशोधना च । नवम्यां प्रतिसंविद्वशितया सत्त्वपरिपाकनिष्पत्तिः सर्वाकारपरिपाचनसामर्थ्यात् । दशम्यां समाधिमुखानां धारणीमुखानां च विशुद्धता । एकादश्यां बुद्धभूमौ बोधिविशुद्धता लक्षणां [णं]सर्वज्ञेयावरणप्रहाणात् ।
भूमिष्ठे च [ष्वेवं] पुद्गलविभागमारभ्य द्वौ श्लोकौ ।
विशुद्धदृष्टिः सुविशुद्धशीलः समाहितो धर्मविभूतमानः ।
संतानसंक्लेशविशुद्धिभेदे निर्माण एकक्षणलब्धबुद्धिः

20.16

उपेक्षकः क्षेत्रविशोधकश्च स्यात्सत्त्वपाके कुशलो महर्द्धिः ।
संपूर्णकायश्च निदर्शने च शक्तो ऽभिषिक्तः खलु बोधिसत्त्वः

20.17

दशसु भूमिषु दश बोधिसत्त्वा व्यवस्थाप्यन्ते । प्रथमायां विशुद्धदृष्टिः पुद्गलधर्मदृष्टिप्रतिपक्षज्ञानलाभात् । द्वितीयायां सुविशुद्धशीलः सूक्ष्मापत्तिस्खलितसमुदाचारस्याप्यभावात् । तृतीयायां समाहितो भवत्यच्युतध्यानसमाधिलाभात् । चतुर्थ्यां धर्मविभूतमानः सूत्रादिधर्मनानात्वमानस्य विभूतत्वात् । पञ्चम्यां संतानभेदे निर्माणो दशभिश्चित्ताशयविशुद्धिसमताभिः सर्वसंतानसमताप्रवेशात् । षष्ठ्यां संक्लेशव्यवदानभेदे निर्माणः प्रतीत्यसमुत्पादतथताबहुलविहारितया कृष्णशुक्लपक्षाभ्यां तथतायाः संक्लेशव्यवदानादर्शनात् । प्रकृतिविशुद्धितामुपादाय । सप्तम्यामेकचित्तक्षलब्धबुद्धिर्निर्निमित्तविहारसामर्थ्यात् प्रतिक्षणं सप्तत्रिंशद्बोधिपक्षभावनातः । अष्टम्यामुपेक्षकः क्षेत्रविशोधकश्चानाभोगनिर्निमित्तविहारित्वाद् मिश्रोपमिश्रप्रयोगतश्चाविनिवर्तनीयभूमिप्रविष्टैर्बोधिसत्त्वैः । नवम्यां सत्त्वपरिपाककुशलः ( म्स_बग्छि 171 ) पूर्ववत् । दशम्यां बोधिसत्त्वभूमौ बोधिसत्त्वो महर्द्धिकश्च व्यवस्थाप्यते महाभिज्ञालाभात् । संपूर्णधर्मकायश्चाप्रमाणसमाधिधारणीमुखस्फुरणादाश्रयस्य निदर्शने च शक्तो व्यवस्थाप्यते तुषितभवनवासादिनिर्माणनिदर्शनात् । अभिषिक्तश्च बुद्धत्वे सर्वबुद्धेभ्यस्तत्राभिषेकलाभात् ।
शिक्षाव्यवस्थानमारभ्य पञ्च श्लोकाः ।
धर्मतां प्रतिविध्येह अधिशीले ऽनुशीक्षणे ।
अधिचित्ते ऽप्यधिप्रज्ञे प्रज्ञा तु द्वयगोचरा

20.18

धर्मतत्त्वं तदज्ञानज्ञानाद्या वृत्तिरेव च ।
प्रज्ञाया गोचरस्तस्माद् द्विभूमौ तद्व्यवस्थितिः

20.19

शिक्षाणां भावनायाश्च फलमन्यच्चतुर्विधम् ।
अनिमित्तसंस्कारो विहारः प्रथमं फलम्

20.20

स एवानभिसंस्कारो द्वितीयं फलमिष्यते ।
क्षेत्रशुद्धिश्च सत्त्वानां पाकनिष्पत्तिरेव च

20.21

समाधिधारणीनां च निष्पत्तिः परमं फलं ।
चतुर्विधं फलं ह्येतत् चतुर्भूमिसमाश्रितम्

20.22

प्रथमायां भूमौ धर्मतां प्रतिविध्य द्वितियायामधिशीलं शिक्षते । तृतीयायामधिचित्तं । चतुर्थीपञ्चमीषष्ठीष्वधिप्रज्ञं । बोधिपक्षसंगृहीता हि प्रज्ञा चतुर्थ्यां भूमौ । सा पुनर्द्वयगोचरा भूमिद्वये । द्वयं पुनर्धर्मतत्त्वं च दुःखादिसत्यं । तदज्ञानज्ञानादिका च वृत्तिरनुलोमः [प्रतिलोमः?] प्रतीत्यसमुत्पादः । तदज्ञानादिका हि वृत्तिरविद्यादिका । तज्ज्ञानादिका च वृत्तिर्विद्यादिका । तस्माद्भूमिद्वये ऽप्यधिप्रज्ञव्यवस्थानं । अतः परं चतुर्विधं शिक्षाफलं चतुर्भूमिसमाश्रितं वेदितव्यं यथाक्रमं । तत्र[प्रथमं फलम् अनिमित्तोविहारः ससंस्कारः?] द्वितीयं फलं स एवानिमित्तो विहारो ऽनभिसंस्कारः क्षेत्रपरिशुद्धिश्च वेदितव्यं । शेषं गतार्थम् ।
स्कन्धव्यवस्थानमारभ्य द्वौ श्लोकौ ।
धर्मतां प्रतिविध्येह शीलस्कन्धस्य शोधना ।
समाधिप्रज्ञास्कन्धस्य तत ऊर्ध्वं विशोधना

20.23

विमुक्तिमुक्तिज्ञानस्य तदन्यासु विशोधना ।
चतुर्विधादावरणात् प्रतिघातावृतेरपि

20.24

तदन्यास्विति सप्तम्यां यावद् बुद्धभूमावुभयोर्विमुक्तिविमुक्तिज्ञानयोर्विशोधना । सा पुनर्विमुक्तिश्चतुर्विधफलावरणाच्च वेदितव्या । प्रतिघातावरणाच्च बुद्धभूमौ । येनान्येषां ज्ञेये ज्ञानं प्रतिहन्यते । बुद्धानां तु तद्विमोक्षात् सर्वत्राप्रतिहतं ज्ञानं । शेषं गतार्थम् ।
निष्पत्तिव्यवस्थानमारभ्य त्रयः श्लोकाः ।
अनिष्पन्नाश्च निष्पन्ना विज्ञेयाः सर्वभूमयः ।
निष्पन्ना अप्यनिष्पन्ना निष्पन्नाश्च पुनर्मताः

20.25

निष्पत्तिर्विज्ञेया यथाव्यवस्थानमनसिकारेण ।
तत्कल्पनताज्ञानादविकल्पनया च तस्यैव

20.26

भावना अपि निष्पत्तिरचिन्त्यं सर्वभूमिषु ।
प्रत्यात्मवेदनीयत्वात् बुद्धानां विषयादपि

20.27

तत्राधिमुक्तिचर्याभूमिरनिष्पन्ना । शेषा निष्पन्ना इत्येताः सर्वभूमयः । निष्पन्ना अपि पुनः सप्तानिष्पन्नाः । शेषा निष्पन्ना निरभिसंस्कारवाहित्वात् । यत्पुनः प्रमुदितादिभूमिर्निष्पन्ना पूर्वमुक्ता तत्र निष्पत्तिर्यथाव्यवस्थापितभूमिमनसिकारेण । तस्य भूमिव्यवस्थानस्य कल्पनामात्रज्ञानात् तदविकल्पना[नया] च वेदितव्या । यदा तद्भूमिव्यवस्थानं कल्पनामात्रं जानीते । तदपि च कल्पनामात्रं न विकल्पयत्येवं ग्राह्यग्राहकाविकल्पज्ञानलाभाद्भूमिपरिनिष्पत्तिरुक्ता भवति । अपि खलु भूमीनां भावना च निष्पत्तिश्चोभयमचिन्त्यं सर्वभूमिषु । तथा हि तद्बोधिसत्त्वानां प्रत्यात्मवेदनीयं बुद्धानां च विषयो नान्येषाम् ।
भूमिप्रतिष्ठ[विष्ट]स्य लिङ्गविभागमारभ्य द्वौ श्लोकौ ।
अधिमुक्तिर्हि सर्वत्र सालोका लिङ्गमिष्यते ।
अलीनत्वमदीनत्वमपरप्रत्ययात्मता

20.28

प्रतिवेधश्च सर्वत्र सर्वत्र समचित्तता ।
अनेयानुनयोपायज्ञानं मण्डलजन्म च

20.29

एतद्भूमिप्रविष्टस्य बोधिसत्त्वस्य दशविधं लिङ्गं सर्वासु भूमिषु वेदितव्यं । यां भूमिं प्रविष्टस्तत्र सालोको यां न प्रविष्टस्तत्राधिमुक्तिरित्येतदेकं लिङ्गम् । अलीनत्वं परमोदारगम्भीरेषु धर्मेषु । अदीनत्वं दुष्करचर्यासु । अपरप्रत्ययत्वं स्वस्यां भूमौ । सर्वभूमिप्रतिवेधश्च तदभिनिर्हारकौशल्यतः सर्वसत्त्वेष्वात्मसमचित्तता । अनेया वर्णावर्णशब्दाभ्यां । अननुनयश्चक्रवर्तीत्यादिसंपत्तिषु । उपायकौशल्यमनुपलम्भस्तस्य[लम्भस्य] बुद्धत्वोपायज्ञानात् । बुद्धपर्षन्मण्डलेषु चोत्पत्तिः सर्वकालमित्येतानि अपराणि लिङ्गानि बोधिसत्त्वस्य ।
भूमिषु पारमितालाभलिङ्गविभागे द्वौ श्लोकौ ।
नाच्छन्दो न च लुब्धह्रस्वहृदयो न क्रोधनो नालसो
नामैत्रीकरूणाशयो न कुमतिः कल्पर्विकल्पर्हतः ।
नो विक्षिप्तमतिः सुखैर्न च हतो दुःखर्न वा [व्या]वर्तते
सत्यं मित्रमुपाश्रितः श्रुतपरः पूजापरः शास्तरि

20.30

सर्वं पुण्यसमुच्चयं सुविपुलं कृत्वान्यसाधारणं
संबोधौ परिणामयत्यहरहर्यो ह्युत्तमोपायवित् ।
जातः स्वायतने सदा शुभकरः क्रीडत्यभिज्ञागुणैः
सर्वेषामुपरिस्थितो गुणनिधिर्ज्ञेयः स बुद्धात्मजः

20.31

दशपारमितालाभिनो बोधिसत्त्वस्य षोडशविधं लिङ्गं दर्शयति । षोडशविधं लिङ्गं । सदा पारमिताप्रतिपत्तिच्छन्देनाविरहितत्वं । षट्पारमिताविपक्षैश्च रहितत्वं प्रत्येकम् । अन्ययानमनसिकारेणाविक्षिप्तता । संपत्तिसुखेष्वसक्तता । विपत्तिदुष्करचर्यादुःखैः प्रयोगानिर्वर्तिता । कल्याणमित्राश्रयः । श्रुतपरत्वं । शास्तृपूजापरत्वं । सम्यक्परिणामना उपायकौशल्यपारमितया । स्वायतनोपपत्तिः प्रणिधानपारमितया बुद्धबोधिसत्त्वाविरहितस्थानोपपत्तेः । सदाशुभकरत्वे[त्वं]बलपारमितया तद्विपक्षधर्माव्यवकिरणात् । अभिज्ञागुणविक्रीडनं च ज्ञानपारमितया । तत्र मैत्री व्यापादप्रतिपक्षः सुखोपसंहाराशयः । करुणा विहिंसाप्रतिपक्षो दुःखापगमाशयः । स्वभावकल्पनं कल्पः । विशेषकल्पनं विकल्पो वेदितव्यः ।
तत्रैवानुशंसविभागे श्लोकः ।
शमथे विपश्यनायां च द्वयपञ्चात्मको मतः ।
धीमतामनुशंसो हि सर्वथा सर्वभूमिषु

20.32

तत्रैव पारमितालाभे सर्वभूमिषु बोधिसत्त्वानां सर्वप्रकारो ऽनुशंसः पञ्चविधो वेदितव्यः । प्रतिक्षणं सर्वदौष्ठुल्याश्रयं द्रावयति । नानात्वसंज्ञाविगतिं च धर्मारामरतिः प्रतिलभते । अपरिच्छिन्नाकारं च सर्वतो ऽप्रमाणं धर्मावभासं संजानीते । अविकल्पितानि चास्य विशुद्धिभागीयानि निमित्तानि समुदाचरन्ति । धर्मकायपरिपूरिपरिनिष्पत्तये च उत्तरादुत्तरतरं हेतुसंपरिग्रहं करोति । तत्र प्रथमद्वितीयौ शमथपक्षे वेदितव्यौ । तृतीयचतुर्थौ विपश्यनापक्षे । शेषमुभयपक्षे ।
भूमिनिरुक्तिविभागे नव श्लोकाः ।
पश्यतां बोधिमासन्नां सत्त्वार्थस्य च साधनं ।
तीव्र उत्पद्यते मोदो मुदिता तेन कथ्यते

20.33

अत्र न किंचिद्व्याख्येयं ।
दौः शील्याभोगवैमल्याद्विमला भूमिरुच्यते ।
दौः शील्यमलस्यान्ययानमनसिकारमलस्य चातिक्रमाद्विमलेत्युच्यते । तस्मात्तर्ह्यस्माभिस्तुल्याभिनिर्हारे सर्वाकारपरिशोधनाभिनिर्हार एव योगः करणीय इति वचनात् ।
महाधर्मावभासस्य करणाच्च प्रभाकरी

20.34

तथा हि तस्यां समाधिबलेनाप्रमाणधर्मपर्येषणधारणात् महान्तं धर्मावभासं परेषां करोति ।
अर्चिर्भूता यतो धर्मा बोधिपक्षाः प्रदाहकाः ।
अर्चिष्मतीति तद्योगात्सा भूमिर्द्वयदाहतः

20.35

सा हि बोधिपक्षात्मिका प्रज्ञा द्वयदहनप्रत्युपस्थाना तस्यां बाहुल्येन । द्व्यं पुनः क्लेशावरणं ज्ञेयावरणं चात्र वेदितव्यम् ।
सत्त्वानां परिपाकश्च स्वचित्तस्य च रक्षणा ।
धीमद्भिर्जीयते दुःखं दुर्जया तेन कथ्यते

20.36

तत्र सत्त्वपरिपाकाभियुक्तो ऽपि न संक्लिश्यते । सत्त्वविप्रतिपत्त्या तच्चोभयं दुष्करत्वाद् दुर्जयम् ।
आभिमुख्याद् द्व्यस्येह संसारस्यापि निर्वृतेः ।
उक्ता ह्यभिमुखी भूमिः प्रज्ञापारमिताश्रयात्

20.37

सा हि प्रज्ञापारमिताश्रयेण निर्वाणसंसारयोरप्रतिष्ठानात् संसारनिर्वाणयोरभिमुखी ।
एकायनपथश्लेषाद्भूमिर्दूरंगमा मता ।
एकायनपथः पूर्वं निर्दिष्टस्तदुपश्लिष्टत्वात् दूरं गता भवति प्रयोगपर्यन्तगमनात् ।
द्वयसंज्ञाविचलनादचला च निरुच्यते

20.38

द्वाभ्यां संज्ञाभ्यां अविचलनात् । निमित्तसंज्ञया[निमित्ताभोगसंज्ञया]अनिमित्ताभोगसंज्ञया च ।
प्रतिसंविन्मतिसाधुत्वाद्भूमिः साधुमती मता ।
प्रतिसंविन्मतेः साधुत्वादिति प्रधानत्वात् ।
धर्ममेघा द्वयव्याप्तेर्धर्माकाशस्य मेघवत्

20.39

द्वयव्याप्तेरिति समाधिमुखधारणीमुखव्यापनान्मेघेनेवाकाशस्थलीयस्याश्रयसंनिविष्टस्य श्रुतधर्मस्य धर्ममेघेत्युच्यते ।
विविधे शुभनिर्हारे रत्या विहरणात्सदा ।
सर्वत्र बोधिसत्त्वानां विहारभूमयो मताः

20.40

विविधकुशलाभिनिर्हारनिमित्तं सदा सर्वत्र रत्या विहरणाद्वोधिसत्त्वानां भूमयो विहारा इत्युच्यन्ते ।
भूयो भूयो ऽमितास्वासु ऊर्ध्वंगमनयोगतः ।
भूतामिताभयार्थाय त एवेष्टा हि भूमयः

20.41

भूयो भूयो ऽमितास्वासूर्ध्वंगमनयोगाद्भूतामिताभयार्थाय त एव विहाराः पुनर्भूमय उच्यन्ते । अमितास्विति दशसु भूमिषु एकैकस्याप्रमाणत्वात् । ऊर्ध्वंगमनयोगादिति उपरिभूमिगमनयोगात् । भूतामिताभयार्थमित्यमितानां भूतानां भयप्रहाणार्थम् ।
प्राप्तिविहारे[विभागे]श्लोकः ।
भूमिलाभे[भो]ऽधिमुक्तेश्च चरितेषु च वर्तनात् ।
प्रतिवेधाच्च भूमीनां निष्पत्तेश्च चतुर्विधः

20.42

चतुर्विधो भूमीनां लाभः । अधिमुक्तिलाभो यथोक्ताधिमुक्तितो ऽधिमुक्तिचर्याभूमौ । चरितलाभो दशसु धर्मचरितेषु वर्तनात्तस्यामेव । परमार्थ [प्रतिवेध] लाभः परमार्थप्रतिवेधतो भूमिप्रवेशे । निष्पतिलाभश्चाविनिवर्तनीयभूमिप्रवेशे ।
चर्याविभागे श्लोकः षट्पादः ।
महायाने ऽधिमुक्तानां हीनयाने च देहिनां ।
द्वयोरावर्जनार्थाय विनयाय च देशिताः ।
चर्याश्चतस्रो धीराणां यथासूत्रानुसारतः

20.43

तत्र पारमिताचर्या महायानाधिमुक्तानामर्थे देशिता । बोधिपक्षचर्या श्रावकप्रत्येकबुद्धयानाधिमुक्तानाम् । अभिज्ञाचर्या द्वयोरपि महायानहीनयानाधिमुक्तयोः प्रभावेणावर्जनार्थं । सत्त्वपरिपाकचर्या द्वयोरेव परिपाचनार्थं । परिपाचनं ह्यत्र विनयनम् ।
बुद्धगुणविभागे बहवः श्लोकाः । अप्रमाणविभागे तद् बुद्धस्तोत्रमारभ्यैकः ।
अनुकम्पकसत्त्वेषु संयोगविगमाशय ।
अवियोगाशय सौख्यहिताशय नमो ऽस्तुते

20.44

[अत्र] अनुकम्पकत्वं सत्त्वेषु हितसुखाशयत्वेन संदर्शितं । सुखाशयत्वं पुनः सुखसंयोगाशयत्वेन मैत्र्या । दुःखवियोगाशयत्वेन च करुणया । सुखावियोगाशयत्वेन च मुदितया । हिताशयत्वमुपेक्षया । सा पुनर्निः संक्लेशताशयलक्षणा वेदितव्या ।
विमोक्षाभिभ्वायतनकृत्स्नायतनविभागे श्लोकाः ।
सर्वावरणनिर्मुक्त सर्वलोकाभिभू मुने ।
ज्ञानेन ज्ञेयं व्याप्तं ते मुक्तचित्त नमो ऽस्तुते

20.45

अत्र विमोक्षविशेषं भगवतः सर्वक्लेशज्ञेयावरणनिर्मुक्ततया दर्शयति । अभिभ्वायतनविशेषं सर्वलोकाभिभुत्वेन स्वचित्तवशवर्तनाद्यथेष्टालम्बननिर्माणपरिणामनताधिष्ठानतः । कृत्स्नायतनविशेषं सर्वज्ञेयज्ञानाव्याघाततः [ज्ञानव्याप्तः] । अत एव विमोक्षादिगुणविपक्षमुक्तत्वात् मुक्तचित्तः ।
अरणाविभागे श्लोकः ।
अशेषं सर्वसत्त्वानां सर्वक्लेशविनाशक ।
क्लेशप्रहारक क्लिष्टसानुक्रोश नमो ऽस्तुते

20.46

अत्रारणाविशेषं भगवतः सर्वसत्त्वक्लेशविनयनादुत्पादितक्लेशेष्वपि च तत्क्लेशप्रतिपक्षविधानात् क्लिष्टजनानुकम्पया संदर्शयति । अन्ये ह्यरणाविहारिणः सत्त्वानां कस्यचिदेव तदालम्बनस्य क्लेशस्योत्पत्तिप्रत्ययमात्रं प्रतिहरन्ति । न तु क्लेशसंतानादपनयन्ति ।
प्रणिधिज्ञानविशेषे[विभागे]श्लोकः ।
अनाभोग निरासङ्ग अव्याघात समाहित ।
सदैव सर्वप्रश्नानां विसर्जक नमो ऽस्तु ते

20.47

अत्र पञ्चभिराकारैः प्रणिधिज्ञानविशेषं भगवतः संदर्शयति । अनाभोगसंमुखीभावतः । असक्तिसंमुखीभावतः । सर्वज्ञेयाव्याघाततः । सदा समाहितत्वतः । सर्वसंशयच्छेदनतश्च सत्त्वानां । अन्ये हि प्रणिधिज्ञानलाभिनो नानाभोगान् [भोगेना] प्रणिधाय प्रणिधीज्ञानं संमुखीकुर्वन्ति । न चासक्तं समापत्तिप्रवेशापेक्षत्वात् । न चाव्याहतं प्रदेशज्ञानात् । न च सदा समाहिता भवन्ति न च सर्वसंशयांश्छिन्दन्ति ।
प्रतिसंविद्विभागे श्लोकः ।
आश्रये ऽथाश्रिते देश्ये वाक्ये ज्ञाने च देशिके ।
अव्याहतमते नित्यं सुदेशिक नमो ऽस्तुते

20.48

अत्र समासतो यच्च देश्यते येन च देश्यते तत्र नित्यमव्याहतमतित्वेन भगवतश्चतस्रः प्रतिसंविदो देशिताः । तत्र द्वयं देश्यते आश्रयश्च धर्मः । तदाश्रितश्चार्थः । द्वयेन देश्यते वाचा ज्ञानेन च । सुदेशिकत्वेन तासां कर्म संदर्शितम् ।
अभिज्ञाविभागे श्लोकः ।
उपेत्य वचनैस्तेषां चरिज्ञ आगतौ गतौ ।
निः सारे चैव सत्त्वानां स्वववाद नमो ऽस्तु ते

20.49

अत्र षड्भिरभिज्ञाभिः सम्यगववादत्वं भगवतो दर्शितम् । उपेत्य विनेयसकाशमृध्द्यभिज्ञया । तेषां भाषया दिव्यश्रोत्राभिज्ञया चित्तचरित्रं ज्ञात्वा चेतःपर्यायाभिज्ञया यथा पूर्वान्तादिहगतिर्यथा चापरान्ते गतिर्यथा च संसारान्निः सरणं । तत्राववादं ददात्यवशिष्टाभिस्तिसृभिरभिज्ञाभिर्यथाक्रमम् ।
लक्षणानुव्यञ्जनविभागे श्लोकः ।
सत्पौरुष्यं प्रपद्यन्ते त्वां दृष्ट्वा सर्वदेहिनः ।
दृष्टमात्रात्प्रसादस्य विधायक नमो ऽस्तु ते

20.50

अत्र लक्षणानुव्यञ्जनानां भगवति महापुरुषत्वसंप्रत्ययेन दर्शनमात्रात्परेषां प्रसादजनकत्वं कर्म संदर्शितम् ।
परिशुद्धिविभागे श्लोकः ।
आदनस्थानसंत्यागनिर्माणपरिणामने ।
समाधिज्ञानवशितामनुप्राप्त नमो ऽस्तु ते

20.51

अत्र भगवतश्चतुर्विधया वशितया सर्वाकारश्चतस्रः परिशुद्धयः परिदीपिताः । आश्रयपरिशुद्धिरात्मभावस्यादानस्थानत्यागवशितया । आलम्बनपरिशुद्धिर्निर्माणपरिणामनवशितया । चित्तपरिशुद्धिः सर्वाकारसमाधिवशितया । प्रज्ञापरिशुद्धिः सर्वाकारज्ञानवशितया ।
बलविभागे श्लोकः ।
उपाये शरणे शुद्धौ सत्त्वानां विप्रवादने ।
महायाने च निर्याणे मारभञ्ज नमो ऽस्तु ते

20.52

अत्र चतुर्ष्वर्थेषु सत्त्वानां विप्रवादनाय मारो यस्तद्भञ्जकत्वेन भगवतो दशानां बलानां कर्म संदर्शितं । यदुत सुगतिदुर्गतिगमनाद्युपायविप्रवादने । अशरणे देवादिषु शरणविप्रवादने । साश्रवशुद्धिमात्रेण शुद्धिविप्रवादने । महायाननिर्याणविप्रवादने च । ( म्स_बग्छि 178 ) स्थानास्थानज्ञानबलेन हि भगवान्प्रथमे ऽर्थे मारभञ्जको वेदितव्यः । कर्मविपाकज्ञानबलेन द्वितीये । ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तृतीये । इन्द्रियपरापरत्वादिज्ञानबलेन चतुर्थे । हीनानीन्द्रियादीनि वर्जयित्वा श्रेष्ठसंनियोजनात् ।
वैशारद्यविभागे श्लोकः ।
ज्ञानप्रहाणनिर्याणविघ्नकारकदेशिक ।
स्वपरार्थे ऽन्यतीर्थ्यानां निराधृष्य नमो ऽस्तु ते

20.53

अत्र ज्ञानप्रहाणकारकत्वेन स्वार्थे । निर्याणविघ्नदेशिकत्वेन च परार्थे । निराधृष्यत्वादन्यतीर्थ्यैर्भगवतो यथाक्रमं चतुर्विधं वैशारद्यमुद्भावितम् ।
आरक्षस्मृत्युपस्थानविभागे श्लोकः ।
वि[नि]गृह्यवक्ता पर्षत्सु द्वयसंक्लेशवर्जित ।
निरारक्ष असंमोष गणकर्ष नमो ऽस्तु ते

20.54

अनेन त्रीण्यरक्षाणि त्रीणि च स्मृत्युपस्थानानि भगवतः परिदीपितानि तेषां च कर्म गणपरिपकर्षकत्वं । तैर्हि यथाक्रमं वि[नि]गृह्यवक्ता च भवति पर्षत्सु निरारक्षत्वात् । द्व्यसंक्लेशवर्जितश्चानुनयप्रतिघाभावादसंमोषतया सदाभूय स्थितस्मृतित्वात् ।
वासनासमुद्धातविभागे श्लोकः ।
चारे विहारे सर्वत्र नास्त्यसर्वज्ञचेष्टितं ।
सर्वदा तव सर्वज्ञ भूतार्थिक नमो ऽस्तु ते

20.55

अनेन चारे विहारे वा सर्वत्र सर्वदा वासर्वज्ञचेष्टितस्याभावात् भगवतः सर्वक्लेशवासनाससुद्धातः परिदीपितः । असर्वज्ञो हि क्षीणक्लेशो ऽप्यसमुद्धातितत्वाद् वासनाया एकदा भ्रान्तेन हस्तिना सार्धं समागच्छति भ्रान्तेन रथेनेत्येवमादिकमसर्वज्ञचेष्टितं करोति । यथोक्तं माण्डव्यसूत्रे । तच्च भगवतो भूतार्थसर्वज्ञत्वं[ज्ञत्वेन]नास्ति ।
असंमोषताविभागे श्लोकः ।
सर्वसत्त्वार्थकृत्येषु कालं त्वं नातिवर्तसे ।
अबन्ध्यकृत्य सततमसंमोष नमो ऽस्तु ते

20.56

अनेन यस्य सत्त्वस्य यो ऽर्थः करणीयो यस्मिन्काले तत्कालानतिवर्तनात् अबन्ध्यं कृत्यं सदा भगवत इत्यसंमोषधर्मत्वं स्वभावतः कर्मतश्च संदर्शितम् ।
महाकरुणाविभागे श्लोकः ।
सर्वलोकमहोरात्रं षट्कृत्वः प्रत्यवेक्षसे ।
महाकरुणया युक्त हिताशय नमो ऽस्तु ते

20.57

अत्र महाकरुणा भगवतः कर्मतः स्वभावतश्च परिदीपिता । महाकरुणया हि भगवान् षट्कृत्वो रात्रिन्दिवेन लोकं प्रत्यवेक्षते को हीयते को वर्धते इत्येवमादि । तद्योगाच्च भगवान् सर्वसत्त्वेषु नित्यं हिताशयः ।
आवेणिकगुणविभागे श्लोकः ।
चारेणाधिगमेनापि ज्ञानेनापि च कर्मणा ।
सर्वश्रावकप्रत्येकबुद्धोत्तम नमो ऽस्तु ते

20.58

अत्र चारसंगृहीतैः षड्भिरावेणिकैर्बुद्धधर्मैः । अधिगमसंगृहीतैः षड्भिः । ज्ञानसंगृहीतैस्त्रिभिः । कर्मसंगृहीतैश्च त्रिभिः । तदन्यसत्त्वोत्तमानामपि श्रावकप्रत्येकबुद्धानामन्तिकादुत्तमत्वेन सर्वसत्त्वोत्तमत्वं भगवतः परिदीपितं । तत्र नास्ति तथागतस्य स्खलितं । नास्ति रवितं । नास्ति मुषिता स्मृतिः । नास्त्यसमाहितं चित्तं । नास्ति नानात्वसंज्ञा । नास्त्यप्रतिसंख्यायोपेक्षेति चारसंगृहीताः षडावेणिका बुद्धधर्मा ये बुद्धस्यैव संविद्यन्ते नान्येषां । नास्ति छन्दपरिहाणिर्नास्ति वीर्यस्मृतिसमाधिप्रज्ञाविमुक्तिपरिहाणिरित्यधिगमसंगृहीताः षट् । अतीते ऽध्वनि तथागतस्यासङ्गमप्रतिहतं ज्ञानम् । अनागते प्रत्युत्पन्ने ऽध्वनि तथागतस्यासङ्गमप्रतिहतं ज्ञानमिति ज्ञानसंगृहीतास्त्रयः । सर्वं तथागतस्य कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति । सर्वं वाक्कर्म सर्वं मनस्कर्मेति कर्मसंगहीतास्त्रयः ।
सर्वाकारज्ञताविभागे श्लोकः ।
त्रिभिः कायैर्महाबोधिं सर्वाकारामुपागत ।
सर्वत्र सर्वसत्त्वानां काङ्क्षाछिद नमो ऽस्तु ते

20.59

अनेन त्रिभिश्च कायैः सर्वाकारबोध्युपगमत्वात् सर्वज्ञेयसर्वाकारज्ञानाच्च सर्वाकारज्ञता भगवतः परिदीपिता । त्रयः कायाः स्वाभाविकः सांभोगिको नैर्माणिकश्च । सर्वज्ञेयसर्वाकारज्ञानं पुनरत्र सर्वसत्त्वानां देवमनुष्यादीनां सर्वसंशयच्छेदेन कर्मणा निर्दिष्टम् ।
पारमितापरिपुरिविभागे श्लोकः ।
निरवग्रह निर्दोष निष्कालुष्यानवस्थित ।
आनिङ्क्ष्य सर्वधर्मेषु निष्प्रपञ्च नमो ऽस्तु ते

20.60

अनेन सकलषट्पारमिताविपक्षनिर्मुक्ततया षट्पारमितापरिपूरिर्भगवत उद्भाविता । तत्रानवग्रहत्वं भोगनिराग्रहत्वाद्वेदितव्यं । निर्दोषत्वं निर्मलकायादिकर्मत्वात् । निष्कालुष्यत्वं लोकधर्मदुःखाभ्यां चित्ताकलुषीकरणात् । अनवस्थितत्वमल्पावरण[वर]मात्राधिगमानवस्थानात् । आनिङ्क्ष्यत्वमविक्षेपात् । निष्प्रपञ्चत्वं सर्वविकल्पप्रपञ्चासमुदाचारात् ।
बुद्धलक्षणविभागे द्वौ श्लोकौ ।
निष्पन्नपरमार्थो ऽसि सर्वभूमिविनिःसृतः ।
सर्वसत्त्वाग्रतां प्राप्तः सर्वसत्त्वविमोचकः

20.61

अक्षयैरसमैर्युक्तो गुणैर्लोकेषु दृश्यसे ।
मण्डलेष्वप्यदृश्यश्च सर्वथा देवमानुषैः

मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc